श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शततमः सर्गः
महोदरादिनिधनक्रुद्धेनरावणेन सूतंप्रति रामवधप्रतिज्ञानेनरथतुरगचोदनचोदनापूर्वकं लक्ष्मणातिक्रमणेनरामंप्रत्यभियानम् ॥ १ ॥ रामरावणाभ्यां विचित्रास्त्रनिकरप्रयोगेण समरप्रवर्तनम् ॥ २ ॥
महोदरमहापार्श्वो हतौ दृष्ट्वा तु राक्षसौ ।
तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ।
आविवेश महान्क्रोधो रावणं तं महामृधे ॥ १ ॥
सूतं संचोदयामास वाक्यं चेदमुवाच ह ॥ २ ॥
निहतानाममात्यानां रुद्धस्य नगरस्य च ।
दुःखमेषोपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥ ३ ॥
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् ।
प्रशाखा यख सुग्रीवो जाम्बवान्कुमुदो नलः ॥ ४ ॥
मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः ।
हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥ ५॥
स दिशो दश घोषेण रथस्यातिरथो महान् ।
नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत ॥ ६ ॥
पूरिता तेन शब्देन सनदीगिरिकानना ।
संचचाल मही सर्वा सवराहमृगद्विपा ॥ ७॥
तामसं स महाघोरं चकारास्त्रं सुदारुणम् ।
निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः ॥ ८ ॥
अथ रामरावणयुद्धारम्भः शततमे–महोदरेत्यादि ॥ तस्मिन् विरूपाक्षे निहते सति पश्चान्महोदरमहापार्श्वौ हतौ दृष्ट्वा स्थितमिति शेषः ।। १-८ ॥
उत्पपात रजो घोरं तैर्भग्नैः संप्रधावितैः ।
न हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥ ९ ॥
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ।
दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥ १० ॥
सहितुं सोढुं । आर्ष इडागमः ॥ ९–१० ।।
ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम् ।
स ददर्श ततो रामं तिष्ठन्तमपराजितम् ॥ ११ ॥
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ।
आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ॥
पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम् ॥ १२ ॥
तव इत्यादिसार्धश्लोकद्वयेन रामस्यापराजितत्वं निरवधिकसौन्दर्यनिधित्वेन वैरं विहाय निरन्तरानुभाव्यत्वं रावणस्य दुर्बुद्धित्वं अमृतप्रवाहमावर्तेनेव महता धनुर्वरेणावर्तितं श्रीरामदेहलावण्यामृतपूरमनवगाहमानस्य तस्य दौर्भाग्यं चोच्यते ।। ११-१२ ॥
ततो रामो महातेजाः सौमित्रिसहितो बली ।
वानरांश्च रणे भग्नानापतन्तं च रावणम् ।
समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥ १३ ॥
ततो राम इत्यादिसार्धश्लोक एकान्वयः ॥ हृष्टः चिराद्वैरी समागत इति संतुष्टः । कार्मुकं जग्राह ॥ १३ ॥
विस्फारयितुमारेभे ततः स धनुरुत्तमम् ।
महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ १४ ॥
विस्फारयितुमारेभ इत्यादि विलम्बोक्त्या किमिदानीमपिवा नतोभविष्यति रावण इति रामस्य दयालुतोच्यते ॥ १४ ॥
रावणस्य च बाणौघै रामविस्फारितेन च ।
शब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ॥ १५ ।।
रावणस्य बाणौघैः रामविस्फारितेन च जातेन शब्देनेत्यर्थः ॥ १५ ॥
तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः ।
स बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥ १६ ॥
तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः ।
मुमोच धनुरायम्य शरानग्निशिखोपमान् ॥ १७ ॥
तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ।
बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ १८ ॥
एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश ।
लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् ।। १९ ।।
शशिसूर्ययोरिति । अमायामिति शेषः ॥ १६-१९ ॥
अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः ।
आससाद ततो रामं स्थितं शैलमिवाचलम् ।। २० ।।
स सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः ।
व्यसृजच्छरवर्षाणि रावणो राघवोपरि ॥ २१ ॥
शरधारास्ततो रामो रावणस्य धनुश्च्युताः ।
दृष्ट्वैवापततः शीघ्रं भल्लाञ्जग्राह सत्वरम् ॥ २२ ॥
ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः ।
दीप्यमानान्महाघोरान्क्रुद्धानाशीविषानिव ॥ २३ ॥
राघवो रावणं तूर्णं रावणो राघवं तदा ।
अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥ २४ ॥
चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् ।
बाणवेगात्समुत्क्षिप्तावन्योन्यम पराजितौ ॥ २५ ॥
अभ्यतिक्रम्य एकस्यापि बाणस्य स्वस्मिन्नपतनादनाद्रेणातिक्रम्य ॥ २०-२५ ॥
तयोर्भूतानि वित्रेसुर्युगपत्संप्रयुध्यतोः ।
रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ २६ ॥
यमान्तकनिकाशयोः यमतदन्तकौ यमरुद्रौ तत्तुल्ययोः ॥ २६ ॥
संततं विविधैर्बाणैर्बभूव गगनं तदा ।
घनैरिवातपापाये विद्युन्मालासमाकुलैः ॥ २७ ॥
