श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः सर्गः
नागपाशबद्धेनापिदिष्ट्याप्रबुद्धेनरामेण लक्ष्मणदुरवस्थावलोकनेनतस्य चरमावस्था -शङ्कया तंप्रतिशोचनपूर्वकंबहुधा विलापः ॥ १ ॥
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ ।
निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ १ ॥
सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः ।
परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ॥ २ ।।
अथ रामप्रबोधनमेकोनपञ्चाशे – घोरेणेत्यादिश्लोकद्वयमेकान्वयं ॥ नागौ यथा नागाविव निश्वसन्तावित्यन्वयः । शोकपरिप्लुता: शोकपूर्णाः ।। १-२ ।।
एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान् ।
स्थिरत्वात्सत्त्वयोगाच्च शरैः संदानितोपि सन् ॥ ३ ॥
स्थिरत्वात् धीरत्वात् । सत्त्वयोगात् बलयोगात् । संदानितोपि बद्धोपि । बद्धे संदानितं मूतं इत्यमरः ।। ३ ।।
ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् ।
भ्रातरं दीनवदनं पर्यदेवयदातुरः॥ ४ ॥
अर्पितं शरैरिति शेषः ॥ ४ ॥
किंनु मे सीतया कार्यं किं कार्य जीवितेन वा ।
शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ॥ ५ ॥
शक्या सीतासमा नारी मर्त्यलोके विचिन्वता ।
न लक्ष्मणसमो भ्राता सचिवः सांपरायिकः ॥ ६ ॥
किं त्वित्यादिश्लोकद्वयं ।। विचिन्वता मयेति शेष: । सचिव: सहाय: । साम्परायिक: युद्धे साधुः । युद्धाययोः सम्परायः इत्यमरः ॥ ५-६ ॥
परित्यक्ष्याम्यहं प्राणं वानराणां तु पश्यताम् ।
यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ॥ ७ ॥
पञ्चत्वं मृतिं ।। ७ ।।
किंनु वक्ष्याभि कौसल्यां मातरं किंतु कैकयीम् ।
कथमम्बां सुमित्रां च पुत्रदर्शनलालसाम् ।। ८ ।।
विवत्सां वेपमानां च क्रोशेन्तीं कुररीमिव ।
कथमाश्वासयिष्यामि यदा यास्यामि तं विना ॥ ९ ॥
किं न्वित्यादिश्लोकद्वयमेकान्वयं । अहं तं लक्ष्मणं विना अयोध्यां यदा यास्यामि तदा कौसल्यां कैकयीं च किं वक्ष्यामि । सुमित्रां कथमा- श्वासयिष्यामि ।। ८-९ ॥
कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ॥ १० ॥
कथमित्यर्धं ॥ यशस्विनमित्यनेन तद्यशो मया न लब्धमिति खिद्यति ॥ १० ॥
मया सह वनं यातो बिना तेन गतः पुनः ।
उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया ॥ ११ ॥
यो मया सह वनं यातः तेन विनाऽयोध्यां गतोहं सुमित्रया कृतमुपालम्भं उक्तप्रकारं सोढुं कथं शक्ष्यामि ॥ ११ ॥
इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ॥ १२ ॥
इहैवेत्यर्थं ॥ १२ ॥
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ ।
लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ॥ १३ ॥
दुष्कृतकर्माणं । लक्ष्मणवनानयनमेव दुष्कृतं कर्म ॥ १३ ॥
त्वं नित्यं स विषण्णं मामाश्वासयसि लक्ष्मण ।
गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ॥ १४ ॥
येनाद्य निहता युद्धे राक्षसा विनिपातिताः ।
तस्यामेव क्षितौ वीरः स शेते निहतः परैः ॥ १५ ॥
स त्वमित्यन्वयः ॥ १४-१५ ॥
शयानः शरतल्पेऽस्मिन्स्वंशोणितपरिप्लुतः ।
शरजालैश्चितो भाति भास्करोस्तमिव व्रजन् ॥ १६ ॥
शयान इति । अयमिति शेषः । अत्र शरतल्पस्थानीयोस्तगिरिः । शरस्थाने किरणा: । शोणितस्थाने रक्तवर्णत्वं ॥ १६ ॥
बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम् ।
रुजा चाब्रुवतोप्यस्य दृष्टिरागेण सूच्यते ॥ १७ ॥
रुजा व्यथा । दृष्टिरागेण वीक्षणप्रेम्णा ॥ १७ ॥
यथैव मां वनं यान्तमनुयातो महाद्युतिः ।
अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ १८ ॥
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः ।
इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ॥ १९ ॥
तथैव तेन प्रकारेण । मात्रादिस्नेहमविचार्येत्यर्थः । यमक्षयमित्यत्रापि यान्तमित्यनुषज्यते ॥ १८-१९ ।।
सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे ।
परुषं विप्रियं वाऽपि श्रावितं तु कदाचन ॥ २० ॥
विप्रियं अहितं । सुरुष्टेनापि लक्ष्मणेन श्रावितं विप्रियं परुषं वाक्यं न स्मरामीत्यर्थः ॥ २० ॥
विससर्जेकवेगेन पञ्चबाणशतानि यः ।
इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः ॥ २१ ॥
यः कार्तवीर्यः सहस्रबाहुः एकेन वेगेन एकप्रयत्नेन । यावता कालेन पञ्चबाणशतानि विससर्ज प्रायुङ्क । द्विभुजोप्ययं लक्ष्मण: तावतैव कालेन तावतो बाणान् विसृजन् । इष्वस्त्रेषु विषये तस्मात्कार्तवीर्यादधिक इत्यर्थः ॥ २१ ॥
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः ।
सोऽयमुर्व्यां हतः शेते महार्हशयनोचितः ॥ २२ ॥
हन्यात् हन्तुं शक्तः । शकि लिङ् ॥ २२ ॥
यन्मया न कृतो राजा राक्षसानां विभीषणः ।
तच्च मिथ्या प्रलप्तं मां प्रवक्ष्यति न संशयः ॥ २३ ॥
यत् यस्मात् विभीषणो राक्षासानां राजा न कृतः । तस्मात् मिथ्याप्रलप्तं राजानं त्वां करिष्यामीति मिथ्या प्रलपितं मां प्रधक्ष्यति । दहतीत्यर्थः । आश्रुतकार्यनिर्वाहाभावेन मिथ्येत्युच्यते । आश्रुतं प्रतिज्ञातं ॥ २३ ॥
अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि ।
मैत्वा हीनं मया राजन्रावणोऽभिद्रवेद्बली ॥ २४ ॥
अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः ।
सागरं तर सुग्रीव नीलेन च नलेन च ॥ २५ ॥
प्रतियातुं किष्किन्धामिति शेषः । हीनं त्वामिति शेषः ॥ २४-२५ ॥
कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे ।
ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ॥ २६ ॥
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च ।
युद्धं केसरिणा संख्ये घोरं संपातिना कृतम् ।। २७ ।।
गवयेन गवाक्षेण शरभेण गजेन च ।
अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः ।
न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः ॥ २८ ॥
कृतमित्यादिसार्धश्लोकत्रयं ।। संपातिना वानरेण ॥२६-२८ ॥
यत्तु शक्यं वयस्येन सुहृदा च पैरंतप ।
कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ॥ २९ ॥
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ॥ ३० ॥
वयस्येन मित्रेण । सुहृदा च शोभनहृदयेन वा । चशब्दो वाशब्दार्थकः । धर्मभीरुणा धर्मो नश्यतीति भीरुणेत्यर्थः । अधर्मभीरुणेति वा पदच्छेदः ॥ २९–३० ॥
शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवनम् ।
वर्तयाञ्चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ॥ ३१ ॥
वर्तयांचक्रुः प्रवर्तयां चक्रुः । कृष्णेतरेक्षणा: रक्तेक्षणा इत्यर्थः ॥ ३१ ॥
ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः ।
आजगाम गदापाणिस्त्वरितो यत्र राघवः ॥ ३२ ॥
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् ।
वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् ॥ ३३ ॥
[ निश्चेष्टौ विगतज्ञानौ रणरेणुसमुक्षितौ ।
शयानौ शरतल्पस्थौ द्रष्टुमायाद्विभीषणः ॥ ३४ ॥
तं राक्षसेन्द्रात्मजशङ्कया ते निपातितौ राजसुतौ च दृष्ट्वा ।
विभीषणं विव्यथिरे च दृष्ट्वा मेघा यथा वायुहताः लवङ्गमाः ॥ ३५ ॥ ]
तत इत्यादिश्लोकद्वयं ॥ ३२-३५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥
इति श्रीगोविन्दराज विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध काण्डव्याख्याने एकोनपञ्चाशस्सर्गः ॥ ४९ ॥