श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टचत्वारिंशः सर्गः
रामलक्ष्मणयोर्निधननिर्धारणेन सकरुणं बहुधाविलपन्तींसीतांप्रति त्रिजटया हेतूपन्यासाद्राघवयोर्जीवनप्रत्यायनेन समाश्वासनम् ॥ १ ॥ राक्षसीभिस्त्रिजटयासहसीतायाः पुनरशोकवनप्रापणम् ॥ २ ॥
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् ।
विललाप भृशं सीता करुणं शोककर्शिता ॥ १ ॥
अथ सीताप्रलापोष्टचत्वारिंशे – भर्तारमिति ॥ करुणं यथा तथा विललाप ॥ १ ॥
ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ २ ॥
लक्षणिन इति । लक्षणशब्देनात्र लक्षणज्ञानं लक्ष्यते तदेषामस्तीति लक्षणिनः । षडुत्तरषष्टिलक्षणसामुद्रिकशास्त्रज्ञा इत्यर्थ: षष्टिष्षडुत्तरा योषिदङ्गलक्षणमीरितं इत्युक्तेः । अतएवाविधवा विधवालक्षणरहिता । निर्लोम हृदयं यस्याः समनिम्नत्ववर्जितम् । ऐश्वर्यं चाप्यवैधव्यं प्रियप्रेम च सा लभेत् इत्युक्तलक्षणेत्यर्थः । पुत्रिणी पुत्रलाभलक्षणवती । दीर्घाङ्गुलिश्च या नारी दीर्घकेशी च या भवेत् । दीर्घमायुरवाप्नोति पुत्रैश्च सह वर्तते इत्युक्तलक्षणवतीत्यर्थः । ज्ञानिनो लक्षणज्ञानवन्तः । अनृतवादिनः आसन्निति शेष: ॥ २ ॥
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ३ ॥
यज्वनः कृताश्वमेधादिकस्य । यज्वा तु विधिनेष्टवान् इत्यमरः । बहुयजमानकानि गवामयनप्रभृतीनि सत्राणि तत्कर्तासत्री तस्य महिषीं कृताभिषेकां । कृताभिषेका महिषी इत्यमरः । पत्नीं यज्ञसंयोगवतीं । पत्युर्नो यज्ञसंयोगे इति पतिशब्दस्य नकारान्तादेशः । ततो ऋन्नेभ्यो ङीप् इति ङीप् ॥ ३ ॥
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ४ ॥
संश्रवणे मम सम्यक् श्रवणे । मयि शृण्वन्त्यामित्यर्थः । यद्वा सम्यक् श्रवणमस्मिन्निति संश्रवणः सन्निधिः । मत्सन्निधावित्यर्थः । मात्रादिसमीप इति शेषः । कृतान्तः कालः तद्विदः कार्तान्तिका: । स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि इत्यमरः । शुभां नित्यमङ्गलां । प्रशस्तं सुदृशामनिमीलितलोचनम् । समवृत्तपुटा नासा लघुच्छिद्रा शुभावहा इत्यायुक्तलक्षणैरिति शेषः ॥ ४ ॥
वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ५ ॥
त्वं वीरपार्थिवपत्नी धन्या चेति ये विदुः । विदित्वा ऊचुरित्यर्थः । तेप्यनृतवादिन इति पूर्वेणान्वयः ॥ ५ ॥
इमानि खलु पद्मानि पौदयोर्यैः किल स्त्रियः ।
आधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ॥ ६ ॥
यैः पद्मैरुपलक्षिताः स्त्रियः आधिराज्येभिषिच्यन्ते किलेत्यैतिह्ये । तानीमानि पद्मानि रेखारूपाणि दृश्यन्त इति शेष: । खल्विति प्रसिद्धौ । स्पष्टं दृश्यन्त इत्यर्थः । कथमेषां निष्फलत्वमितिभावः ॥ ६ ॥
वैधव्यं यान्ति यैर्नार्यो लक्षणैर्भाग्यदुर्लभाः ।
नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ॥ ७ ॥
