श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकषष्टितमःसर्गः
च्यवनेन रामंप्रति स्वकार्यनिवेदनोपक्रमः ॥ १ ॥ मधुनामकेनासुरवरेण तपस्तोपिता -न्महादेवाच्छूलदानपूर्वकं यावच्छूलधारणं सपुत्रस्यस्वस्यावध्यत्ववरसंपादनम् ॥ २ ॥ लवणनाम्नोनिजतनयस्यदौश्शील्यनिर्विण्णेनमधुना लवणेशूलार्पणपूर्वकं वरुणालयप्रवेशः ॥ ३ ॥ शूललाभदृप्तेनलवणेन रावणेनेवत्रैलोक्यपीडनारंभः ॥ ४ ॥ एवंच्यवनेन रामंप्रतिलवणासुरदौश्शील्यनिवेदनपूर्वकं तस्माल्लोकरक्षणप्रार्थना ॥ ५ ॥
एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् ।
किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ॥ १ ॥
तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।
भयानां शृणु यन्मूलं देशस्य च नरेश्वर ॥ २ ॥
पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः ।
लोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥ ३ ॥
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।
सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाऽभवत् ॥ ४ ॥
स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः ।
बहुवर्षसहस्राणि रुद्रप्रीत्याऽकरोत्तपः ॥ ५ ॥
रुद्रः प्रीतोऽभवत्तस्मै वरं दातुं ययौ च सः ।
बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥ ६ ॥
लोलायाः पुत्रो लोलापुत्रः ॥ ३-६ ॥
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।
ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ ७ ॥
त्वयाऽयमतुलो धर्मो मत्प्रसादकरः कृतः ।
प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ ८ ॥
शूलाच्छूलं विनिष्कृष्येति । स्वशूलाच्छक्तिमाकृष्य सृष्ट्वेत्यर्थः ।। ७-८ ।।
यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।
तावच्छूलं तवेदं स्यादन्यथा नाशमेष्यति ॥ ९ ॥
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।
तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ १० ॥
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।
प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ ११ ॥
भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।
भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ १२ ॥
तं ब्रुवाणं मधु देवः सर्वभूतपतिः शिवः ।
प्रत्युवाच महातेजा नैतदेवं भविष्यति ॥ १३ ॥
नाशं अदर्शनं ।। ९-१३ ॥
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा ।
भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ॥ १४ ॥
यावत्करस्थः शूलोयं भविष्यति सुतस्य ते ।
अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ १५ ॥
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ।
भवनं सोसुरश्रेष्ठः कारयामास सुप्रभम् ॥ १६ ॥
मत्प्रसादकृता मत्प्रसादजसंतोषजनितेत्यर्थः ॥ १४-१६ ॥
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ।
विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ।। १७ ।।
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।
बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ।। १८ ।।
तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ।
मधुः स शोकमापेदे न चैनं किंचिदब्रवीत् ॥ १९ ॥
कुम्भीनसी माल्यवत्पुत्र्याः अनलायाः सुता रावणस्वसा पूर्वं मधुना हृतेति विभीषणेन रावणं प्रत्युक्ता । हिः प्रसिद्धौ ।। १७-१९ ।।
स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् ।
शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ २० ॥
स प्रभावेन शुलस्य दौरात्म्येनात्मनस्तथा ।
संतापयति लोकांस्त्रीन्विशेषेण च तापसान् ॥ २१ ।।
एवंप्रभावो लवणः शूलं चैव तथाविधम् ।
श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥ २२ ॥
बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा ।
अभयं याचिता वीर त्रातारं न च विद्महे ॥ २३ ॥
ते वयं रावणं श्रुत्वा हृतं सबलवाहनम् ।
त्रातारं विद्महे तात नान्यं भुवि नराधिपम् ।
तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ॥ २४ ॥
इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् ।
विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ॥ २५ ॥
वरं न्यवेदयत् यावच्छूलं तव हस्ते तावदवध्यत्वं तवेत्येवंरूपं वरवृत्तान्तं ।। २०-२५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकषष्टितमःसर्गः॥ ६१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