श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्षष्टितमःसर्गः
शत्रुघ्नेन रामाज्ञयामहर्षिपुरस्कारेण सेनाप्रस्थापनपूर्वकं पश्चान्मासानन्तरं लवणविजयाय -प्रस्थानम् ॥ १ ॥
एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः ।
पुनरेवापरं वाक्यमुवाच रघुनन्दनः ॥ १ ॥
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ ।
रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ॥ २ ॥
अथ शत्रुघ्नप्रस्थापनं – एवमित्यादि ॥ १-२ ॥
अन्तरा पण्यवीथ्यश्च नानापण्योपशोभिताः ।
अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ॥ ३ ॥
अन्तरा मध्ये निवासस्थले नानापण्यैरुपशोभिताः । नानावर्णोपशोभिताः । इति पाठे वर्णाः ब्राह्मणादयः । आपणवीथ्यस्तस्प्रवर्तकाः ।। ३ ।।
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ ।
आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ॥ ४ ॥
पर्याप्तधनवाहन इत्यत्र धनं पश्वादयः ॥ ४ ॥
बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् ।
संभाषासंप्रदानेन रज्जयस्व नरोत्तम ॥ ५ ॥
सुभृतं सुसंपूर्णं । संभाषायाः सम्यग्वचनस्य संप्रदानेन उक्त्या ॥ ५ ॥
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ।
सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठति राघव ॥ ६ ॥
यत्र प्रदेशे तिष्ठसि स्थास्यसि । तत्र वनप्रदेशे अर्था न सन्ति अतः सर्व गृहीत्वा गन्तव्यमित्यर्थः ॥ ६ ॥
ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।
एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ॥ ७ ॥
प्रस्थाप्य संस्थाप्य । मासमात्रोपितः अयोध्यायां पथि एक एव गच्छ ॥ ७ ॥
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् ।
लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ।। ८ ।।
एवं हि पूर्वजेन संमन्त्रितो लवणवधार्थं सेनया सह शत्रुघ्नो यातीति वार्तापरिहारार्थं केवलं बलमेवाग्रे मुनिभिः सह गच्छतु । तच्चग्रीष्मावशेषेण शनैः शनैर्गङ्गायाः परतीरे विशतु । ब्राह्मणैः समुद्योजितं बलं श्रुत्वा स विश्वस्य वर्तते । तत्रान्तरे त्वमस्मान्नगरात् केवलं ब्राह्मणान्गृहीत्वा अज्ञातं गत्वा तं जहीति । अशङ्कितं त्वदागतिशङ्कारहितं यथा भवति तथा ।। ८ ।।
न तस्य मृत्युरन्योस्ति कश्चिद्धि पुरुषर्षभ ।
दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि ॥ ९ ॥
मृत्युर्मारकः । अन्यः अशङ्किततया तदुपरोधकव्यतिरिक्तः । नास्ति । एतदेवोपपाद्यति – दर्शनमित्यादि ॥ ९ ॥
स हि ग्रीष्मेऽपयाते तु वर्षारात्र उपागते ।
हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः ॥ १० ॥
वसन्ते प्रस्थितस्यापि न स युद्धकाल इत्याह-स हीत्यादि । वर्षारात्रे वर्षाकाले । समासान्त आर्षः । स हि काल इति । वर्षासु राजानः केपि युद्धाय न निर्गच्छन्तीति निर्भयो निःशूल एव चरति । अतः स एवास्य वधावसर इति भावः ॥ १० ॥
महर्षीस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः ।
यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ॥ ११ ॥
तर्हीदानीं निर्गमने किं प्रयोजनमित्यत्राह – महर्षीनिति ॥ ११
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः ।
अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ॥ १२ ॥
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् ।
सेनामुख्यान्त्समानीय ततो वाक्यमुवाच ह ॥ १३ ॥
॥ तत्र जाह्नवीपरतीरे । अग्रतः परमार्ग इत्यर्थः । धनुषा सार्धं नान्येन बलेनेत्यर्थः ॥ १२-१३ ॥
एते वो गणिता वासा यत्र तत्र निवत्स्यथ ।
स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ॥ १४ ॥
तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् ।
कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥ १५ ॥
रामं प्रदक्षिणीकृत्य शिरसाऽभिप्रणम्य च ।
रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ॥ १६ ॥
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ।
पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ।
प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ॥ १७ ॥
प्रस्थाप्य सेनामथ सोग्रतस्तदा गजेन्द्रवाजिप्रवरौघसंकुलाम् ।
उवास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ॥ १८ ॥
एते प्रसिद्धा इत्यर्थः । वः युष्माकं । वासा गणिताः । यत्र यत्र गणिते वासे निवत्स्यथ तत्र तत्राविरोधेनैव स्थातव्यं ।। १४-१८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्षष्टितमःसर्गः॥६४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुष्षष्टितमः सर्गः ॥ ६४ ॥