श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशदुत्तरशततमः सर्गः
हनुमतोरामागमनंश्रुतवताभरतेन शत्रुघ्नंप्रत्ययोध्यामार्गशोधन नगरालंकरणगणिका गणतूर्यसेवादि सहितनागरिकजनप्रत्युद्गमनादिचोदनचोदना ॥ १ ॥ कौसल्यादिभिः सकलनागरिकैश्चसह सवाद्यघोषंप्रत्युद्गतवताभरतेन रामागमनानुपलंभखेदेन हनुमन्तंप्रति तत्रहेतुप्रश्ने तेनतंप्रति तदागमनचिह्ननिवेदनसमयसमागतविमानप्रदर्शनम् ॥ २ ॥ पुष्पकावलोकनहर्षेणसमुद्ध्रुष्यत्सुपौरनिकरेषु भरतेचदूरादभिवन्दमाने रामेण स्वाज्ञयाधरणितलमवतीर्णेपुष्पके भरतस्यसमारोपणम् ॥ ३ ॥ तथा पुनर्निजचरणप्रणामिनो -भरतस्य सहर्षपरिष्वङ्गः ॥ ४ ॥ भरतेन लक्ष्मणसमागमपूर्वकं सीताचरणप्रणामः ॥ ५ ॥ शत्रुघ्नेन सीतारामलक्ष्मणचरणप्रणामः ॥ ६ ॥ रामेण कौसल्यादिमातृप्रभृतिपादाभिवादनम् ॥ रामेण पुनर्विमानेनभरताश्रममेत्य कुबेरंप्रति पुष्पकप्रेषणम् ॥ ८ ॥
श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः ।
हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥ १ ॥
परमानन्दं परमानन्दकरं । वच इति शेषः ॥ १ ॥
देवतानि च सर्वाणि चैत्यानि नगरस्य च ।
सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ॥ २ ॥
चैत्यानि चतुष्पथमण्डपान् । अर्चन्तु अर्चयन्तु ॥ २ ॥
सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा ।
सर्वे वादित्रकुशला गणिकाश्चापि संघशः ॥
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् ॥ ३ ॥
सूता इत्यादिसार्धश्लोक एकान्वयः ॥ सुताः स्तुतिशीला: । वैतालिका: बन्दिनः ॥ ३ ॥
भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ।
विष्टीरनेकसाहस्राश्चोदयामास वीर्यवान् ॥ ४ ॥
समीकुरुत निम्नानि विषमाणि समानि च ।
स्थलानि च निरस्यन्तां नन्दिग्रामादितः परम् ॥ ५ ॥
सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा ।
ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वशः ॥६॥
समृच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे ।
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति ॥ ७ ॥
स्रुग्दामभिर्युक्तपुष्पैः सुगन्धैः पञ्चवर्णकैः ।
राजमार्गमसंबाधं किरन्तु शतशो नराः ॥ ८ ॥
भरतस्येत्यादिश्लोकपञ्चकमेकान्वयं ।। विष्टीः भृतिं विना कर्मकरान् । नन्दिग्रामादितः परं । अयोध्यापर्यन्तमित्यर्थः। अन्ये पुरुषा: हिमवच्छीतेन वारिणा सिञ्चन्तु । तत: सेचनानन्तरं लाजादिभिः किरन्तु । रथ्याः समुच्छ्रितपताकाः कुर्वन्त्विति शेषः । सूर्यस्योदयनं प्रति सूर्यस्योदयमारभ्य । यावत्सूर्योदयमिति वा । स्रजः मालिकाः तासां दामभिः पङ्क्तिभिः । मुक्तपुष्पैः असूत्रबद्धपद्मकुवलयादिभिश्च वेश्मानि शोभयन्तु । सुगन्धैः पञ्चवर्णकैः पञ्चविधवर्णद्रव्यचूर्णैः । राजमार्गं किरन्तु । राजमार्गे वर्णद्रव्यचूर्णैः नानाविधलतापद्मादिचित्ररेखाः कुर्वन्त्वित्यर्थः ॥ ४-८ ॥
राजदारास्तथाऽमात्याः सैन्याः सेनागणाङ्गनाः ।
ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः ॥ ९ ॥
अथ परेद्युः प्रातः रामभक्त्यतिशयेन सर्वेषां निर्गमनं दर्शयति – राजद्वारा इत्यादिना ॥ श्रेणीमुख्याः श्रेणीमुखाः । तथा गणाः । श्रेणी श्रेणय इति यावत् । अन्न श्लोके निर्ययुरिति वक्ष्यमाणमनुषज्यते ॥ ९ ॥
धृष्टिर्जयन्तो विजयः सिद्धार्थो हार्थसाधकः ।
अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः ॥
मत्तैर्नागसहस्त्रैश्च शाकुम्भविभूषितैः ॥ १० ॥
अमात्यान्विशिष्य दर्शयति – धृष्टिरित्यादिना ॥ सार्धश्लोक एकान्वयः । अत्र धृष्ट्यादयो गजारूढा ययुरित्यर्थः ॥ १० ॥
अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः ।
