श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ताशीतितमः सर्गः
विभीषणेनलक्ष्मणंप्रतिनिकुंभिलायांन्यग्रोधतरुप्रदर्शनपूर्वकंतत्रहोमसमाप्ताविन्द्रजितोदुर्जयत्वोक्त्यान्यग्रोधतलप्रवेशात्प्रागेवतद्वधचोदना ॥ १ ॥ लक्ष्मणेनरणायसमाहूतेनेन्द्रजिता -तत्पार्श्वस्थंविभीषणप्रतिभ्रातृपक्षपरित्यागेनपरपक्षसमाश्रयणादिदोषोत्कीर्तनपूर्वकं गर्हणम् ॥ २ ॥ विभीषणेनतंप्रतिरावणदोषोद्घाटनपूर्वकं तत्त्यागस्यन्याय्यत्वोक्त्यातद्गर्हणम् ॥ ३ ॥
एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः ।
धनुष्पाणिनमादाय त्वरमाणो जगाम ह ॥ १ ॥
अथेन्द्रजिद्विभीषणसंवादः – एवमुक्त्वेत्यादि ॥ धनुष्पाणिनमिति नकारान्तत्वमार्षम् ॥ १ ॥
अविदूरं ततो गत्वा प्रविश्य च महद्वनम् ।
दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ॥ २ ॥
नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम् ।
तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥ ३ ॥
अविदूरमिति ॥ तत्कर्म होमकर्मस्थानम् ॥ २–३ ॥
इहोपहारं भूतानां बलवान्रावणात्मजः ।
उपहृत्य ततः पश्चात्सङ्ग्राममभिवर्तते ॥ ४ ॥
अदृश्यः सर्वभूतानां ततो भवति राक्षसः ।
निहन्ति समरे शत्रून्बध्नाति च शरोत्तमैः ॥ ५ ॥
उपहारं बलिं । उपहृत्य कृत्वा । ओदनपाकं पचतीतिवत् । ततः तस्माद्देशात् ॥ ४-५ ॥
तमप्रविष्टन्यग्रोधं बलिनं रावणात्मजम् ।
विध्वंसय शेरैस्तीक्ष्णैः सरथं साश्वसारथिम् ॥ ६ ॥
तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः ।
बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः ॥ ७ ॥
स रथेनाग्निवर्णेन बलवान्रावणात्मजः ।
इन्द्रजित्कवची धन्वी सध्वजः प्रत्यदृश्यत ॥ ८ ॥
अप्रविष्टन्यग्रोधं रावणात्मजं विध्वंसय । पुनः प्रवेशात्पूर्वमेव विध्वंसयेत्यर्थः ॥ ६-८ ॥
तमुवाच महातेजाः पौलस्त्यमपराजितम् ।
समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥ ९ ॥
महातेजा इति लक्ष्मणो विशेष्य: । सम्यग्युद्धं अमायायुद्धं ॥ ९ ॥
एवमुक्तो महातेजा मनस्वी रावणात्मजः ।
अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥ १० ॥
मनस्वी दृढमनस्क: ॥ १० ॥
इह त्वं जातसंवृद्धः साक्षाभ्राता पितुर्मम ।
कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥ ११ ॥
इह लङ्कायां । जातसंवृद्धः । पूर्वकाल – इत्यादिना पूर्वकालार्थवाचिनो जातशब्दस्य उत्तरकालार्थवाचिना संवृद्धशब्देन सह समासः । पुत्रस्य पुत्राय । क्रुधद्रुह — इत्यादिना चतुर्थीनियमात् । राक्षसेत्यनेन साजात्यमपि न दृष्ट वानसीति व्यज्यते ॥ ११ ॥
न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते ।
प्रमाणं न च सौंदर्यं न धर्मो धर्मदूषण ॥ १२ ॥
प्रमाणं मर्यादानियामकं ॥ १२ ॥
शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः ।
यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥ १३ ॥
शोच्यत्वादौ हेतुमाह – यस्त्वमिति ।। १३ ।।
नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् ।
क च स्वजनसंवासः क च नीचपराश्रयः ॥ १४ ॥
शिथिलया कोमलया, तुच्छया वा । अन्तरं तारतम्यं ॥ १४ ॥
गुणवान्वा परजनः स्वजनो निर्गुणोपि वा ।
निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः ॥ १५ ॥
ननु परस्य नीचत्वाभावान्न भवदुक्तदोष इत्यत्राह – गुणवानिति ॥ १५ ॥
यः स्वपक्षं परित्यज्य परपक्षं निषेवते ।
स स्वपक्षे क्षयं प्राप्ते पश्चात्तैरेव हन्यते ॥ १६ ॥
[ तंस्माच्छृणुष्व दुर्बुद्धे राक्षसानां कुलाधम ।
त्वां गृह्य बन्धुरूपेण रामो बुद्धिमतांवरः ।
ज्ञात्वोपायं त्वया पूर्व जेतुमस्मान्स राघवः ॥ १७ ॥
जित्वाऽस्मान्युधि शक्तश्चेत्पश्चात्त्वां च वधिष्यति ।