गगनं संततं निबिडं बभूवेत्यन्वयः ॥ २७ ॥
गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ॥ २८ ॥
गवाक्षितमित्यर्धं ॥ गवाक्षितं संजातगवाक्षं ॥ २८ ॥
महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ।
शरान्धकारं तौ भीमं चक्रतुः समरं तदा ॥
गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥ २९ ।।
महावेगैरित्यादिसार्धश्लोक एकान्वयः ॥ गृध्रपत्रैः हेतुभिः । सुवाजितैः संजातशोभनपक्षैः । बाणैरिति शेषः ॥ २९ ॥
बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः ।
अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ ३० ॥
उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ ।
उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥ ३१ ॥
अनासाद्यं इतः पूर्वं केनापि दुर्लभं । अचिन्त्यं रावणस्यैवं भविष्यतीति चिन्तानर्हं ।। ३०-३१ ।।
उभौ हि येन व्रजतस्तेनतेन शरोर्मयः ।
ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ ३२ ॥
येन येन मण्डलचारेण ॥ ३२ ॥
ततः संसक्तहस्तस्तु रावणो लोकरावणः ।
नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ ३३ ॥
रौद्रचापंप्रयुक्तां तां नीलोत्पलदलप्रभाम् ।
शिरसा धारयन्रामो न व्यथां प्रत्यपद्यत ॥ ३४ ॥
संसक्तहस्तः बाणप्रयोगासक्तहस्तः ॥ ३३-३४ ॥
अथ मन्त्रानभिज पन्रौद्रमस्त्रमुदीरयन् ।
शरान्भूयः समादाय रामः क्रोधसमन्वितः ।
मुमोच च महातेजाश्चापमायम्य वीर्यवान् ॥ ३५ ॥
शरान् रौद्रास्त्रप्रपञ्चरूपान्बाणान् मुमोचेत्यन्वयः मुमोच च महातेजाश्चापमायम्य वीर्यवानिति पाठः । तदनन्तरं । ते महामेघसंकाश इति श्लोकः । तदनन्तरं पुनरेवेति श्लोकः । तदनन्तरं ते भित्त्वेति श्लोकात्पूर्वं ग्रन्थपतनमस्ति तदन्वेष्टव्यं ॥ ३५ ॥
[ ताञ्छरान्राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः । ]
ते महामेघसंकाशे कवचे पतिताः शराः ।
अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥ ३६ ॥
अवध्ये अभेद्ये । व्यथां न जनयन् नाजनयन् ॥ ३६ ।।
पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् ।
ललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे ॥ ३७ ॥
ललाटे विषये ललाटमुद्दिश्येत्यर्थः । यद्वा परमास्त्राणि विव्याधेति शेषः ॥ ३७ ॥
ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ।
श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ॥ ३८ ॥
निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः ।
आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार ह ॥ ३९ ॥
ते अस्त्रविकृतिरूपाः शराः बाणरूपाणि रावणास्त्राणि । भित्त्वा रावणप्रतिकूलिताः रावणेन निवारिताः सन्तः भूमिं विविशुः ॥ ३८-३९ ॥
सिंहव्याघ्रमुखांचान्यान्कङ्ककाकमुखानपि ।
गृध्रश्येनमुखांश्चाऽपि सृगालवदनांस्तथा ॥ ४० ॥
ईहामृगमुखांश्चान्यान्व्यादितास्यान्भयानकान् ।
पञ्चास्याँल्लेलिहानांश्च ससर्ज निशिताञ्शरान् ॥४१॥
शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् ।
श्वानकुकुटवक्रांश्च मकराशीविषाननान् ॥ ४२ ॥
एतानन्यांश्च मायावी ससर्ज निशिताञ्शरान् ।
रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥ ४३ ॥
आसुरास्त्रं प्रपञ्चयति सिंहेत्यादि श्लोकंचतुष्टयेन लेलिहानान् सर्पान् । तदाकारानिति यावत् । श्वानशब्दोप्यस्ति । मकराशीविषाननानित्यत्रआशीविषशब्दः पञ्चास्यसर्पेतरसर्पपरः ।। ४०-४३ ॥
आसुरेण समाविष्टः सोस्त्रेण रघुनन्दनः ।
ससर्जास्रं महोत्साहः पावकं पावकोपमः ॥ ४४ ॥
पावकं पावकसंबन्धि ॥ ४४ ॥
अग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि ।
चन्द्रार्धचन्द्रवक्रांश्च धूमकेतुमुखानपि ॥ ४५ ॥
ग्रहनक्षत्रवक्रांश्च महोल्कामुखसंस्थितान् ।
विद्युज्जिहोपमांश्चान्यान्ससर्ज निशिताञ्शरान् ॥ ४६ ॥
ते रावणशरा घोरा राघवास्त्रसमाहताः ।
विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ॥ ४७ ॥
तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।
हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः ।
सुग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ॥ ४८ ॥
पावकास्त्रं प्रपञ्चयति–अग्नीत्यादिश्लोकद्वयेन महोल्कामुखसंस्थितान् महोल्कामुखेन वर्तमानान् । विद्युज्जिह्वोपमान् विद्युदर्चिः सदृशान् कणा जिह्वास्तथार्चिषः इति हलायुधः ॥ ४५-४८ ॥
ततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिस्सृतम् ।
मुदान्वितो दाशरथिर्महाहवे विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥ ४९ ॥
तत् प्रसिद्धं । मुदान्वितः बभूवेति शेषः ॥ ४९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शततमः सर्गः ॥ १०० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने शततमः सर्गः ॥ १०० ।।