निर्ययुस्तुरगाक्रान्तै रथैश्च सुमहारथाः ॥ ११ ॥
अपरे राजान्तरङ्गाः पुरुषाः करेणुभिर्निर्ययुः ॥ ११ ॥
शक्त्यृष्टिप्रासहस्तानां सध्वजानां पताकिनाम् ।
तुरगाणां सहस्रैश्च मुख्यैर्मुख्यनरान्वितैः ॥
पदातीनां सहस्रैश्च वीराः परिवृता ययुः ॥ १२ ॥
शक्तीत्यादिसार्धश्लोक एकान्वयः ॥ उक्तविशेषणानां तुरगाणां सहस्रैः पदातीनां सहस्रैश्च परिवृता वीरा ययुः ॥ १२ ॥
ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः ।
कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ॥ १३ ॥
प्रमुखे अग्रे ॥ १३ ॥
कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन् ॥ १४ ॥
कैकेय्येति । अत्र भरतेनोपेक्षयानाहूतत्वात् पश्चान्निर्गत्य कैकेय्या नन्दिग्रामप्राप्तिकाले साहित्यमुच्यते ॥ १४ ॥
कृत्स्त्रं च नगरं तत्तु नन्दिग्राममुपागमत् ॥ १५ ॥
कृत्स्नमित्यर्धं । अत्र नगरशब्देन तत्रत्यजना लक्ष्यन्ते ॥ १५ ॥
अश्वानां खुरशब्देन रथनेमिस्वनेन च ।
शङ्खदुन्दुभिनादेन संचचालेव मेदिनी ॥ १६ ॥
संचचाल कम्पितेव ॥ १६ ॥
द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः ।
माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः ॥ १७ ॥
शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ।
आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः ॥ १८ ॥
पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम् ।
शुक्ले च वालव्यजने राजार्हे हेमभूषिते ॥ १९ ॥
उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः ।
भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः ॥
प्रत्युद्ययौ ततो रामं महात्मा सचिवैः सह ॥ २० ॥
अथोक्तपरिवारैः सह भरतस्य नन्दिप्रामान्निर्गमं दर्शयति – द्विजातिमुख्यैरित्यादिभिः साधैश्चतुर्भिः श्लोकैः ॥ ततो महात्मा भरतः सर्वैर्वृतः प्रत्युद्ययाविति वाक्यार्थः । सनैगमैः सवणिग्भिः । वैदेहक: सार्थवाहो नैगमो वाणिजो वणिक् इत्यमरः । मन्त्रिभिः वसिष्ठादिभिः । सचिवैः सुमन्त्रादिभिः । आर्यपादौ रामपादुके । हेमभूषिते हेमदण्डभूषिते । तत्पूर्वं श्रवणादिहर्षमागतः । श्रवणात्पूर्वं तु नास्य हर्षोभूदित्यर्थः ॥ १७-२० ॥
समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् ॥ २१ ॥
समीक्ष्येत्यर्धं ॥ समीक्ष्य समन्ताद्रामगमनं निरीक्ष्य ॥ २१ ॥
कच्चिन्न खलु कापेयी सेव्यते चलचित्तता ।
न हि पश्यामि काकुत्स्थं राममार्यं परन्तपम् ।
कच्चिन्न खलु दृश्यन्ते वानराः कामरूपिणः ॥ २२ ॥
कच्चिदित्यादि सार्घश्लोक एकान्वयः ॥ कच्चिदिति प्रश्ने । सेव्यते । त्वयेति शेषः । तत्र हेतुमाह – न हीति । रामस्य दूरागमनेपि नासीरचारिणः कपयो दृश्येरन् तेषां कामरूपित्वेन स्वरूपेणादर्शनेपि रूपान्तरेण वा दृश्येरन् । तदपि नास्तीत्यर्थः ॥ २२ ॥
अथैवमुक्ते वचने हनुमानिदमब्रवीत् ।
अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् ॥ २३ ॥
अर्थं विलम्बहेतुं । अर्थ: स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु इति वैजयन्ती ॥ २३ ॥
सदाफलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान् ।
भरद्वाजप्रसादेन मत्तभ्रमरनादितान् ॥ २४ ॥
भरद्वाजप्रसादेन सदाफलानिति संबन्ध: । प्राप्य वानराः हृष्यन्तीति च शेषः ।। २४ ।।
तस्य चैष वरो दत्तो वासवेन परन्तप ।
ससैन्यस्य तथाऽऽतिथ्यं कृतं सर्वगुणान्वितम् ॥ २५ ॥
ससैन्यस्य रामस्य वासवेन एष वरो दत्तः अकालफलित्ववरो दत्तः । तथा सर्वगुणान्वितं आतिथ्यं मधुस्रवत्वरूपं भरद्वाजेन कृतं । अतोऽकालफलित्वं मधुस्रवत्वं च वनस्य युक्तमित्यर्थः ॥ २५ ॥
