श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशः सर्गः
शार्दूलेनरायणप्रति निजबलेगरुडव्यूहरचनयारामस्वसु वेलाचल समीपेऽवस्थान निवेदनपूर्वकं प्रविष्टमात्रस्य स्वस्यविभीषणेन निवेदनेवानरैर्बलाद्ग्रहणेनसर्वतः संचारणपूर्वकं रामसमीपप्रापणादिनिवेदनम् ॥ १ ॥ तथारावणचोदनया सुग्रीवस्य जांबवदादियूथनाथानांच पृथक्पितृनामादिनिवेदनम् ॥ २ ॥
ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः ।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ।। १ ।।
अथ शार्दूलादिचारवचनं त्रिशे-तत इति ॥ सुवेले सुवेलसमीपे । सामीप्ये सप्तमी । सुवेलस्य समीप इति पूर्वमुक्तत्वात् ॥ १ ॥
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ।
जातोद्वेगोऽभवत्किंचिच्छार्दूलं वाक्यमब्रवीत् ।। २ ।।
चाराणां चारेभ्यः ॥ २ ॥
अयथावच्च ते वर्णो दीनश्चासि निशाचर ।
नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ।। ३ ।।
अयथेति । शत्रुगृहीतत्वेन तेषां स्वरूपं किं न ज्ञातमिति भावः ॥ ३ ॥
इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् ।
तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ।। ४ ।।
अनुशिष्टः पृष्टः । उदीरयत् अडभाव आर्षः ॥ ४ ॥
न ते चारयितुं शक्या राजन्वानरपुङ्गवाः ।। ५ ।।
चारयितुं चारविषयीकर्तुं । न शक्या: चारसंचारविषया न भवन्तीत्यर्थ: ॥ ५ ।।
विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ।
नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते ।। ६ ।।
संप्रश्नः परीक्षणं । अत्र वानरेषु ॥ ६ ॥
सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः ।
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते ।। ७ ।।
प्रविष्टमात्रे प्रविष्ठ एव । अचारिते चाराविषयीकृते ॥ ७ ॥
बलाद्गृहीतो बहुभिर्बहुधास्मि विचालितः ।
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् ।। ८ ।।
रक्षोभिः विभीषणसचिवैः । विचालितः भुवि परिवर्तितः ॥ ८ ॥
परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः ।
परिणीय च सर्वत्र नीतोऽहं रामसंसदम् ।। ९ ।।
परिणीतः परितो नीतः । सर्वतः परिणीय सर्वेषां निकटे चारोयमिति घोषणपूर्वकं परिणीयेत्यर्थः । रामसंसद रामसभां । विह्वलः मूर्च्छितः । मूर्च्छानिवृत्तावपि चलितेन्द्रियः ॥ ९ ॥
रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः ।
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः ।। १० ।।
याचमानः त्राणमिति शेष: । परित्रात इत्यनुवादात् ॥ १० ॥
राघवेण परित्रातो जीवामीति यदृच्छया ।। ११ ।।
राघवेणेत्यर्धं ॥ जीवामीति यदृच्छया इदानीं जीवनं यादृच्छिकमित्यर्थः । यद्वा इतीति स्वशरीरप्रदर्शनं । अयथावच्च ते वर्णो दीनश्चासि निशाचरेति युक्तं ॥ ११ ॥
एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् ।
द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ।। १२ ।।
गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः ।
मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ।। १३ ।।
द्वारमाश्रित्य तिष्ठतीति वर्तमानसामीप्ये वर्तमानप्रयोगः ।। १२ – १३ ।।
पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु ।
सीतां वास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ।। १४ ।।
पुराप्राकारमायाति आयास्यतीत्यर्थः । यावत्पुरानिपातयोर्लट् । एकतरं द्वयोरेकं । एकाच्च प्राचां इति तरप् । एकतरमित्युक्तं विवृणोति – सीतामिति ॥ १४ ॥
मनसा तं तदा प्रेक्ष्य तच्छ्रुत्वा राक्षसाधिपः ।
शार्दूलं महद्वाक्यमथोवाच स रावणः ।। १५ ।।
मनसा प्रेक्ष्य आलोच्य । तं शार्दूलमुवाचेत्यन्वयः ॥ १५ ॥
यदि मां प्रतियुध्येरन्देवगन्धर्वदानवाः ।
नैव सीतां प्रदास्यामि सर्वलोकभयादपि ।। १६ ।।
सीतास्मैप्रदीयतामित्यस्योत्तरमाह – यदीति युध्येरन् तथापि सीतां न प्रदास्यामि । सर्वलोकेभ्यो भयापि न प्रदास्यामीतियोजना ॥ १६ ॥
एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् ।
चारिता भवता सेना केऽत्र शूराः प्लवङ्गमाः ।। १७ ।।
एवं प्रथमपक्षस्यानुपपत्त्या द्वितीयपक्षंकरिष्यमाणः तत्र ज्ञातव्यविशेषं पृच्छति – एवमित्यादि लोकत्रयं ॥ भवता सेना चारिता चारविषयीकृता । सम्यग्दृष्टेत्यर्थः । अत्र सेनायां । के शूराः ॥ १७ ॥
कीदृशाः किम्प्रभाः सौम्य वानरा ये दुरासदाः ।
कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ।। १८ ।।
ये दुरासदा: ते कीदृशाः कीदृशाकाराः । किंप्रभाः किंप्रभावाः । कस्य पुत्राः कस्य पौत्राश्च । तत्त्वं तेषां वानराणां भावं । आख्याहि ॥ १८ ॥
तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् ।
अवश्यं बलसङ्ख्यानं कर्तव्यं युद्धमिच्छता ।। १९ ।।
अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः ।
इदं वचनमारेभे वक्तुं रावणसंनिधौ ।। २० ।।
कथने किं प्रयोजनमित्याह —तथेति ॥ तथा एवमाख्याते सति । तेषां बलाबलं ज्ञात्वा अत्र वानरेषु । प्रतिपत्स्यामि प्रतिपत्स्ये । कर्तव्यं ज्ञास्यामीत्यर्थः ॥ १९ – २० ।।
अथर्क्षरजसः पुत्रो युधि राजा सुदुर्जयः ।
गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ।। २१ ।।
अथेत्युत्तरवचनारम्भे । द्वितीयोथशब्दः पादपूरणे । राजा सुग्रीवः । पाञ्चालीन्यायेन गद्गदेन पोषितत्वात्तत्पुत्रो जाम्बवान् । तस्य ब्रह्मणो जृम्भारम्भसंभूतत्वात् ॥ २१ ॥
गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः ।
कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ।। २२ ।।
अन्य: पुत्रः धूम्रः । जाम्बवान् धूम्रश्चेति गद्गदस्य द्वौ पुत्रावित्यर्थः । यस्य पुत्रेणैकेन महता रक्षसां अक्षादीनां कदनं हननं । कृतं । स केसरी शतक्रतोर्गुरुः बृहस्पतिः तस्य पुत्रः । सापेक्षत्वेपि गमकत्वात्समासः ॥ २२ ॥
सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् ।
सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः ।। २३ ।।
धर्मस्य देवतायाः । ननु वरुणो जनयामास सुषेणं नाम वानरं इति बालकाण्डोक्तं । सत्यमुक्तं । स एवात्र धर्मशब्देनोच्यते । शार्दूलो वा भयाकुलोन्यथा श्रुतवान् । अन्योयं सुषेण इत्यप्याहुः । एवमन्यत्रापि ज्ञेयं ॥ २३ ॥
सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः ।
मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा ।। २४ ।।
मृत्युरेव स्वयंभुवा सुमुखादिवानररूपेण सृष्टः । सुमुखादयो मृत्युतुल्या इत्यर्थः । यद्वा सुमुखादयो मृत्युपुत्रा इत्यर्थः ॥ २४ ॥
पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् ।
अनिलस्य च पुत्रोऽत्र हनूमानिति विश्रुतः ।। २५ ।।
अनिलस्य पुत्रः औरसः । एवं तत्र तत्र पितृद्वयनिर्देशो बीजित्वक्षेत्रित्वाभ्यामिति मन्तव्यं ॥ २५ ॥
नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा ।
मैन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ ।। २६ ।।
पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ।। २७ ।।
नप्तेति । अत्र नप्तृशब्दोर्थसामर्थ्यात्पौत्रे वर्तते ॥ २६-२७ ॥
दश वानर कोट्यश्च शूराणां युद्धकाङ्क्षिणाम् ।
श्रीमतां देवपुत्राणां शेषं नाख्यातुमुत्सहे ॥ २८॥
वानरकोट्य इत्यत्र वानरेत्यविभक्तिकनिर्देश: । सुपां सुलुक् इत्यादिना षष्ठ्या लुक् । वानराणामित्यर्थः । शेषं जन्मस्थानादि । नोत्सहे न शक्नोमि ॥ २८ ॥
पुत्रो दशरथस्यैष सिंहसंहननो युवा ।
दूषणो निहतो येन खरच त्रिशिरास्तथा ॥ २९ ॥
नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।
विराधो निहतो येन कबन्धश्चान्तकोपमः ॥ ३० ॥
सिंहसंहननः रमणीयावयवसन्निवेशवान् । वराङ्गरूपोपेतो यः सिंहसंहननो हि सः इत्यमरः ॥ २९-३० ॥
वक्तुं न शक्तो रामस्य नरः कश्चिद्रुणान्क्षितौ ।
जनस्थानगता येन यावन्तो राक्षसा हताः ॥ ३१ ॥
ये जनस्थानगताः ते यावन्तः ते सर्वेपि हता इत्यर्थः । यावत्तावच्च साकल्ये इत्यमरः ॥ ३१ ॥
लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः ।
यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ ३२ ॥
श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसम्भवौ ।
वरुणस्य च पुत्रोऽन्यो हेमकूटः प्लवङ्गमः ।। ३३ ।।
चशब्देन दशरथस्य पुत्र इत्याकृष्यते । मातङ्गानामिवर्षभः गजश्रेष्ठ इव स्थितः ॥ ३२ – ३३ ।।
विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः ।
विक्रान्तो बलवानत्र वसुपुत्रः सुदुर्धरः ।। ३४ ।।
सुदुर्धरः सुदुर्धरनामा ॥ ३४ ॥
राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः ।
परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ।। ३५ ।।
लङ्कां रामात् परिगृह्य तस्य हिते । रतो विभीषणस्तव भ्रातेत्यन्वयः ॥ ३५ ॥
इति सर्वं समाख्यातं तवेदं वानरं बलम् ।
सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः ।। ३६ ।।
गतिः प्रमाणं । अत्र वानरजन्मोक्ते प्रायशो बालकाण्डोक्तविरोधादेतत्सर्गं विनापि पूर्वोत्तरकथासंघट्टनाच्च सर्गोयं कल्पित इत्याहुः ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशः सर्गः ॥ ३० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिंशस्सर्गः ॥ ३० ॥