श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाशीतितमः सर्गः
स्त्रीभूतैर्निजपरिजनैस्सहवनान्तरेविहरमाणायाइलायाअवलोकनेन क्षुभितमनसातत्रसर -सितपस्यताविधुसुतेनबुधेन तत्परिचरीणांकिंपुरुषनारीकरणपूर्वकं शैलतटप्रेषणम् ॥ १ ॥
तां कथामिलसंबन्धां रामेण समुदीरिताम् ।
लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ १ ॥
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ।
विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ २ ॥
प्राञ्जली इति द्विवचनं । तस्य भावस्येति । स्त्रीपुंसभावस्येत्यर्थः ॥ २ ॥
कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः ।
पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ ३ ॥
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ।
कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ ४ ॥
तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी ।
ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥ ५ ॥
तत्काननं विगाह्माशु विजह्रे लोकसुन्दरी ।
द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥ ६ ॥
स्त्रीभूतः अतएव दुर्गतिः कथं वर्तयामास । तत्कालमिति शेषः ॥ ३-६ ॥
वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः ।
पर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥ ७ ॥
पर्वतानां आभोगो विस्तारः ॥ ७ ॥
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः ।
सर: सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥ ८ ॥
ददर्श सा त्विला तस्मिन्बुधं सोमसुतं ततः ।
ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥ ९ ॥
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् ।
यशस्करं कामकरं तारुण्ये पर्यवस्थितम् ॥ १० ॥
अविदूरतः यत्र स्त्रीत्वप्राप्तिस्तस्याविदूरत इत्यर्थः । अन्यदेशत्वात् बुधस्य स्त्रीत्वाप्राप्तिरिति भावः ॥ ८-१० ।।
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ।
सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ ११ ॥
क्षोभयामासेति । क्रीडयेति शेषः ॥ ११ ॥
बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ।
नोपलेभे तदाऽऽत्मानं संचचाल तदाऽम्भसि ।। १२ ।।
आत्मानं नोपलेभे । आत्मध्यानं न प्राप्तवानित्यर्थः । कामपरवशचित्तोभूदिति भावः ॥ १२ ॥
इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ।
चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका ।। १३ ।।
न देवीषु न नागीषु नासुरीष्वप्सरस्सु च ।
दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ १४ ॥
चिन्तां समभ्यतिक्रामत् । इलायामिति शेषः । इलाविषयकचिन्तां प्राप्त इत्यर्थः । तदेवाह – कान्वित्यादि ॥ १३-१४ ॥
सदृशीयं मम भवेद्यदि नान्यपरिग्रहः ।
इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥ १५ ॥
नान्यपरिग्रहः अन्यपरिग्रहत्वरहिता ॥ १५ ॥
आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः ।
शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥ १६ ॥
स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी ।
किमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥ १७ ॥
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ।
श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥ १८ ॥
शब्दापयत । पुगार्ष: ।। १६-१८ ।।
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।
अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥ १९ ॥
अपतिः पतिरहिता ॥ १९ ॥
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ।
विद्यामावर्तिनीं पुण्यामावर्तयत स द्विजः ॥ २० ॥
अव्यक्तपदं अस्पष्टाक्षरमित्यर्थः । आवर्तिनीं आवर्तिन्याख्यां विद्यामावर्तयत आवर्तयति स्म । प्रकृतप्रयोजनार्थं । द्विजः क्षत्रियो बुधः ॥ २० ॥
सोर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् ।
सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ २१ ॥
स बुधः तस्य राज्ञः कार्दमेः सकलमर्थं वृत्तान्तं विदित्वा । योगमाहात्म्यादिति शेषः । ताः स्त्रियः इलासहचरीः ॥ २१ ॥
अत्र किंपुरुषीभूत्वा शैलरोधसि वत्स्यथ ।
आवासस्तु गिरावस्मिञ्शीघ्रमेव विधीयताम् ॥ २२ ॥
यूयं सर्वाः किंपुरुषीभूत्वा किंपुरुषाख्यदेवयोनिस्त्रियो भूत्वा । अत्रास्मिन् शैलस्य रोधसि वत्स्यथ । अतोस्मिन् गिरौ शीघ्रमेव आवास: उटजादिः विधीयतां ।। २२ ।।
मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ।
स्त्रियः किंपुरुषान्नाम भर्तृन्त्समुपलप्स्यथ ॥ २३ ॥
स्त्रियः किंपुरुषस्त्रियो यूयं । किंपुरुषान्नाम प्रसिद्धान् भर्तॄन् समुपलप्स्यथ । अन्विष्य प्राप्स्यथेत्यर्थः ।। २३ ।।
तां श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः ।
उपासांचक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ २४ ॥
किंपुरुषीकृताः बुधस्य योगबलात्किंपुरुषस्त्रीकृता इत्यर्थः । शैलमुप शैलस्य समीप इत्यर्थः ॥ २४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टाशीतितमः सर्गः ॥ ८८ ॥