श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ततितमः सर्गः
शत्रुघ्नेन लवणासुरेहते देवैः शत्रुघ्नप्रशंसनपूर्वकं तस्मैवरदानेन स्वावासगमनम् ॥ १ ॥ मधुपुर्यांप्रजापालनंकृतवताशत्रुघ्नेन द्वादशेवर्षे श्रीरामदिदृक्षया अयोध्यागमननिर्धारणम् ॥ २ ॥
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।
ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ॥ १ ॥
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः ।
हतः पुरुषशार्दूल वरं वरय सुव्रत ॥ २ ॥
वरदास्तु महावाहो सर्व एव समागताः ।
विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥ ३ ॥
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ।
प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ।। ४ ।।
इयं मधुपुरी रम्या मधुरा देवनिर्मिता ।
निवेशं प्राप्नुयाच्छीघ्रमेष मेऽस्तु वरः परः ॥ ५ ॥
मधुरा मनोहरा । निवेशं राजधानीत्वं ॥ ५ ॥
तं देवाः प्रीतमनसो बाढमित्येव राघवम् ।
भविष्यति पुरी रम्या शूरसेना न संशयः ॥ ६ ॥
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।
शत्रुघ्नोपि महातेजास्तां सेनां समुपानयत् ॥ ७ ॥
शूरा सेना यस्यां सा शूरसेना ॥ ६-७ ॥
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् ।
निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ॥ ८ ॥
श्रावणेन श्रावणमासालम्बनेन । निवेशनं स्थापनं । समारभत् समारभते स्म ।। ८ ।।
सा पुरा दिव्यसंकाशा वर्षे द्वादशमे शुभे ।
निविष्टा शूरसेनानां विषयश्चाकुतोभयः ॥ ९ ॥
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ।
अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ॥ १० ॥
द्वादशमे द्वादश इत्यर्थः । पुरा पूर्वं । प्रथमे द्वादशे वर्षे सा पुरी निविष्टा । शूरसेनानां राज्ञां विषयो देशश्चाकुतोभयो जातः ॥ ९-१० ।।
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।।
शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ।
चातुर्वर्ण्य समायुक्ता नानावाणिज्यशोभिता ॥ ११ ॥
अर्धचन्द्रप्रतीकाशा अर्धचन्द्राकारसंस्थाना ॥ ११ ॥
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् ।
तच्छोभयति शत्रुघ्नो नानावर्णोपशोभितम् ॥ १२ ॥
आरामैश्च विहारैश्च शोभमानां समन्ततः ।
शोभितां शोभनीयैश्च तथाऽन्यैर्देवमानुषैः ॥ १३ ॥
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।
नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ।। १४ ।।
तां समृद्धां समृद्धार्थ : शत्रुघ्नो भरतानुजः ।
निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ।। १५ ।।
यत्पुरा तेन लवणेन कृतं तदेव शुभ्रं सुधाधवलं कृत्वा शोभयति स्म ॥ १२-१५ ॥
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।
रामपादौ निरीक्षेऽहं वर्षे द्वादश आगते ॥ १६ ॥
ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् ।
नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ॥ १७ ॥
रामपादाविति । द्वादशवर्षातिक्रमे भ्रातृदर्शनस्य दुष्टत्वादिति भावः ॥ १६-१७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ततितमः सर्गः ॥ ७० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्ततितमः सर्गः ॥ ७० ॥