श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोननवतितमः सर्गः
बुधेन परिजनापगमानन्तरमेकाकिन्याइलायाः कलत्रीकरणेन तयासहविहरणम् ॥ १ ॥ मासान्तरेपुनः पुरुषभूतेनविस्मृतस्त्रीभावेनचइलेन बुधंप्रति निजनगरगमनायाभ्यनुज्ञानयाचनम् ॥ २ ॥ बुधेनतंप्रति ससान्त्वनमावत्सरान्तंतत्रैववासविधानम् ॥ ३ ॥ बुधाद्गर्भंधृतवत्याइलया पर्यायप्राप्तेनवमेमासि पुरूरवोनामकपुरुरवोनामकपुत्रप्रसवेन तस्यबुधहस्तएवप्रत्यर्पणम् ॥ ४ ॥
श्रुत्वा किंपुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा ।
आश्रर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ॥ १ ॥
अथ रामः कथामेतां भूय एव महायशाः ।
कथयामास धर्मात्मा प्रजापतिसुतस्य वै ॥ २ ॥
किंपुरुषोत्पत्तिं किंपुरुषत्वेन तासां स्त्रीणामुत्पत्तिमित्यर्थः । अब्रूतां ॥ १-२ ॥
सर्वास्ता विद्रुतां दृष्ट्वा किन्नरीर्ऋषिसत्तमः ।
उवाच रूपसंपन्नां तां स्त्रियं प्रहसन्निव ॥ ३ ॥
सर्वासां इलाव्यतिरिक्तानां विद्रुतत्वात् हासः कामविकारमूल एव ॥ ३ ॥
सोमस्याहं सुदयितः सुतः सुरुचिरानने ।
भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ॥ ४ ॥
भक्त्या अनुरागेण । स्निग्धं स्नेहयुक्तं ॥ ४ ॥
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता ।
इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ॥ ५ ॥
महाग्रहो ग्रहदेवः ॥ ५ ॥
अहं कामचरी सौम्य तवास्मि वशवर्तिनी ।
प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ॥ ६ ॥
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः ।
स वै कामी सह तया रेमे चन्द्रमसः सुतः ॥ ७ ॥
कामचरी स्वतन्त्रा ।। ६-७ ॥
बुधस्य माधवो मासस्तामिलां रुचिराननाम् ।
गतो रमयतोत्यर्थं क्षणवत्तस्य कामिनः ॥ ८ ॥
मासो गत इत्यन्वयः ॥ ८ ॥
अथ मासे तु संपूर्ण पूर्णेन्दुसदृशाननः ।
प्रजापतिसुतः श्रीमान्शयने प्रत्यबुध्यत ॥ ९ ॥
सोपश्यत्सोमजं तत्र तपन्तं सलिलाशये ।
ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ॥ १० ॥
प्रजापतिसुतः इलः ।। ९-१० ।।
भगवन्पर्वतं दुर्गं प्रविष्टोस्मि सहानुगः ।
न तु पश्यामि तत्सैन्यं क्व नु ते मामका गताः ॥ ११ ॥
इलो विस्मृतस्वस्त्रीत्वादिवृत्तान्तः पृच्छति- भगवन्नित्यादि ॥ ११ ॥
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम् ।
प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ॥ १२ ॥
नष्टसंज्ञस्येति । गौरीशापवशादिति शेषः ॥ १२ ॥
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ।
त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ॥ १३ ॥
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः ।
फलमूलाशनो वीर निवसेह यथासुखम् ॥ १४ ।।
अश्मवर्षेणेत्यादि छद्मवचनं गिरीशशापानुरोधार्थं ॥ १३-१४ ॥
स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः ।
प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद्भृशम् ।। १५ ।।
तेन वाक्येनेति । इह यथासुखं निवसेति वाक्येनेत्यर्थः ॥ १५ ॥
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः ।
वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ॥ १६ ॥
भृत्यैर्विनाकृतोप्यहं स्वकं राज्यं न त्यक्ष्यामि त्यक्तुं न शक्नोमि । इह वसान इति शेषः । एतदेवाह-हे ब्रह्मन, क्षणमपि न वर्तयेयं । नञ इहानुकर्षः । तस्मान्मां गमनाय समनुज्ञातुमर्हसि ॥ १६ ॥
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः ।
शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ॥ १७ ॥
उक्तवृत्तान्तमेव पुनरौत्कण्ठ्य प्रदर्शनायाह-सुत इति ॥ प्रपत्स्यत इति ॥ मया गत्वा कृतादभिषेकादिति भावः ॥ १७ ॥
न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् ।
प्रतिवक्तुं महातेजः किंचिदप्यशुभं वचः ॥ १८ ॥
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् ।
सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ॥ १९ ॥
न सन्तापस्त्वया कार्य: कार्दमेय महाबल ।
संवत्सरोषितस्येह कारयिष्यामि ते हितम् ॥ २० ॥
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः ।
वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ॥ २१ ॥
मासं स स्त्री तथा भूत्वा रमयत्यनिशं शुभा ।
मासं पुरुषभावेन धर्मबुद्धिं चकार सः ॥ २२ ॥
सुखान्वितानिति । देशस्थानिति शेषः । हित्वा न शक्ष्यामीति । इह स्थातुमिति शेषः । अशुभं वचः इह निवासलक्षणानिष्टवचनं वक्तुं नार्हसीति शेषः ॥ १८-२२ ॥
ततः सा नवमे मासि इला सोमसुतात्सुतम् ।
जनयामास सुश्रोणी पुरूरवसमूर्जितम् ॥ २३ ॥
इला सोमसुतात्सुतं जनयामासेति । योजनगन्ध्यादिः पराशरादेर्व्यासादिमिव निषेकानन्तरमेवेति ज्ञेयं ॥ २३ ॥
जातमात्रं तु सुश्रोणी पितृहस्ते न्यवेशयत् ।
बुधस्य समवर्णाभमिला पुत्रं महाबलम् ॥ २४ ॥
बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् ।
कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ॥ २५ ॥
जातमात्रं तत्क्षण एव । पितृसमाकारं पितृहस्ते उपनयनादिकृत्यार्थं न्यवेशयत् ।। २४-२५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोननवतितमः सर्गः ॥ ८९ ।।