श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडिशः सर्गः
कैलासेवसता समुदितेचन्द्रे तत्रयदृच्छासमागतरंभावलोकनक्षुभितहृदाचरावणेन तत्करग्रहणेन तांप्रतिजिगमिपितदेशप्रश्नपूर्वकंभोगप्रार्थना ॥ १ ॥ तयातंप्रति स्वस्यनलकूबरा -भिलापनिवेदनेन स्नुषात्वोक्त्त्या स्वमोचनयाचने तेनबलात्तदुपभोगः ॥ २ ॥ तेनभुक्तमुक्तयारंभया नलकूबरमेत्य तस्मिन्रावणदुश्चेष्टितनिवेदनम् ॥ ३ ॥ तेनकोपात्तंप्रति अकामकामिनीभोगे सप्तधामूर्धस्फुटनविषयकशापदानम् ॥ ४ ॥ तच्छ्रवणेनरावणेनाकाम -कामिनीभोगानभिरोचनं तदपहृतपतिव्रताभिर्हर्षाधिगमश्च ॥ ५ ॥
स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् ।
अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ॥ १ ॥
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि ।
प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ॥ २ ॥
तुल्यपर्वतवर्चसि स्वनिविष्टकैलासवत्तुल्याभे ।। २ ।।
रावणस्तु महावीर्यो निषण्ण: शैलसूर्धनि ।
स ददर्श गुणांस्तत्र चन्द्रपादसुशोभितान् ॥ ३ ॥
गुणान् भोगार्हधर्मान् ।। ३ ।।
कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा ।
पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ॥ ४ ॥
चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा ।
चूतपाटललोध्रैश्च प्रियङ्ग्ग्वर्जुनकेतकैः ॥ ५ ॥
तगरैर्नारिकेलैश्च प्रियालपनसैस्तथा ।
आरग्वधैस्तमालैश्च प्रियालबकुलैरपि ॥ ६ ॥
कदम्बगहनैः कदम्बवनैः ॥ ४-६ ।।
एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे ।
किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ।
समं संप्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ॥ ७ ॥
विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः ।
योषिद्भिः सह संक्रान्ताश्चिकीडुर्जहृषुश्च वै ॥ ८ ॥
घण्टानामिव सन्नाद: शुश्रुवे मधुरस्वर: ।
अप्सरोगणसङ्घानां गायतां धनदालये ॥ ९ ॥
रक्ताः रागयुक्ताः । मधुरकण्ठिनः मधुकण्ठध्वनयः । समं स्वस्त्रीभिरिति शेषः ॥ ७-९ ॥
पुष्पवर्षाणि मुश्चन्तो नगाः पवनताडिताः ।
शैलं तं वासयन्तीव मधुमाधवगन्धिनः ॥ १० ॥
वासयन्ति अधिवासयुक्तं कुर्वन्ति । मधुमाधवगन्धिनः नित्यमेव मधुमाधवाभ्यां चैत्रवैशाखाभ्यां वसन्तमासाभ्यां गन्धिन: तत्कृतपुष्पगन्धाइत्यर्थः ।। १० ।।
मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् ।
प्रववौ वर्धयन्कामं रावणस्य सुखोऽनिलः ॥ ११ ॥
गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् ।
प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ॥ १२ ॥
रावण: सुमहावीर्य: कामस्य वशमागतः ।
विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत ॥ १३ ॥
एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता ।
सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ॥ १४ ॥
मधुपुष्परजःपृक्तं मधुना मकरन्देन पुष्परजसा च संपृक्तं ॥ ११-१४ ॥
दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा ।
दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ॥ १५ ॥
मन्दारकृतमूर्धजा मन्दारपुष्पकृतालंकारकेशीत्यर्थः ।। १५ ।।
चक्षुर्मनोहरं पीनं मेखलादामभूषितम् ।
समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ॥ १६ ॥
रतिप्राभृतं रत्युपदाभूतं रतिवर्धकमित्यर्थः ॥ १६ ॥
कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ।
बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् ।
नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ॥ १७ ॥
यस्या वक्त्रं शशिनिमं भ्रुवौ चापनिभे शुभे ।
ऊरू करिकराकारौ करो पल्लवकोमलौ ।
सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ॥ १८ ॥
तां समुत्थाय गच्छन्तीं कामबाणवशं गतः ।
करे गृहीत्वा लज्जन्तीं स्मयमानोऽभ्यभाषत ।। १९ ।।
षडर्तुकुसुमोद्भवैः षडृतकुसुमोद्भवैरित्यर्थः । ऋकारस्य गुणश्छान्दसः । विशेषकैरलंकारैरित्यर्थः । श्रीकान्तिद्युतिमतिह्रियां देवस्त्रीविशेषाणामन्यतमेव स्थिता । अभिसान्त्वेन नीलवस्त्रमादाय समवकुण्ठिता प्रावृतवती ।। १७-१९ ॥
क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् ।
कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते ॥ २० ॥
कां सिद्धिं कस्य भोगसिद्धिमित्यर्थः ॥ २० ॥
त्वंदाननरसस्याद्य पद्मोत्पलसुगन्धिनः ।
सुधामृतरसस्येव कोऽद्य तृप्तिं गमिष्यति ॥ २१ ॥
स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ ।
कस्योरस्थलसंस्पर्श दास्यतस्ते कुचाविमौ ॥ २२ ॥
सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु ।
अध्यारोहति कस्तेऽद्य जघनं स्वर्गरूपिणम् ॥ २३ ॥
मद्विशिष्टः पुमान्कोऽद्य शक्रो विष्णुरथाश्विनौ ।
मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ।। २४ ।।
विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ।
त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ॥ २५ ॥
तदेवं प्राञ्जलिः मह्वो याचते त्वां दशाननः ।
भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ॥ २६ ॥
एवमुक्ताऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः ।
प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ॥ २७ ॥
अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि ।