निस्स्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् ।
मन्ये वानरसेना सा नदीं तरति गोमतीम् ॥ २६ ॥
एवं विलम्बहेतुमुक्त्वा समीपागमनचिह्नं दर्शयति-निस्स्वन इति ।। इदानीं वानरसेना गोमतीं नदीं तरतीति मन्ये । यस्मात् भीमो निस्वन इति भावः ॥ २६ ॥
रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति ।
मन्ये सालवनं रम्यं लोलयन्ति प्लवङ्गमाः ॥ २७ ॥
ततोपि सन्निकर्षमाह – रज इति ॥ समुद्भूतं रजोवर्षं पश्य । तस्माद्वालुकिनीं नदीं प्रति यातीति मन्ये । क्षिप्रं वानरसेनाया अनागमने हेतुमाह मन्य इति ।। तस्मात्तस्याः विलम्बः ॥ २७ ॥
तदेतद्दृश्यते दुराद्विमलं चन्द्रसन्निभम् ।
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ॥
रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना ॥ २८ ॥
विमानं तु दृश्यत इत्याह – तदेतदिति ॥ पुष्पकं विमानं पुष्पकाख्यं विमानम् ॥ २८ ॥
तरुणादित्यसंकाशं विमानं रामवाहनम् ।
धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् ।। २९ ।।
दिव्यं मनोजवं तरुणादित्यसंकाशं रामवाहनमेतद्विमानं । प्रसादेन धनदस्य ब्रह्मप्रसादेन धनदस्य लब्धमित्यर्थः । परेण तपसा लेभे यत्कुबेरः पितामहात् इति सुन्दरकाण्डोक्तेः ॥ २९ ॥
एतस्मिन्भ्रातरौ वीरौ वैदेह्या सह राघवौ ।
सुग्रीवश्च महातेजा राक्षसश्च विभीषणः ॥ ३० ॥
ततो हर्षसमुद्भूतो निस्स्वनो दिवमस्पृशत् ।
स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते ॥ ३१ ॥
रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः ।
ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे ॥ ३२ ॥
एतस्मिन्निति ॥ आसत इति शेष: ॥ ३०–३२ ॥
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः ।
स्वागतेन यथार्थेन ततो राममपूजयत् ॥ ३३ ॥
मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः ।
रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः ॥ ३४ ॥
ततो विमानाग्रगतं भरतो भ्रातरं तदा ।
ववन्दे प्रयतो रामं मेरुस्थमिव भास्करम् ॥ ३५ ॥
ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ।
हंसयुक्तं महावेगं निष्पपात महीतले ॥ ३६ ॥
यथार्थेन स्वागतेन चतुर्दशे वर्षे पूर्णे अवश्यमागमिष्यामीति प्रतिज्ञानुसारिणा स्वागमनेनेत्यर्थ: । अपूजयत् अश्लाघयत् ॥ ३३–३६ ॥
आरोपितो विमानं तद्भरतः सत्यविक्रमः ।
राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥ ३७ ॥
तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् ।
अङ्के भरतमारोप्य मुदितः परिषस्वजे ॥ ३८ ॥
आरोपित इति । अत्र भरतस्य विमानारोपणं सर्वेषां प्रदर्शनार्थमिति बोध्यं ॥ ३७-३८ ॥
ततो लक्ष्मणमासाद्य वैदेहीं चाभ्यवादयत् ।
अभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत् ॥ ३९ ॥
सुग्रीवं केकयीपुत्रो जाम्बवन्तं तथाऽङ्गदम् ।
मैन्दं च द्विविंदं नीलमृषभं परिषखजे ॥ ४० ॥
सुषेणं च नलं चैव गवाक्षं गन्धमादनम् ।
शरभं पनसं चैव भरतः परिषस्वजे ॥ ४१ ॥
लक्ष्मणमासाद्य कृतनमस्कार लक्ष्मणमालिङ्गनेन संभाव्य । इदं च लक्ष्मणस्य कनिष्ठत्वात् । लक्ष्मणेन चिकीर्षितो नमस्कारो रामसन्निधौ भरतेन प्रतिषेधित इति चाहुः । वैदेहीं चाभ्यवादयत् । चकारो रामनमस्कारं समुच्चिनोति । न संख्ये भरतानुजः इत्युक्तेः । सीतामादाय गच्छ त्वमग्रतो भरताग्रज इत्यत्र बहुव्रीहिरित्युक्तं । न च वैपरीयं शङ्क्यम् । पुष्ये जातस्तु भरतः सार्पे जातौ तु सौमित्री इति जन्मक्रमोक्ते: । पायसप्रदाने विवाहे च प्राथम्यं तत्र परिहृतं । लक्ष्मणासादनानन्तरं सीतानमस्काराभिधानात् सीता तारादिभिः सह रामसमीप एव किंचिदन्यत्र स्थितेत्यवगम्यते ॥ ३९-४१ ॥
