श्री वरवरमुनिमङ्गळाशासनम्
मङ्गळं मुनिवर्याय रम्यजामातृयोगिने ।
यच्छात्रभावं संप्राप्तश्रीशश्रीरङ्गनायकः ।। (१)
श्रीमते सौम्यजामातृमुनीन्द्राय महात्मने ।
श्रीरङ्गवासिने भूयान्नित्यश्रीः नित्यमङ्गळम् ।। (२)
तुलामासेऽवतीर्णाय भोगिराजांशसञ्जुषे ।
मूलर्क्षे सौम्यजामातृमुनये नित्यमङ्गळम् ।। (३)
श्रीरामानुजयोगीन्द्रदर्शनाब्धि-सुधांशवे ।
सौम्यजामातृमुनये सर्वज्ञायास्तु मङ्गळम् ।। (४)
श्रीपतेश्चरणांभोजप्रेमाऽमृतमहाब्धये ।
सौम्यजामातृमुनये सत्त्वोद्रिक्ताय मङ्गळम् ।। (५)
सदा द्वयानुसन्धानसाक्षात्कृत-मधुद्विषे ।
सौम्यजामातृमुनये शान्तिभूषाय मङ्गळम् ।। (६)
अष्टाक्षरब्रह्मविद्यानिष्ठायाऽमिततेजसे ।
सौम्यजामातृमुनये शौरिहृद्याय मङ्गळम् ।। (७)
श्रीमच्छठारिसूक्तीनां व्याख्यावैदग्धशालिने ।
सौम्यजामातृमुनये सतां सेव्याय मङ्गळम् ।। (८)
श्रीरामानुजभाष्यार्थव्याख्यानिपुणचेतसे ।
सौम्यजामातृमुनये सतां भोग्याय मङ्गळम् ।। (९)
श्रीरामानुजपादाब्जं प्राप्यप्रापकभावतः ।
प्राप्ताय सौम्यजामातृमुनये नित्य मङ्गळम् ।। (१०)
श्रीशैलेशगुरोः दिव्यश्रीपादांभोरुहाळये ।
सौम्यजामातृमुनये सत्त्वशुद्घाय मङ्गळम् ।। (११)
प्रपन्नजनसन्दोहमन्दाराय महात्मने ।
सौम्यजामातृमुनये सात्त्विकेन्द्राय मङ्गळम् ।। (१२)
स्वीयपादाब्जभक्तानां भूयसां मुक्तिमिच्छते ।
सौम्यजामातृमुनये सर्वोत्कृष्टाय मङ्गळम् ।। (१३)
ज्ञानभक्तिविरक्त्यादि-कल्याणगुणशालिने ।
सौम्यजामातृमुनये गुणतुङ्गाय मङ्गळम् ।। (१४)
प्रमाणसङ्ग्रहं गीतां भट्टनाथकृतेर्मुखम् ।
व्याख्यात्रे सौम्यजामातृमुनये नित्यमङ्गळम् ।। (१५)
विंशतिं यतिराजस्य गोपालस्य च कुर्वते ।
सौम्यजामातृमुनये सिद्धतत्त्वाय मङ्गळम् ।। (१६)
लोकाचार्यरहस्यानां व्याख्यानिष्कृष्टबुद्धये ।
सौम्यजामातृमुनये वाङ्मनोज्ञाय मङ्गळम् ।। (१७)
आचार्य-हृदयस्वान्त-व्याख्यानासक्तचेतसे ।
सौम्यजामातृमुनये दयोदाराय मङ्गळम् ।। (१८)
वेदान्तार्य-प्रबन्धानां शुद्धसारनिवेदिने ।
सौम्यजामातृमुनये शुद्धविद्याय मङ्गळम् ।। (१९)
श्रीरङ्गादिस्थलेशानां मङ्गळाशासनं शुभम् ।
कुर्वते सौम्यजामातृमुनये नित्यमङ्गळम् ।। (२०)
मङ्गळाशासनपरैः मदाचार्य पुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गळम् ।। (२१)