श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्युत्तरशततमः सर्गः
रथान्तरारोहणेनपुनस्समरायसमागच्छतिरावणे इन्द्रेण रामाय मातलिसनाथनिजरथ -प्रेषणम् ॥ १ ॥ रथस्थाभ्यां रामरावणाभ्यामद्भुतयुद्धप्रवर्तनम् ॥ २ ॥ तदा लोकभयावहमहो -त्पातप्रादुर्भावः ॥ ३ ॥
लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः ।
संदधे परवीरघ्नो धनुरादाय वीर्यवान् ।
रावणाय शरान्घोरान्विससर्ज चमूमुखे ॥ १ ॥
अथान्यं रथमारुह्य रावणो राक्षसाधिपः ।
अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् ॥ २ ॥
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ।
आजधान महाघोरैर्धाराभिरिव तोयदः ॥ ३ ॥
दीप्तपावकसंक्राशैः शरैः काञ्चनभूषणैः ।
निर्बिभेद रणे रामो दशग्रीवं समाहितम् ॥ ४ ॥
भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः ।
न समं युद्धमित्याहुर्देवगन्धर्वदानवाः ॥ ५ ॥
[ ततो देववरः श्रीमाञ्श्रुत्वा तेषां वचोऽमृतम् ।
आहूय मातलिं शक्रो वचनं चेदमब्रवीत् ॥ ६ ॥
रथेन मम भूयिष्ठं शीघ्रं याहि रघूत्तमम् ।
आहूय भूतलं यातः कुरु देवहितं महत् ॥ ७ ॥
इत्युक्तो देवराजेन मातलिर्देवसारथिः ।
प्रणम्य शिरसा देवं ततो वचनमब्रवीत् ॥ ८ ॥
शीघ्रं यास्यामि देवेन्द्र सारथ्यं च करोम्यहम् ।
ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम् ॥ ९॥ ]
अथेन्द्ररथमारुह्य संग्रामस्त्रिशततमे – लक्ष्मणेनेत्यादि ॥ १-९ ॥
ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः ।
तरुणादित्यसंकाशो वैडूर्यमयकूबरः ॥ १० ॥
सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ।
हरिभिः सूर्यसङ्काशैर्हेमजालविभूषितैः ।
रुक्मवेणुध्वजः श्रीमान्देवराजरथो वरः ।। ११ ।।
देवराजेन संदिष्टो रथमारुह्य मातलिः ।
अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥ १२ ।।
तत इत्यादिसार्धश्लोकत्रयमेकान्वयं ॥ कूबरः युगाधारदारु । कूबरस्तु युगंधर: इत्यमरः । काञ्चनापीडैः काञ्चनालंकारैः । श्वेतप्रकीर्णकैः श्वेतचामरैः । चामरं तु प्रकीर्णकं इत्यमरः । हरिभिः हरितवर्णै: । रुक्मवेणुध्वजः । कनकदण्डध्वजः । देवराजरथ इति । य इति शेषः । योस्ति तमारुह्येत्युत्तरत्रान्वयः । संदिष्टः चोदितः । त्रिविष्टपात् स्वर्गात् ॥ १० – १२ ॥
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।
प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥ १३ ॥
प्रतोदः अश्वप्रेरणकाष्टं ॥ १३ ॥
सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते ।
दत्तस्तव महासत्त्व श्रीमाञ्शत्रुनिबर्हणः ॥ १४ ॥
इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम् ।
शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिताः ॥ १५ ॥
आरुह्येमं रथं वीर राक्षसं जहि रावणम् ।
मया सारथिना राजमहेन्द्र इव दानवान् ॥ १६ ॥
सहस्राक्षेणेत्यादिश्लोकद्वयमेकान्वयं ॥ इदमिति ॥ अत्र चापादिषु यथायोग्यं दत्त इत्येतल्लिङ्गवचनविपरिणामेन योजनीयं ॥ १४-१६ ॥
इत्युक्तः संपरिक्रम्य रथं समभिवाद्य च ।
आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन् ॥ १७ ॥
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।
रामस्य च महाबाहो रावणस्य च रक्षसः ॥ १८ ॥
स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः ।
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥ १९ ॥
अस्त्रं तु परमं घोरं राक्षसं राकसाधिपः ।
ससर्ज परमक्रुद्धः पुनरेव निशाचरः ॥ २० ॥
ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः ।
अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ॥ २१ ॥