भाग्यदुर्लभाः दुर्लभभाग्या नार्यः । यैर्लेक्षणैर्वैधव्यं यान्ति तानि लक्षणानि पश्यन्ती विमृशन्ती । नपश्यामि । कुत्रापिवैधव्यहेतुर्लक्षणं न पश्यामीत्यर्थ: । किंतु केवलं हतलक्षणा निष्फललक्षणास्मीत्यर्थः । तादृशलक्षणानि च सामुद्रिकोक्तानि । परस्परं समारूढाः पादाङ्गुल्यो भवन्ति चेत् । हत्वा बहूनपि पतीन्परप्रेष्या तथा भवेत् ॥ यस्याः कनिष्ठिका भूमिं नगच्छन्त्याः परिस्पृशेत् । पतिद्वयं निहन्त्याद्या द्वितीया च पतित्रयम् ॥ एकरोमा राजपत्नी द्विरोमातिसुखान्विता । त्रिरोमा रोमकूपेषु भवेद्वैधव्यदुःखभाक् इत्यादिना ॥ ७ ॥
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः ।
तान्यद्य निहते रामे वितथानि भवन्ति मे ॥ ८ ॥
पदि पदे मा श्रीर्येषां तानि पद्मानीत्येवं सत्यनामानि । पदश्रीकराणीत्यर्थः । यद्वा पद्मावत्त्वात् पद्मशब्दवाच्यानि । रेखारूपाणि यानि पद्मानि । सत्यनामानि अन्वर्थनामानि । पद्माशब्दादर्शआद्यचि कृते रूपं । केचित्सत्यनामानि अमोघफलानीत्याहुः । लक्षणै: ध्वजादिलक्षणैः सह यानि सत्यनामानि पद्मान्युक्तानि तानि मे वितथानि निष्फलानि भवन्तीतियोजना ।। ८ ।।
केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते मम ।
वृत्ते चारोमशे जङ्घे दन्ताश्चाविरला मम ॥ ९ ॥
शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ ।
अनुवृत्तनखाः स्निग्धाः समाचाङ्गुलयो मम ॥ १० ॥
स्तनौ चाविरलौ पीनौ ममेमौ मनचूचुकौ ।
मना चोत्सङ्गिनी नाभिः पार्श्वोरस्काश्च मे चिताः ॥ ११ ॥
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च ।
प्रतिष्ठितां द्वादशभिर्मामृचुः शुभलक्षणाम् ॥ १२ ॥
केशा इत्यादिचतुःश्लोक्येकान्वया ।। अहं सूक्ष्मकेशत्वादिलक्षणलक्षितास्मि । अतो मां शुभलक्षणामूचुरित्यन्वयः । समाः न्यूनाधिक्यरहिताः । असंगते परस्परमसंयुक्ते । अरोमशे रोमरहिते । वृत्ते वर्तुले । अत्र स्कान्दं — रोमहीने शुभे स्निग्धे यज्जङ्घे क्रमवर्तुले । सा राजपत्नी भवति विशिरे सुमनोहरा इति ॥ शङ्खे नेत्रोपान्तभूतललाटपार्श्वे । चितौ उपचितौ । एतच्छङ्गे नेत्रे इत्यत्र लिङ्गव्यत्ययेन योजनीयं । अनुवृत्तनखाः वृत्तनखाः । अङ्गुलयः पादहस्ताङ्गुलयः । तदुक्तं स्कान्दे– स्निग्धाः समुन्नतास्तत्र वृत्ताः पादनखा: शुभा: इति । समाः हस्तपरिमाणसदृशाः । नातिदीर्घा नातिह्रस्वा इत्यर्थः । यद्वा एकहस्तवद्धस्तान्तरेपि तुल्यपरिमाणा इत्यर्थः । अन्यूनाधिकसंख्याका इति वार्थः । अविरलौ निरन्तरौ । मग्नचूचुकौ ईषन्मग्नाग्रौ । मग्ना गम्भीरा । उत्सङ्गिनी उन्नतपर्यन्तप्रदेशः । पार्श्वोरस्काः पार्श्वे च उरस्कं च । आर्षो लिङ्गव्यत्ययः । चिताः उचिताः । मणिनिभः मणिवत्स्निग्धवर्णः । प्रतिष्ठितां द्वादशभिः दशभिः पादाङ्गुलिभिः द्वाभ्यां पादतलाभ्यां च भूमौ सुप्रतिष्ठितां ।। ९-१२ ।।
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् ।
मन्दस्मितेत्येव च मां कन्यालक्षणिनो द्विजाः ॥ १३ ॥
समग्रयवं संपूर्णयवाकाररेखं । अच्छिद्रं श्लिष्टाङ्गुल्यन्तरालं । वर्णवत् अरुणवर्णं । मामूचुरित्यनुषञ्जनीयं । मन्दस्मितेत्येवेत्येवकारः अयोगव्यवच्छेदार्थः । नित्यमन्दस्मितेत्यर्थः ॥ १३ ॥
आधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह ।
कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् ॥ १४ ॥
कृतान्तकुशलैः ज्यौतिषिकसिद्धान्तनिपुणैः । अत्र इतिकरणं द्रष्टव्यं । अभिषेक इत्युक्तमित्यन्वयः । चक्रवर्तिस्त्रियः पाणौ नन्द्यावर्तः प्रदक्षिण: इत्याद्युक्तनन्द्यावर्तादिलक्ष -णैरिति भावः । सर्वं वितथीकृतमित्यतः परं यज्वनो महिषीं ये मामित्यधस्तनश्लोकः केपुचित्कोशेषु दृश्यते । स तु लेखकप्रमादकृतः ॥ १४ ॥
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च ।
तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥ १५ ॥
शोधयित्वा अन्विष्य । प्रवृत्तिं वृत्तान्तं । गोष्पदे इन्द्रजिन्मायामात्र इति भावः ॥ १५ ॥
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च ।
अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रेत्यपद्यताम् ॥ १६ ॥
अदृश्यमानेन रणे मायया वासवोपमौ ।
मम नाथावनाथाया निहतौ रामलक्ष्मणौ ॥ १७ ॥
ब्रह्मशिरः अस्त्रविशेषः । प्रत्यपद्यतां नन्वित्यन्वयः । परस्मैपदमार्षं । नन्विति प्रसिद्धौ । आमन्त्रणे वा । प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु इत्यमरः । स प्रलापे निर्निमित्तमामन्त्रणं संभवति ॥ १६-१७ ॥
न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः ।
जीवन्प्रति निवर्तेत यद्यपि स्यान्मनोजवः ॥ १८ ॥
दृश्यमानत्वे नैवं हन्तुं शक्नुयादित्याह – न हीति ॥ १८ ॥
न कालस्यातिभारोस्ति कृतान्तश्च सुदुर्जयः ।
यत्र रामः सह भ्रात्रा शेते युधि निपातितः ॥ १९ ॥
नेति । शुभाशुभप्रापकस्य कालस्यातिभारो ह नास्ति । अशक्यार्थोनास्तीत्यर्थः । कृतान्तः दैवं यत्र यतः । रामः अतिबलपराक्रमशाल्यपीति भावः ॥ १९ ॥
न शोचामि तथा रामं लक्ष्मणं च महाबलम् ।
नात्मानं जननीं वाऽपि यथा श्वश्रूं तपस्विनीम्॥ २० ॥
जननीं मन्मातरम् ॥ २० ॥
साऽनुचिन्तयते नित्यं समाप्तव्रतमागतम् ।
कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ।। २१ ।।
उक्तार्थे हेतुमाह सेति ॥ समाप्तव्रतं अथ आगतं सराघवं लक्ष्मणं सीतां च कदा द्रक्ष्यामीति अनुचिन्तयत इत्यन्वयः ॥ २१ ॥
परिदेवयमानां तां राक्षसी त्रिजटाऽब्रवीत् ॥ २२ ॥
परिदेवयमानां विलपन्तीं ॥ २२ ॥
मा विषादं कृथा देवि भर्ताऽयं तव जीवति ॥ २३ ॥
मा विषादमित्यर्धं ॥ २३ ॥
कारणानि च वक्ष्यामि महान्ति सदृशानि च ।
यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ॥ २४ ॥
इमौ रामलक्ष्मणौ जीवत इति यथा ज्ञातुं शक्यते तथा । महान्ति स्फुटानि । पूर्वानुभूततुल्यानि । दृष्टसंवादानीति यावत् । कारणानि हेतून् । वक्ष्यामीत्यन्वयः ।। २४ ।।
न हि कोपपरीतानि हर्षपर्युत्सुकानि च ।
भवन्ति युधि योधानां मुखानि निहते पतौ ॥ २५ ॥
इदं विमानं वैदेहि पुष्पकं नाम नामतः ।
दिव्यं त्वां धारयेन्नैवं यद्येतौ गतजीवितौ ॥ २६ ॥
तान्येव कारणानि व्यतिरेकमुखेनाह-न हीति ।। हर्षेण पर्युत्सुकानि । प्रसन्नानीतियावत् ।। २५-२६ ॥
