श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तपञ्चाशः सर्गः
रावणचोदनयाग्रहस्तेन नरान्तकादिसचिवचतुष्टयसाहित्येन पूर्वद्वाराद्रणायनिर्याणम् ॥ १ ॥
अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः ।
किंचिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥ १ ॥
अथ युद्धाय प्रहस्तनिर्याणं सप्तपञ्चाशे – अकम्पनवधमित्यादि ॥ १ ॥
स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च ।
ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः ।
पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् ॥ २ ॥
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् ।
ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ॥ ३ ॥
स वित्यादिसार्धश्लोक एकान्वयः ॥ ततः स रावणः पुरीं परिययौ । पूर्वदिवसे दिवसस्य पूर्वभागे । पूर्वाह्न इत्यर्थ: । गुल्मान् सेनाव्यूहान् ॥ २-३ ॥
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः ।
उवाचामर्षतः काले प्रहस्तं युद्धकोविदम् ॥ ४ ॥
काले निदेशार्हसमये ॥ ४ ॥
पुरस्योपनिविष्टस्य सहसा पीडितस्य वा ।
नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद ॥ ५ ॥
उप समीपे निविष्टं परसेनानिवेशो यस्य तस्य उपरुद्धस्येत्यर्थः । अतएव वाशब्दश्चार्थे । पीडितस्य च मोक्षं मोक्षोपायं ॥ ५ ॥
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम ।
इन्द्रजिद्वा निकुम्भो वा बहेयुर्भारमीदृशम् ॥ ६ ॥
वहेयुरिति शकि लिङ् ।। ६ ।।
स त्वं बलमतः शीघ्रमादाय परिगृह्य च ।
विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥ ७ ॥
शीघ्रमादाय । परिगृह्य स्वाधीनं कृत्वा । यत्र वनौकसो वर्तन्ते तत्र इतो निर्याहीत्यन्वयः ॥ ७ ॥
निर्याणादेव ते नूनं चपला हरिवाहिनी ।
नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥ ८ ॥
चपला ह्यविनीताश्च चलचित्ताश्च वानराः ।
न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥ ९ ॥
चपला धैर्यरहिता ।। ८-९ ॥
विद्रुते च बले तस्मिन्रामः सौमित्रिणा सह ।
अवशस्ते निरालम्बः प्रहस्त वशमेष्यांत ॥ १० ॥
अवशः प्रभुत्वरहितः । वश मिच्छाप्रभुत्वयोः इति विश्वः । हे प्रहस्त । ते तव वशमेष्यतीत्यन्वयः ॥ १० ॥
आपत्संशयिता श्रेयो न तु निस्संशयीकृता ।
प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ॥ ११ ॥
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ।
राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ १२ ॥
ननु युद्धे सत्यात्महानेरपि । संभवात्तदकरणमेव श्रेय इत्याशङ्क्य तथात्वे शत्रुकृताया हानेर्निश्चितत्वात् युद्धकरणे तस्याः संदेहात् । यत्रायुद्धे ध्रुवो मृत्युर्युद्धे जीवितसंशयः । तमेव कालं युद्धस्य प्रवदन्ति मनीषिणः इत्युक्तरीत्या इदानीं युद्धमेव श्रेय इत्याह – आपदिति ॥ संशयिता वितर्किता । आपत् मृतिः । श्रेयः । युद्धे मृतिः श्रेयस्करीत्यर्थः । जयापजययोरव्यवस्थितत्वेन पाक्षिकजयस्यापि संभवादिति भावः । पक्षान्तरं प्रतिक्षिपति – नत्विति । निस्संशयीकृता निश्चिता । मृतिस्तु युद्धं विना शत्रुभिर्मरणं तु न श्रेयः एतन्मम मतं । त्वन्मतं तु किमित्याह – प्रतिलोमेति । प्रतिलोमं मदुक्तप्रकारविपरीतप्रकारं । अनुलोमं वा नोस्माकं यद्धितं मन्यसे तद्वदेति शेषः । वेति पक्षान्तरे । अहं तदेव श्रेयो मन्ये । त्वमन्यच्च यदि मन्यसे तद्वद । तदेवास्माकं हितमित्यर्थः ॥ ११ – १२ ॥
राजन्मत्रितपूर्वं नः कुशलैः सह मन्त्रिभिः ।
विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥ १३ ॥
मन्त्रसमये मया यथा निर्धारितं तत्तथा प्रवृत्तमित्याह-राजन्नित्यादिना । कुशलैर्मन्त्रिभिः विभीषणादिभिः सह । नः अस्माभिः । इदं वक्ष्यमाणं मन्त्रितपूर्वं । तर्हि मन्त्रितत्वे तथा किमिति नानुष्ठितं तत्राह-विवाद इति । परस्परं समवेक्ष्य बहुमतितया आलोच्य । नः अस्माकं विवादश्चापि वृत्तः । येन विभीषणो निरगच्छदिति भावः ॥ १३ ॥