ते कृत्वा मानुषं रूपं वानराः कामरूपिणः ।
कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा ॥ ४२ ॥
अथाब्रवीद्राजपुत्रः सुग्रीवं वानरर्षभम् ।
परिष्वज्य महातेजा भरतो धर्मिणां वरः ॥ ४३ ॥
त्वमस्माकं चतुर्णां तु भ्राता सुग्रीव पञ्चमः ।
सौहृदाज्जायते मित्रमपकारोरिलक्षणम् ॥ ४४ ॥
विभीषणं च भरतः सौन्त्ववाक्यमथाब्रवीत् ।
दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् ॥ ४५ ।।
शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ।
सीतायाश्चरणौ पश्चाद्विनयादभ्यवादयत् ॥ ४६ ॥
मानुषं रूपं कृत्वा स्थिता इति शेषः ॥ ४२–४६ ॥
रामो मातरमासाद्य विषण्णां शोककर्शिताम् ।
जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् ॥ ४७ ॥
मनो मातुः प्रसादयन्निति पूर्वं त्वद्वाक्यं नाश्रौषमिति । त्वया मनस्तापो न कार्य इत्येवं प्रसन्नामकरोदित्यर्थः ॥ ४७ ॥
अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् ।
स मादृश्च ततः सर्वाः पुरोहितमुपागतम् ॥ ४८ ॥
स्वागतं ते महाबाहो कौसल्यानन्दवर्धन ।
इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् ॥ ४९ ॥
तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः ।
व्याकोशानीव पद्मानि ददर्श भरताग्रजः ।। ५० ।।
पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् ।
चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् ।
अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः ॥ ५१ ॥
यशस्विनीं । रावणजयस्य तन्मूलत्वात् । सर्वैः प्रशस्यमानामित्यर्थः । पुरोहितं वसिष्ठं । अभिवाद्येत्यनुषज्यते । अभिवाद्योपागमदित्यन्वयः ।। ४८-५१ ॥
एतत्ते रक्षितं राजन्राज्यं निर्यातितं मया ।
अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः ॥ ५२ ।।
यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम् ।
अवेक्षतां भवान्कोशं कोष्ठागारं पुरं बलम् ॥
भवतस्तेजसा सर्वं कृतं दशगुणं मया ।। ५३ ।।
एतत्त इत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ हे राजन् मया रक्षितं न्यासत्वेन पालितं एतद्राज्यं ते निर्यातितं तुभ्यं निवेदितं । कोष्ठागारं धान्यशालां । दशगुणत्वं रामनिर्गमनकालिककोशापेक्षया ॥ ५२-५३ ॥
तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् ।
मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ॥ ५४ ॥
मुमुचुरिति । स्वकुलीनेष्वेतादृशंभ्रातृवृत्त्यदर्शनादिति भावः ॥ ५४ ॥
ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः ।
ययौ तेन विमानेन ससैन्यो भरताश्रमम् ॥ ५५ ॥
भरताश्रममासाद्य ससैन्यो राघवस्तदा ।
अवतीर्य विमानाग्रादवतस्थे महीतले ॥ ५६ ॥
भरताश्रमं नन्दिग्रामं ॥ ५५-५६ ॥
अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् ।
वह वैश्रवणं देवमनुजानामि गम्यताम् ॥ ५७ ।।
गम्यतामित्यनन्तरमितिकरणं बोध्यं ॥ ५७ ।।
ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ।
उत्तरां दिशमागम्य जगाम धनदालयम् ॥ ५८ ॥
[ विमानं पुष्पकं दिव्यं संगृहीतं तु रक्षसा ।
अगमद्धनदं वेगाद्रामवाक्यप्रचोदितम् ] ॥ ५९ ॥
दिशमागम्य दिशमुद्दिश्य ॥ ५८-५९ ॥
पुरोहित स्यात्मसमस्य राघवो बृहस्पतेः शक्र इवामराधिपः ।।
निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश राघवः ॥ ६० ॥
आत्मसमस्य स्वानुरूपस्य । पृथगासने तेन सहैवोपविवेश । पृथगासने युगपदेवोपविविशतुरित्यर्थः ॥ ६० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशदुत्तरशततमः सर्गः ॥ १३० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिंशदुत्तरशततमः सर्गः ॥ १३० ।।