शत्रुस्त्वमसि रामस्य रावणस्यानुजोसि यत् ॥ १८ ॥]
तदेव वैषम्यं स्वरूपतो दर्शयति ——य इति ।। १६ – १८ ॥
निरनुक्रोशता चेयं यादृशी ते निशाचर ।
स्वजनेन त्वया शक्यं परुषं रावणानुज ॥ १९ ॥
इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ॥ २० ॥
इयं होमविघातपूर्वकं लक्ष्मणस्य न्यग्रोधप्रवेशकरणरूपा । निरनुक्रोशता निर्दयता, यादृशी यथा घोरा तादृशं परुषं निर्दयत्वं । स्वजनेन बन्धुभूतेन त्वयैव कर्तुं शक्यं नान्येनेत्यर्थः । यद्वा स्वजने विषये त्वया न शक्यं न कर्तव्यं । अनुचितं कृतमिति भावः ।। १९–२० ॥
अजानन्निव मच्छीलं किं राक्षस विकत्थसे ।
राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ॥ २१ ॥
गौरवात् । गुरोर्भावो गौरवं । पितृव्यत्वादित्यर्थः ॥ २१ ॥
कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ।
गुणोयं प्रथमो नॄणां तन्मे शीलमराक्षसम् ॥ २२ ॥
रक्षसां कुले यद्यप्यहं जातः । तत् तथापि । मे शीलं अराक्षसं अक्रूरं । अयं मे शीलाख्यो गुणः नृणां सत्पुरुषाणां । प्रथमः मुख्यः ॥ २२ ॥
न रमे दारुणेनाहं न चाधर्मेण वै रमे ।
भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ॥ २३ ॥
तन्मे शीलमराक्षसमित्युक्तमेव दर्शयति न रम इति ॥ दारुणेन कर्मणा न रमे । अधर्मेण परपीडाकरेण च कर्मणा न रमे । न केवलं मय्येव दोषः रावणेपीत्याह – भ्रात्रेति । निरस्यते । त्वां तु धिक्कुलपांसनं इति वचनेनेत्यर्थः ॥ २३ ॥
धर्मात्प्रच्युतशीलं हि पुरुषं पापनिश्चयम् ।
त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ॥ २४ ॥
इन्द्रजिदुक्तस्वदोषपरिहाराय परित्यागहेतून् रावणदोषानाह– धर्मादित्यादिना ॥ २४ ॥
हिंसापरस्वहरणे परदाराभिमर्शनम् ।
त्याज्यमाहुर्दुराचारं वेश्म प्रज्वलितं यथा ॥ २५ ॥
हिंसा च परस्वहरणं च ते हिंसापरस्वहरणे हिंसादिरूपं दुराचाररूपं कर्म त्याज्यमाहुः । तद्युक्तस्त्याज्य इत्यर्थः ।। २५ ।।
परस्वानां च हरणं परदाराभिमर्शनम् ।
सुहृदामतिशङ्का च त्रयो दोषाः क्षयावहाः ॥ २६ ॥
सुहृदामतिशङ्का सुहृत्स्वविश्वासः ॥ २६ ॥
महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः ।
अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ॥ २७ ॥
एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः ।
गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः ॥ २८ ॥
दोषवत्तया यदि त्याज्यत्वं, तर्ह्यभिजनविद्यादिगुणवत्तया किमिति न ग्राह्यत्वमित्यत आह – महर्षीणामिति सार्धश्लोकद्वयमेकान्वयं अभिमानः गर्वः । वैरित्वं बद्धवैरत्वं । प्रतिकूलता परश्रेयोद्वेषित्वं । तथा चाभि जनविद्यादिगुणवत्त्वेपि परस्त्रीहरणादिदोषदूषिततया विषसंपृक्तमधुवन्न ग्राह्योयमिति भावः ।। २७-२८ ।।
दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ।
नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ॥ २९ ॥
अतिमानी च बालश्च दुर्विनीतश्च राक्षस ।
बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ॥ ३० ॥
अद्य ते व्यसनं प्राप्तं किं मां त्वमिह वक्ष्यसि ।
प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ॥ ३१ ॥
नेयमस्तीत्यादि । उत्तरक्षणे अवश्यं न शिष्यतीत्यर्थ: ।। २९-३१ ।।
धर्षयित्वा च काकुत्स्थौ न शक्यं जीवितुं त्वया ।
युध्यस्व नरदेवेन लक्ष्मणेन रणे सह ।
हतस्त्वं देवताकार्यं करिष्यसि यमक्षये ॥ ३२ ॥
निदर्शय स्वात्मवलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम् ।
न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन्सबलो गमिष्यसि ॥ ३३ ॥
देवताकार्यं यमदूतरूपदेवताकार्यं । नरकयातनानुभवं वा ॥ ३२-३३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्ताशीतितमः सर्गः ॥ ८७ ॥