श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पडत्युत्तरशततमः सर्गः
पुष्पकस्थेनरामेण सीतांप्रति लंकाकिष्किन्धयोर्मध्येविद्यमानयुद्धभूमिसेतुप्रभृतीनां प्रदर्शनम् ॥ १ ॥ किष्किन्धांदृष्टवत्यासीतया ताराप्रभृतिवानरनारीणांसहानयनंप्रार्थितेनरामेण सुग्रीवेणतासामानयनम् ॥ २ ॥ तथा पुनःसीतांप्रति किष्किन्धायोध्ययोर्मध्यस्थपंपादिप्रदर्शन -पूर्वकमयोध्याप्रदर्शनम् ॥ ३ ॥ सीतयासुग्रीवादिभिश्च सहर्षकौतुकमयोध्यादर्शनम् ॥ ४ ॥
अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् ।
उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥ १ ॥
अथ विलासेन सीतायै तत्तद्देशप्रदर्शनं – अनुज्ञातं त्वित्यादि ॥ १ ॥
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।
अब्रवीन्मैथिलीं सीतां रामः: शशिनिभाननाम् ॥ २ ॥
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् ।
लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ॥ ३ ॥
मैथिलीं राजपुत्रीलेन लालनीयत्वोक्तिः ॥ २-३ ।।
एतदायोधनं पश्य मांसशोणितकर्दमम् ।
हरीणां राक्षसानां च सीते विशसनं महत् ॥ ४ ॥
आयोधनं युद्धभूमिं । विशस्यन्वेस्मिन्नितिविशसनं । अधिकरणे ल्युट् ॥ ४ ॥
अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः ।
तव हेतोर्विशालाक्षि रावणो निहतो मया ॥ ५ ॥
दत्तवरः ब्रह्मणा दत्तवरः । प्रमाथी हिंसकः शेते । भस्मस्वरूपेणेत्यर्थः ।। ५ ।।
कुम्भकर्णोत्र निहतः प्रहस्तश्च निशाचरः ।
धूम्राक्षश्चात्र निहतो वानरेण हनूमता ॥ ६ ॥
प्रहस्तश्चेत्यत्र नीलेनेत्यध्याहार्यं ॥ ६ ॥
विद्युन्माली हतश्चात्र सुषेणेन महात्मना ॥ ७ ॥
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ।
अङ्गदेनात्र निहतो विकटो नाम राक्षसः ॥ ८ ॥
विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ ।
अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः ॥ ९ ॥
[ त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ।
युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ ॥ १० ॥
निकुंभश्चैश्च कुंभश्च कुंभकर्णात्मजो बली ।
वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः ॥ ११ ॥
मकराक्षश्च दुर्धर्षो मया युधि निपातितः ।
अकंपनश्च निहतः शोणिताक्षश्च वीर्यवान् ॥ १२ ॥
यूपाक्षश्च प्रजंघश्च निहतौ तु महाहवे ।
विद्युज्जिह्वोत्र निहतो राक्षसो भीमदर्शनः ॥ १३ ॥
यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः ।
सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथाऽपरः ॥ १४ ॥ ]
अत्र मण्डोदरी नाम भार्या तं पर्यदेवयत् ।
सपत्नीनां सहस्रेण सास्रेण परिवारिता ॥ १५ ॥
विद्युन्मालीति । पूर्वमनुक्तमप्यत्रानुवादावाह्यं । एवं विकट इत्यत्रापि ॥ ७-१५ ॥
एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ।
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ॥ १६ ॥
तीर्थं उत्तरणस्थानं । यत्र तीर्थे तां रात्रिं सागरतरणरात्रिं ॥ १६ ॥
एष सेतुर्मया बद्धः सागरे सलिलार्णवे ।
तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ॥ १७ ॥
सागरे सगरखानिते । सलिलेति क्षीरोदादिव्यावृत्तिः । एष सेतुः नलसेतुः नलबद्धः । षिञ् बन्धने इति धातुः । एतेन नलसेतुः सेतुरित्युक्त्या पूर्वकल्पकृतसेत्वन्तरं व्यावर्त्यते इति प्रत्युक्तं । पूर्वमेव सेतुसत्त्वे पुनः सेतुकरणवैयर्थ्यात् ।। १७ ।।
पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ।
अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ॥ १८ ॥
अपारं मध्ये द्वीपभूतपाररहितं ॥ १८ ॥
हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ।
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ॥ १९ ॥
हिरण्यनाभं मैनाकं ॥ १९ ॥
एतत्कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ।। २० ।।
एतदित्यर्थं ॥ कुक्षौ मध्ये । सेतूपरीति शेषः । स्कन्धावारनिवेशनं स्कन्धावारनिवेशन -रूपस्थानं । स्कन्धावारः शिबिरं ॥ २० ॥
एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः ।
सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् ।।
एतत्पवित्रं परमं महापातकनाशनम् ॥ २१ ॥
एतत्त्वित्यादिसार्धश्लोकमेकं वाक्यं ॥ पूजितं पूजितुमर्हं । पूर्वं सेतोदक्षिणकोटिरुक्ता । अत्रोत्तरकोटिरिति ज्ञेयं । अनुगृह्णाति-एतदिति । पवित्रं पावनं । महापातकनाशनं च । भविष्यतीति शेषः ॥ २१ ॥
अत्र पूर्व महादेवः प्रसादमकरोत्प्रभुः ॥ २२ ॥
एवं लड्ङ्कामारभ्य सेतुबन्धपर्यन्तमुक्त्वा तत उत्तरे दुर्भशयनस्थानं निर्दिशति-अत्र पूर्वमिति ॥ महादेव इति समुद्रराज उच्यते औचित्यात् । प्रभुः समुद्रजलाधिष्ठाता । प्रसादमकरोत् सागरं शोषयिष्यामीति कुपितस्य मे प्रसादं प्रसन्नत्वं । अकरोत् । प्रसादस्तु प्रसन्नता इत्यमरः । न त्वत्र रुद्रो महादेवः । तेन पूर्वं प्रसादकरणानुक्तेः । पूर्वोक्तानामेव ह्यत्रानुवादः कृतः । न चाङ्गदेन विकटनिरसनस्य पूर्वमनुक्तत्वेपि यथानुवादात्तत्सिद्धिः तथात्रापि भविष्यतीति वाच्यं तद्वदत्राविरोधाभावात् । उपलभ्यते हि विरोध: । तथाहि । तत्र प्रसादः किं सेतुनिर्माणकाले वा पुनरागमनकाले वा । नाद्यः । प्रसादकरणहेतुरावणवधादेरभावात् पूर्वसिद्धसमुद्रप्रसादेनैवोपपत्तेश्च महादेवसमाख्यायाः समुद्रप्रसादश्रुत्या बाधितुं युक्तत्वाच्च । न द्वितीयः । पूर्वशब्दविरोधात् । नच पूर्वमित्यस्य पूर्वकल्प इत्यर्थ इति वाच्यं । आसानं मानुषं मन्ये इति वदता सुग्रीवादिसन्निधौ स्वस्य विष्ण्ववतारत्वद्योतकपूर्ववृत्तोद्घाटनानौचित्यात् । पूर्वकल्पकृतसेतुसद्भावे पुनस्तन्निर्माणवै -यर्थ्यात् । किंच अत्रेतिपदस्य पूर्वश्लोकोक्तनलकारितसेतुपरमार्शित्वमेवोचितं । नतु पूर्वकल्पकृतसेतुपरामर्शत्वं । तस्य सद्भावेप्यन्तरितत्वसंभवात् । ननु पुराणान्तरानुसारात्तदर्थपरत्वं युक्तं । तथाहि कूर्मपुराणे- सेतुमध्ये महादेवमीशानं कृत्तिवाससम् । स्थापयामास वै लिङ्गं पूजयामास राघवः ॥ तस्य देवो महादेवः पार्वया सह शङ्करः । प्रत्यक्षमेव भगवान्दत्तवान्वरमुत्तमम् ॥ ये त्वया स्थापितं लिङ्गं द्रक्ष्यन्तीह द्विजातयः । महापातकसंयुक्तास्तेषां पापं विनश्यति ॥ अन्यानि चैव पापानि तीरे तत्र महोदधेः । दर्शनादेव लिङ्गस्य नाशं यान्ति न संशयः ॥ यावत्स्थास्यन्ति तरवो यावदेव च मेदिनी । यावत्सेतुश्च तावच्चं स्थास्याम्यत्र तिरोहितः ॥ स्नानं दानं जपः श्राद्धं भविष्यत्यक्षयं ततः । स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति ॥ इत्युक्त्वा भगवान्वाचं परिष्वज्य च राघवम् । सनन्दी सगणो रुद्रस्तत्रैवान्तरधीयत इति ॥ पाद्मे पुराणेपि-राम: पुष्पकावरुह्य महादेवं प्रतिष्ठापितवान् सोस्मै प्रसन्नोभूदित्युच्यते । एतादृशपुराणवचनानुसारेणायं लोकोलिङ्गप्रतिष्ठां बोधयतीति । मैवं । उक्तदोषानिस्तारात्, इतिहासो हि परिप्रहातिशयात् ग्रन्थसौष्ठवाच्च, इतिहास पुराणं पञ्चममित्यादावधिकाक्षरत्वेपि पूर्वप्रयोगेणाभ्यर्हितत्वाच्च पुराणेभ्यो गरीयानिति वेदः प्राचेतसादासीत्’ इति वेदमयत्वोत्या चतुर्मुखवरप्रदानमूलतया च प्रबलतरः । तद्विरोधे तामसपुराणवचनानि न प्रमाणानि । किंच पुराणं सर्गप्रतिसर्गादिष्वन्यपरमिति नेतिहासवत्पुरावृत्तकथने तात्पर्यवत् । अथवा, अस्मिन्सर्गे श्लोकाः प्रायशो व्यत्यस्ता दृश्यन्ते इत्युडारिप्रभृतिभिरुक्तं । तथा चेदमर्धं अत्र मण्डोदरीति श्लोकानन्तरं पठितव्यं । तत्र च महादेवप्रसादः स्वपितृदर्शनमेव । अतएव भरतं प्रति हनुमत्प्रेषणावसरे वक्ष्यति – महादेवप्रसादाच्च पित्रा मम समागमम् इति । पुराणान्तरं तु माहात्म्यप्रतिपादनपरं बोध्यमिति संक्षेपः ॥ २२ ॥
अत्र राक्षसराजोऽयमाजगाम विभीषणः ॥ २३ ॥
अत्र राक्षसराज इति ॥ अत्र समुद्रराजप्रसादप्रदेशादुत्तरतः ॥ २३ ॥
एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ।
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ॥ २४ ॥
पम्पावनमधुवनाद्यपेक्षया चित्रकाननेत्युक्ति: ॥ २४ ॥
अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ।
अब्रवीत्प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ।। २५ ।।
प्रणयसाध्वसा प्रणययुक्तसाध्वसवती । प्रणतसाध्वसेति पाठे उपनतसाध्वसा । सुग्रीवादिसन्निधानात्प्रणयसाध्वसेति प्रथमभाषणरूपत्वाद्वा ॥ २५ ॥
सुग्रीवप्रिय भार्याभिस्ताराप्रमुखतो नृप ।
अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् ॥
गन्तुमिच्छे सहायोध्यां राजधानीं त्वयाऽनघ ॥ २६ ॥
सुग्रीवेत्यादिसार्धश्लोक एकान्वयः ॥ अहं ताराप्रमुखतः ताराप्रमुखाभिः सुग्रीवप्रियभार्याभिः सह अन्येषां वानरेन्द्राणां स्त्रीमिश्च परिवृता सती त्वया सह अयोध्यां गन्तुं इच्छे इच्छामीति संबन्धः । आत्मनेपदमार्षम् ॥ २६ ॥
एवम्मुक्तोथ वैदेह्या राघवः प्रत्युवाच ताम् ।
एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ॥
विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ॥ २७ ॥
एवमित्यादिसार्धश्लोक एकान्वयः ॥ एवमस्त्विति सीतां प्रत्युवाच । अथ किष्किन्धां प्राप्य विमानं संस्थाप्य सुग्रीवं प्रेक्ष्योवाचेति संबन्धः ॥ २७ ॥
ब्रूहि वानरशार्दूल सर्वान्वानरपुङ्गवान् ।
स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया ॥ २८ ॥
यान्त्वित्यत्र इतिकरणं द्रष्टव्यं । सीतया निमित्तभूतया । सीताप्रियार्थमित्यर्थः ॥ २८ ॥
तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ।
अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर ॥ २९ ॥
तथा त्वमपीति अत्र याहीति विपरिणामेन संबन्ध: । अभित्वरस्व । किष्किन्धायां विलम्बो न कार्य इत्यर्थः ॥ २९ ॥
एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ।
वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः ॥ ३० ॥
सर्वैः समावृतो वानराधिपतिरुक्त इत्यन्वयः ॥ ३० ॥
प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत ॥ ३१ ॥