संपरिक्रम्य प्रदक्षिणीकृत्य । लोकान् लक्ष्म्या विराजयन् चन्द्रप्रभयेव स्वकान्त्या सर्वलोकान् प्रकाशयन्नित्यर्थः ॥ १७–२१ ॥
ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः ।
राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥ २२ ॥
व्यादितास्याः व्याप्ताननाः । भयानकाः भयंकराः ॥ २२ ॥
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ।
दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः ॥ २३ ॥
दीप्तभोगैः दीप्तफणैः । भोग: सुखे स्त्र्यादिभृतावहेश्च फणकाययोः इत्यमरः । प्रदिशः दिक्कोणाः ॥ २३ ॥
तान्दृष्ट्वा पन्नगान्रामः समापतत आहवे ।
अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् ॥ २४ ॥
प्रादुश्चक्रे प्रयुयुजे ॥ २४ ॥
ते राघवशरा मु क्ता रुक्मपुङ्खाः शिखिप्रभाः ।
सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ॥ २५ ॥
ते तान्सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान् ।
सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥ २६ ॥
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ।
अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ॥ २७ ॥
ततः शरसहस्रेण राममक्लिष्टकारिणम् ।
अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥ २८ ॥
शिखिप्रभाः अग्निप्रभाः । सुपर्णा: गरुडाः ॥ २५–२८ ॥
चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः ।
पातयित्वा रथोपस्थे रथात्केतुं च काञ्चनम् ।
ऐन्द्रानभिजघानाश्वाञ्शरजालेन रावणः ॥ २९ ॥
तं दृष्ट्वा सुमहत्कर्म रावणस्य दुरात्मनः ।
विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ।। ३० ।।
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः ।
व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ।। ३१ ।।
चिच्छेदत्यादिसाश्लोकमेकं वाक्यं ॥ केतुं ध्वजपटं । उद्दिश्य लक्षीकृत्य । रथात् रथावयवदण्डात् ॥ २९ – ३१ ॥
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा ।
प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् ।
समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ॥ ३२ ।।
सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ।
उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् ॥ ३३ ।।
रामस्य तादृशदशादर्शनेन संजातानि दिव्यानि भौमानि च वैकृतान्याह-रामचन्द्रमसमित्यादिना ।। प्राजापत्यं नक्षत्रं प्रजापतिदेवताकनक्षत्रभूतां रोहिणीं । बुधे रोहिणीं प्राप्ते जगत्पीडा भवतीति भावः ॥३२ – ३३ ॥
शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ।
अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना ॥ ३४ ॥
शस्त्रवर्णः असिश्यामः ॥ ३४ ॥
कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् ।
आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे ॥ ३५ ॥
दशास्यो विंशतिभुजः प्रगृहीतशरासनः ।
अदृश्यत दशग्रीवो मैनाक इव पर्वतः ॥ ३६ ॥
कोसलानां इक्ष्वाकूणां । विशाखायास्तन्नक्षत्रत्वमेतत्काण्डचतुर्थसर्गे दर्शितं ।। ३५-३६ ॥
निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ।
नाशक्नोदभिसन्धातुं सायकान्रणमूर्धनि ॥ ३७ ॥
अभिसंधातुं धनुष्यारोपयितुं ॥ ३७ ॥
स कृत्वा भ्रुकुटीं क्रुद्धः किञ्चित्संरक्तलोचनः ।
जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा ॥ ३८ ॥
अथैतद्दर्शनेन रामकोपं दर्शयति-स कृत्वेति ॥ ३८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ।।
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्र्युत्तरशततमः सर्गः ॥ १०३ ।।