हतवीरप्रधाना हि हतोत्साहा निरुद्यमा ।
सेना भ्रमति संख्येषु हतकर्णेव नौर्जले ॥ २७ ॥
हतकर्णा हतकर्णधारा ।। २७ ।।
इयं पुनरसंभ्रान्ता निरुद्विग्ना तैरस्विनी ।
सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ ॥ २८ ॥
निवेदितौ निवेदित जीवितौ ।। २८ ।।
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः ।
अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते ॥ २९ ॥
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
चारित्रसुखशीलत्वात्प्रविष्टासि मनो मम ॥ ३० ।।
अनुमानैः चिह्नैः । सुखोदयैः सुखज्ञेयैरित्यर्थः। चारित्रसुखशीलत्वात् । चरित्रमेव चारित्रं पातिव्रत्यं तदेव सुखं प्रियं शीलं स्वभावः यस्याः सा तस्याः भावश्चारित्रसुखशीलत्वं तस्मात् । यद्वा चारित्रेणाह्लादकस्वभावत्वादित्यर्थ: । प्रविष्टासि मनो मम । त्वयि मम स्नेहो वर्तत इत्यर्थः ॥ २९-३० ।।
नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः ।
तादृशं दर्शनं दृष्ट्वा मया चौवेदितं तव ।
इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि ॥ ३१ ॥
तादृशं तादृग्विधं । जीवनव्यञ्जकमिति यावत् । दृश्यते ज्ञायतेनेनेति दर्शनं सैन्यमुखप्रसादादिकं । पूर्वदृष्टं स्वप्नमिति वार्थः । शनैः पश्यस्व सावधानेन पश्येत्यर्थः ॥ ३१ ॥
निःसंज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते ।
प्रायेण गतसवानां पुरुषाणां गतायुषाम् ।
दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ॥ ३२ ॥
न वियुज्यते न जहाति । गतायुषां अतएव गतसत्त्वानां गतप्राणानां । द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु इत्यमरः । वैकृतं विकृतिः ॥ ३२ ॥
त्यज शोकं च मोहं च दुःखं च जनकात्मजे ।
रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ॥ ३३ ॥
रामलक्ष्मणयोरर्थे शोकं शोककृतं मुखविकारं । मोहं विपरीतबुद्धिं । दुःखं मनोव्यथां च त्यज । अजीवितुं न शक्यं जीवितुं शक्यमेवेत्यर्थ: ॥ ३३ ॥
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा ।
कृताञ्जलिरुवाचेद मेवमस्त्विति मैथिली ॥ ३४ ॥
कृताञ्जलिरित्यनेन भगवद्विषयोपदेष्टा योपि कोप्यादरणीय इत्युक्तं । इदंशब्दविवरणं एवमस्त्विति ॥ ३४ ॥
विमानं पुष्पकं तत्तु सन्निवर्त्य मनोजवम् ।
दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ॥ ३५ ॥
विमानमिति । सन्निवर्तने प्रवेशने च त्रिजटैव कर्त्री ॥ ३५ ॥
ततस्त्रिजटया सार्धें पुष्पकादवरुह्य सा ।
अशोकवनिकामेव राक्षसीभिः प्रवेशिता ॥ ३६ ॥
राक्षसीभिरित्यनेन त्रिजटादर्शनायानीतेति गम्यते ।। ३६ ।।
प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् ।
संप्रेक्ष्य संचिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥ ३७ ॥
विहारभूमिं प्रमदावनं । संप्रेक्ष्य संचिन्त्य । प्रेक्षितप्रकारेण संचिन्त्येत्यर्थः । यद्वा भावनाप्रकर्षात्पुरः स्थितौ संप्रेक्ष्येत्यर्थः ॥ ३७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ॥ ४८ ॥