प्रविश्येति ॥ अर्धमेकं वाक्यं । प्रवेश : सुग्रीवस्यैव नतु वानराणां । भाषत अभाषत ॥ ३१ ॥
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् ।
राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥ ३२ ॥
नारीभिः स्त्रीभिः सह अनुज्ञाता । अयोध्यागमनं प्रतीति शेषः । त्वं च वानरस्त्रियश्चानुज्ञाता इत्यर्थ: । नारीणामिति पाठे तृतीयार्थे षष्ठी ॥ ३२ ॥
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः ।
अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ॥ ३३ ॥
गृह्य गृहीत्वा । आनीयेति यावत् । दर्शयिष्यामः द्रक्ष्यामः । दशरथस्त्रियः दशरथस्त्रियश्च ॥ ३३ ॥
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना ।
आहूय चाब्रवीत्सर्वा वानराणां तु योषितः ॥ ३४ ॥
सर्वाङ्गशोभनेत्यनेन पूर्वं स्वयमलंकृतवतीति गम्यते ॥ ३४ ॥
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः ।
मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥ ३५ ॥
प्रवेशं चापि रामस्य पौरजानपदैः सह ।
विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥ ३६ ॥
सुग्रीवेणेत्यादिश्लोकद्वयमेकान्वयं ॥ सुग्रीवेण सर्वैर्वानरैः स्वस्वभर्तृभिर्वानरैः सह अयोध्यां गन्तुमभ्यनुज्ञाताः । यूयमिति शेषः । न केवलं सुग्रीवानुज्ञामात्रं मत्प्रियार्थं च भवतीमिरागन्तव्यमित्याह – मम चापीति । अयोध्यादर्शनेन मम यत्प्रियं तद्भवतीभिः सहागत्य कार्यमित्यर्थः । रामस्य प्रवेशं च दशरथस्य स्त्रीणां विभूतिं ऐश्वर्यं च । द्रक्ष्याम इति शेषः ।। ३५-३६ ।।
तारया चाभ्यनुज्ञाता सर्वा वानरयोषितः ।
नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् ॥
अध्यारोहन्विमानं तत्सीतादर्शनकाङ्क्षया ॥ ३७ ॥
तारयेत्याद्यर्धत्रयमेकान्वयं ॥ नेपथ्यं अलंकारं । विधिपूर्वेण मङ्गलालम्भनादिविधिपूर्वकमित्यर्थः । अत्रालंकरणाह्वानादिना दिनमेकं गतमित्याहुः । प्रदक्षिणं कृत्वा । विमानस्येति शेष: । प्रादक्षिण्येन गमनमात्रमत्र विवक्षितं । अतिविपुलस्य तस्य सद्यः प्रदक्षिणासंभवात् ॥ ३७ ॥
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ।
ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ॥ ३८ ॥
दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः ।
ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ॥ ३९ ॥
उत्थितमित्यनेन तारागमनपर्यन्तं भूमौ विमानं स्थितमिति ज्ञायते ॥ ३८-३९ ॥
अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।
समयश्च कृतः सीते वधार्थं वालिनो मया ॥ ४० ॥
समयः संकेतः ॥ ४० ॥
एषा सा दृश्यते पम्पा नलिनी चित्रकानना ।
त्वया विहीनो यत्राहं विललाप सुदुःखितः ॥ ४१ ॥
अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ।
अत्र योजनबाहुश्च कबन्धो निहतो मया ॥ ४२ ॥
विललाप । लिडुत्तमैकवचनं ॥ ४१-४२ ॥
दृश्यते च जनस्थाने सीते श्रीमान्वनस्पतिः ।
यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि ॥
रावणस्य नृशंसस्य जटायोष महात्मनः ॥ ४३ ॥
दृश्यते चेत्यादिसार्धश्लोकमेकं वाक्यं ॥ श्रीमान् वनस्पति: जटायुनिवासभूतो वटः । तस्य श्रीमत्त्वं महात्मना जटायुषाधिष्ठितत्वात् ॥ ४३ ॥
खरश्च निहतो यत्र दूषणश्च निपातितः ।