तद्धर्मतः स्नुषा तेऽहं तत्त्वमेव ब्रवीमि ते ॥ २८ ॥
अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् ।
रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ॥ २९ ॥
सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः ।
बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ।। ३० ।।
धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव ।
पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते ।
विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ॥ ३१ ॥
सुधामृतरसस्येव अमृतादमृतरसस्येवेत्यर्थः । तृप्तियोगे षष्ठी ॥ २१-३१ ॥
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत ।
क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ॥ ३२ ॥
धर्मतः धर्मानुष्ठानविषये ॥ ३२ ॥
तस्यास्मि कृतसंकेता लोकपालसुतस्य वै ।
तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ॥ ३३ ॥
तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ।
तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ।। ३४ ।।
स हि तिष्ठति धर्मात्मा मां प्रतीक्षन्त्समुत्सुकः ।
तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ॥ ३५ ॥
सद्भिराचरितं मार्गं गच्छ राक्षसपुङ्गव ।
माननीयो मम त्वं हि पालनीया तथाऽस्मि ते ॥ ३६ ॥
कृतसंकेता कृतरतिसंकेता । यथा तस्य भावो मां प्रति नान्यस्य तथा ममापि भावस्तं प्रति तिष्ठतीत्यर्थः ॥ ३३-३६ ॥
एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् ।
स्नुषाऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ॥ ३७ ॥
देवलोकस्थितिरियं सुराणां शाश्वती मता ।
पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥ ३८ ॥
एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले ।
कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ॥ ३९ ॥
स्नुषास्मि यदवोचः । स्नुषास्मीति यदुवोच इत्यर्थः ।। ३७-३९ ॥
सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा ।
गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ॥ ४० ॥
सा विमुक्तेति ॥ संभोगानन्तरमिति शेषः । गजेन्द्राक्रीडमथिता गजेन्द्राक्रीडेन मथिता ॥ ४० ॥
ललिताकुलकेशान्ता करवेपितपल्लवा ।
पवनेनावधूतेव लता कुसुमशालिनी ।। ४१ ॥
सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः ।
नलकूबरमासाद्य पादयोर्निपपात ह ॥ ४२ ॥
तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः ।
अब्रवीत्किमिदं भद्रे पादयोः पतितासि मे ॥ ४३ ॥
सा वै निश्वसमाना तु वेपमाना कृताञ्जलिः ।
तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ४४ ॥
करवेपितपल्लवा वेपितकरपल्लवा ॥ ४१-४४ ॥
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् ।
तेन सैन्यसहायेन निशेयं परिणामिता ॥ ४५ ॥
आयान्ती तेन दृष्टास्मि त्वत्सकाशमरिन्दम ।
गृहीता तेन पृष्टाऽस्मि कस्य त्वमिति रक्षसा ॥ ४६ ॥
मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् ।
काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ॥ ४७ ॥
याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो ।
तत्सर्वं पृष्ठतः कृत्वा वलात्तेनास्मि धर्षिता ॥ ४८ ॥
एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत ।
न हि तुल्यबलं सौम्य स्त्रियाश्च पुरुषस्य च ॥ ४९ ॥
परिणामिता यापितेत्यर्थः । इहेति शेषः ॥ ४५-४९ ॥
एतच्छ्रुत्वा तु संक्रुद्धस्तदा वैश्रवणात्मजः ।
धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह ॥ ५० ॥
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः ।
मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ५१ ॥
ध्यानं संप्रविवेशेति । एतदुक्तः सत्यो वाऽसत्यो वेति ज्ञातुमिति शेषः ॥ ५०-५१ ॥
गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि ।
उत्ससर्ज यथाशापं राक्षसेन्द्राय दारुणम् ॥ ५२ ॥
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता ।
तस्मात्स युवतीमन्यां नाकामामुपयास्यति ॥ ५३ ॥
उपस्पृश्य चक्षुरादीन्द्रियमिति शेषः ॥ ५२-५३ ॥
यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् ।
मूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥ ५४ ॥
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभ ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्युता ।
पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ॥ ५५ ॥
सप्तधा सप्तप्रकारेण शकलीभविता ॥ ५४-५५ ॥
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः ।
ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ॥ ५६ ॥
श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् ।
नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ॥ ५७ ॥
तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः ।
नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ॥ ५८ ॥
लोकगतिं लोकस्य तत्पीडामूलदुर्दशां । इदं च वचनं सीतादेव्या अक्षतत्वस्य सम्यग्रामबोधनार्थं ॥ ५६-५८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडिशः सर्गः ॥ २६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षड्विंशः सर्गः ॥ २६ ॥