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया ।
अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ॥ १४ ॥
मन्त्रितमर्थमाह प्रदानेन त्विति ॥ सीतायाः प्रदानेन तु श्रेयः । अप्रदाने तु युद्धमिति च मम व्यवसितमित्यर्थः । सर्वमरणं युद्धशब्देनोपचर्यते । यथैव व्यवसितं तथैव नः अस्माभिः । दृष्टं च ॥ १४ ॥
सोहं दानैश्च मानैश्च सततं पूजितस्त्वया ।
सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ॥ १५ ॥
एवं स्वमतमुक्त्वा संप्रति त्वन्मतानुसारेण युद्धमेव करिष्यामीत्याह सोहमित्यादिना ॥ दानैः भूषणादिप्रदानैः । मानैः त्वदधीनं जीवितमित्यादिप्रियभाषणैः । पूजितः उत्कर्षमापादितः । काले आपत्काले । किंन कुर्यां जीवितत्यागमपि कुर्यामित्यर्थः ॥ १५ ॥
न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा ।
त्वं पश्य मां जुहूषन्तं त्वदर्थं जीवितं युधि ॥ १६ ॥
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ।
उवाचेदं बलाध्यक्षान्प्रहस्तः पुरतः स्थितान् ॥ १७ ॥
समानयत मे शीघ्रं राक्षसानां महद्बलम् ॥ १८ ।।
उक्तमेव विशदयति न हीति ॥ जुहूषन्तं होतुमिच्छन्तं । जुहोतेः सन्प्रत्ययः । अनेन जीवितस्य हविष्ट्वं युद्धस्याग्निरूपत्वं च गम्यते । तेन चात्महवि: प्रदानस्य महाफलत्वं युद्धसङ्गतिमात्रेण स्वविनाशश्च द्योत्यते । गतानुगतिकास्तु जुहूषन्तं त्यक्तुमिच्छन्तमित्यर्थः । जुहोतेर्दानार्थत्वादित्याहुः ॥ १६-१८ ॥
मद्बाणशतवेगेन हतानां च रणाजिरे ।
अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम् ॥ १९ ॥
इत्युक्तास्ते ग्रहस्तेन बलाध्यक्षाः कृतत्वराः ।
बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे ॥ २० ॥
सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः ।
लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ॥ २१ ॥
हतानां काननौकसां तृप्यन्त्वियन्वयः । पूरणगुण – इत्यादिना समासप्रतिषेधेन सुहितार्थयोगे ज्ञापिता षष्ठी ॥१९-२१ ॥
हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ।
आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ॥ २२ ॥
हुवाशनं तर्पयतां अग्नौ बहुधा शान्तिहोमानाचरतां । ब्राह्मणांश्च नमस्यतां गन्धपुष्पादिभिरर्चयतां संबन्धी आज्यगन्धप्रतिवहः ब्राह्मणार्चनकुसुमादिना सुरभिर्मारुतो ववौ ॥ २२ ॥
स्रजश्व विविधाकारा जगृहुस्त्वभिमन्त्रिताः ।
संग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा ॥ २३ ॥
संग्रामसज्जा: संग्रामायोद्युक्ताः । राक्षसाः अभिमन्त्रिताः विजयमन्त्रेणाभिमन्त्रिताः । स्रजः जगृहु: । धारयन् अघारयंश्च ॥ २३ ॥
सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ।
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् ॥ २४ ॥
रावणं प्रेक्ष्य स्वामितया प्रधानं रावणमभिवन्द्येत्यर्थः ॥ २४ ॥
अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् ।
आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ॥ २५ ॥
हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयतम् ।
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ॥ २६ ॥
उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् ।
सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ॥ २७ ॥
अथेत्यादिश्लोकत्रयं ॥ सज्जकल्पितं सज्जमुद्युक्तं सर्वायुधादिसमवेतत्वेन कल्पितमित्यर्थः । सुसंयतं नियमितं । साक्षाच्चन्द्रार्कभास्वरं चन्द्रार्कतुल्यं भास्वरं च । साक्षात्प्रत्यक्षतुल्ययोः इत्यमरः । आह्लादकत्वेन चन्द्रसाम्यं । तेजसाऽर्कसाम्यं । सुवरूथं शोभनरथगुप्तिकं । रथगुप्तिर्वरूथोना इत्यमरः । स्वपस्करं शोभनरथाङ्गं । अपस्करो रथाङ्गं इति निपातनात् सुडागमः । जालं गवाक्षं । प्रहसन्तमिव श्रिया स्वकान्त्या सर्वकान्तिमद्वस्तु परिहसन्तमिव स्थितं ॥ २५–२७ ॥
ततस्तं रथमास्थाय रावणार्पितशासनः ।
लङ्काया निर्ययौ तूर्णं बलेन महताऽऽवृतः ॥ २८ ॥