त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ॥
एतत्तदाश्रमपदमस्माकं वरवर्णिनि ॥ ४४ ॥
पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ।
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ॥ ४५ ॥
खरश्चेत्यादिसार्धश्लोक एकान्वयः ॥ तत् पञ्चवटीति प्रसिद्धं ॥ ४४–४५ ॥
एषा गोदावरी रम्या प्रसन्नसलिला शिवा ।
अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ॥ ४६ ॥
एषा गोदावरीति । अयमेव पाठ: सम्यक् । एषा मन्दाकिनीति पाठे अगस्त्याश्रमसमीपे मन्दाकिनीति काचिन्नद्यस्तीति ज्ञेयं । एतच्छ्श्लोकात्पूर्वं पर्णशालेति श्लोकः पठनीयः ॥ ४६ ॥
दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः ॥ ४७ ॥
दीप्तश्चेत्यर्धं ॥ ४७ ॥
वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ।
उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ॥ ४८ ॥
पुराण शत्रुशरीराणि शत्रुपुराणि वा दारयतीति पुरन्दरः ॥ ४८ ॥
अस्मिन्देशे महाकायो विराधो निहतो मया ॥ ४९ ।।
अस्मिन्देश इत्यर्धं ॥ ४९ ॥
एते हि तापसावासा दृश्यन्ते तनुमध्यमे ।
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः ॥
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥ ५० ।।
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते ।
यत्र मां केकयीपुत्रःप्रसादयितुमागतः ।। ५१ ।।
एते हीत्यादिसार्धश्लोक एकान्वयः ॥ तापसावासाः । अस्माभिर्दश वर्षाणि यत्रोषितमिति भावः । तापसी अनसूया ॥ ५०–५१ ॥
एषा सा यमुना दूरादृश्यते चित्रकानना ॥ ५२ ॥
एषा सेत्यर्धं ॥ ५२ ॥
भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ॥ ५३ ॥
भरद्वाजेत्यर्धं ॥ यत्र भरद्वाजाश्रमः । पूर्व दृष्ट इति शेषः । श्रीमान् स एष प्रदेश: प्रकाशते । अदूरवर्तितया सम्यग्दृश्यते ॥ ५३ ॥
एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ।
नानाद्विजगणाकीर्णा संप्रपुष्पितकानना ॥ ५४ ॥
वरवर्णिनीति सीतासंबोधनं ॥ ५४ ॥
शृङ्गवेरपुरं चैतद्गुहो यत्र समागतः ॥ ५५ ॥
शृङ्गबेरपुरमित्यर्धं ॥ यत्र गुहः समागतः तच्छृङ्गवेरपुरं एतदित्यन्वयः ॥ ५५ ॥
एषा सा दृश्यते सीते सरयूर्यूपमालिनी ।
नानातरुशताकीर्णा संप्रपुष्पितकानना ॥ ५६ ॥
यूपमालिनी इक्ष्वाकुभिस्तीरे यागानन्तरं कीर्त्यर्थं शिलाभिः कृतयूपवतीत्यर्थः ॥ ५६ ॥
एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम ।
अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ।। ५७ ॥
ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ।
उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ॥ ५८ ।।
अयोध्यामिति । उद्दिश्येति शेषः । विमानस्याकाशगतत्वेन दूरस्था अपि गङ्गा शृङ्गबेरपुरसरय्वयोध्या दृष्टा इति बोध्यम् । भरद्वाजाश्रमे हि तदा स्थितिः ॥ ५७-५८ ।।
ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसंकुलाम् ।।
पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथाऽमरावतीम् ॥ ५९ ॥
पाण्डुरेत्यादिस्वभावोक्तिः ॥ ५९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पडत्युत्तरशततमः सर्गः ॥ १२६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणेरत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षड्विंशत्युत्तरशततमः सर्गः ।। १२६ ।।