श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चत्वारिंशः सर्गः
रामेण सबहुमानपरिष्वङ्गं सुग्रीवविभीषणादीनां स्वस्वावासंप्रति प्रेषणम् ॥ १ ॥ तथा हनुमत्कण्ठे स्वकण्ठस्थमुक्ताहारार्पणपूर्वकं वरदानेनेष्टदेशं प्रतिप्रेषणम् ॥ २ ॥
तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।
राघवस्तु महातेजा: सुग्रीवमिदमब्रवीत् ॥ १ ॥
तेषामिति भावलक्षणे षष्ठी । तेषु वसत्स्विति यावत् ॥ १ ॥
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।
पालयस्व सहामात्यो राज्यं निहतकण्टकम् ।। २ ।।
अङ्गदं च महाबाहो प्रीत्या परमया युतः ।
पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ।। ३ ।।
सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् ।
कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ॥ ४ ॥
वीरं शतबलिं चैव मैन्द द्विविदमेव च ।
गजं गवाक्षं गवयं शरभं च महाबलम् ॥ ५ ॥
पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ।
ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् ।
केसरिं शरभं शुम्भं शङ्खचूडं महाबलम् ॥ ६ ॥
ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ।
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥ ७ ॥
एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनःपुनः ।
विभीषणमुवाचाथ रामो मधुरया गिरा ॥ ८ ॥
किष्किन्धां प्रतीति शेषः ॥ २-८ ॥
लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम ।
पुरस्य राक्षसानां च स्वभ्रातुः संमतो ह्यसि ॥ ९ ॥
पुरस्य पुरवर्तिप्राणिनां राक्षसादीनां स्वभ्रातुर्वैश्रवणस्य च संमतो ह्यसि परमाप्तोसि । भ्रातुर्वैश्रवणस्य चेति पाठे संमतोसीति शेषः ॥ ९ ॥
मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथंचन ।
बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥ १० ॥
अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ।
स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥ ११ ॥
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।
साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनःपुनः ॥ १२ ॥
ध्रुवं शाश्वतं ।। १०-१२ ।।
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ।
माधुर्यं परमं राम स्वयंभोरिव नित्यदा ॥ १३ ॥
तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् ।
हनूमान्प्रवणो भूत्वा राघवं वाक्यमब्रवीत् ॥ १४ ॥
अद्भुतं वीर्यं जगदद्भुतकरं शौर्यं ॥ १३-१४ ॥
स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ।
भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ॥ १५ ॥
स्नेहः सुहृदि प्रीतिः । भक्तिः उत्कृष्टे प्रीतिः ॥ १५ ॥
यावद्रामकथा वीर चरिष्यति महीतले ।
तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ॥ १६ ॥
यच्चैतच्चरितं दिव्यं कथां ते रघुनन्दन ।
तन्ममाप्सरसो नाम श्रावयेयुर्नरर्षभ ॥ १७ ॥
तच्छ्रुत्वाऽहं ततो वीर तव चर्यामृतं प्रभो ।
उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ॥ १८ ॥
एवं ब्रुवाणं रामस्तु हनुमन्तं वरासनात् ।
उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ॥ १९ ॥
एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः ।
चरिष्यति कथा यावदेषा लोके च मामिका ।
तावत्ते भविता कीर्तिः शरीरेऽप्यसवस्तथा ॥ २० ॥
तावच्छरीरे वत्स्यन्ति त्वत्कथामृतरसास्वादबलादिति भावः ॥ १६-२० ।।
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यन्ति मे कथा ॥ २१ ॥
एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ।
[ शेषस्येहोपकाराणां भवाम ऋणिनो वयम् ॥ २२ ॥
मदने जीर्णतां यातु यत्त्वयोपकृतं कपे ] ।
नरः प्रत्युपकाराणामापत्स्वायाति पात्रताम् ॥ २३ ॥
एवं शब्दार्थं विवृणोति–लोका हीति ॥ २१-२३ ॥
ततोस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः ।
वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ॥ २४ ॥
तरलो हारमध्यगो मणिः ।। २४ ।।
तेनोरसि निबद्धेन हारेण महता कपिः ।
रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ २५ ॥
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।
प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥ २६ ॥
हेमशैलेन्द्रः मेरुः । चन्द्रेण चन्द्रकिरणै: । आक्रान्तमस्तकः आक्रान्तकर्णप्रदेश इत्यर्थः ॥ २५-२६ ।।
सुग्रीवः स च रोमेण निरन्तरमुरोगतः ।
विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लबाः ॥ २७ ॥
निरन्तरं उरोगत इति । गाढपरिष्वक्त इत्यर्थः ॥ २७ ॥
सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः ।
संमूदा इव दुःखेन त्यजन्तो राघवं तदा ॥ २८ ॥
विचेतसः वियोगस्विन्नचेतसः ॥ २८ ॥
कृतप्रसादास्तेनैवं राघवेण महात्मना ।
जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥ २९ ॥
ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् ।
वियोगजाश्रुप्रतिपूर्णलोचना: प्रतिप्रयातास्तु यथा निवासिनः ॥ ३० ॥
देहं त्यजन् देहीव रामवियोगस्विन्ना इत्यर्थः । युद्धकाण्डान्ते वानरादीनां विसर्जनोक्तिः काण्डसमापनायात्रैव विसर्जनं तत्रोक्तमिति मन्तव्यम् ॥ २९-३० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ ४० ॥