ततः आरोहणानन्तरं ॥ २८ ॥ तत
ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः ।
वादित्राणां च निनदः पूरयन्निव सागरम् ॥
शुश्रुषे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ॥ २९ ॥
इत्यादिसार्धश्लोक एकान्वयः ॥ पर्जन्यः मेघविशेषः ॥ २९ ॥
निनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतः ।
भीमरूपा महाकायाः प्रहस्तस्य पुरस्सराः ॥ ३० ॥
नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।
प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् ॥ ३१ ॥
पुरस्सराः अग्रगाः ॥ ३०-३१ ॥
व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ ।
गजयूथनिकाशेन बलेन महता वृतः ॥ ३२ ॥
व्यूढेन सन्नद्धकङ्कटेन । व्यूढः सन्नद्धकङ्कट: इत्यमरशेषे ॥ ३२ ॥
सागरप्रतिमौघेन वृतस्तेन बलेन सः ।
प्रहस्तो निर्ययौ तूर्णं कालान्तकयमोपमः ॥ ३३ ॥
कालान्तकयमोपमः काले प्रलयकाले अन्तको विनाशको यो यमस्तदुपमः ॥ ३३ ॥
तस्य निर्याणघोषेण राक्षसानां च नर्दताम् ।
लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥ ३४ ॥
तस्य प्रहस्तस्य । निर्याणघोषेण निर्गमकालिकसिंहनादेन । राक्षसानां निर्याणघोषेण च प्रयोजनेन । सर्वभूतानि विकृतैः सर्वैरुपलक्षितानि सन्ति विनेदुरिति संबन्धः ॥ ३४ ॥
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः ।
मण्डलान्यपसव्यानि स्वगाश्चक्रू रथं प्रति ॥ ३५ ॥
वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ।
अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ ३६
अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ॥ ३७ ॥
मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः ।
ववृषू रुधिरं चास्य सिषिचुञ्च पुरस्सरान् ॥ ३८ ॥
अपसव्यानि अप्रदक्षिणानि । व्यभ्रमित्यनेन मण्डलकरणस्याकालिकत्वमुक्तं । साभ्रकाले हि पक्षिणो मण्डलान्याचरन्ति । यद्वाऽत्र खगाः गरुडाः । अपसव्यं प्रदक्षिणं अपसव्यं तु दक्षिणं इत्यमरः । गरुडानां ह्यप्रदक्षिणं । शोभनं । ग्रहा: चन्द्रसूर्यादयः । तत्काले ग्रहयुद्धमासीदित्यर्थः ॥ ३५–३८ ।।
केतुमूर्धन गृध्रोस्य निलीनो दक्षिणामुखः ।
तुदन्नुभयतः पार्श्वं समग्रामहरत्प्रभाम् ॥ ३९ ॥
तुदन्नुभयतः पारर्श्वं । उभौ पक्षौ मुखेन कण्डूयमानः समग्रामहरत् प्रभां प्रहस्तस्येति शेषः । ध्वजाप्रारूढगृध्रदर्शनेन प्रहस्तमुखं विवर्णमासीदित्यर्थः ॥ ३९ ॥
सारथेर्बहुशश्चास्य संग्राममवगाहतः ।
प्रतोदो न्यपतद्वस्तात्सूतस्य हयसादिनः ॥ ४० ॥
सूतस्य सूतजातस्य । हृयसादिनः हयप्रस्थापकस्य । प्रतोदः तोत्रं । यद्वा सूतस्य सूतकुलोत्पन्नस्य । अभ्यस्तप्रतोद्धारणस्यापीत्यर्थः । यसादिनः अश्वगतिशिक्षकस्य ॥ ४० ॥
निर्याणश्रीश्च यास्यासीद्भास्वरा वसुदुर्लभा ।
सा ननाश मुहूर्तेन समे च स्खलिता हयाः ॥ ४१ ॥
वसुदुर्लभा अष्टवसुदुर्लभा । भास्वरा वसुदुर्लभेति पाठः । निर्याणश्रीः निर्गमकालिकश्रीः । निरुत्साहः प्रहस्तोभूदित्यर्थः । स्खलिता: चस्खलुः । कर्तरि क्तः ॥ ४१ ॥
ग्रहस्तं त्वभिनिर्यान्तं प्रख्यातबलपौरुषम् ।
युधि नानाप्रहरणा कपिसेनाऽभ्यवर्तत ॥ ४२ ॥
नानाप्रहरणा शिलावृक्षादिनानाप्रहरणा ॥ ४२ ॥
अथ घोषः सुतुमुलो हरीणां समजायत ।
वृक्षानारुजतां चैव गुर्वीरागृह्णतां शिलाः ॥ ४३ ॥
आरुजतां उन्मूलयतां । आगृह्णतां आसमन्तात् गृह्णतां ॥ ४३ ॥
नदतां राक्षसानां च वानराणां च गर्जताम् ।
उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ॥ ४४ ॥
वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् ।
परस्परं चाह्वयतां निनादः श्रूयते महान् ॥ ४५ ॥
नदतामिति त्रिपादश्लोकः ।। रक्षोगणवनौकसामित्युत्तरशेषः ।। ४४-४५ ॥
ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः ।
विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ।। ४६ ॥
कपिराजवाहिनीमभिप्रतस्थे तां चमूं विवेश च ॥ ४६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