वरवरमुनि शतकम् – देवराजगुरु

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

श्रीमत् वरवरमुनये नम :

श्री देवराजगुरु विरचितः

 

वरवरमुनि शतकम्

 

श्री देवराजगुरुवर्यविषयोsयम् श्लोक: |

सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् |
देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम्  ||

वरवरमुनिवर्यपादुरत्नं वरदगुरुंगुरुमाश्रये गुरूणाम् |

उपनिशदुपगीतमर्थतत्वं तदिह यदीयवशम्वदं समिन्धे || ||

आकल्पमत्र भवतु प्रदयन् धरित्रीं
अस्मद्गुरुर्वरवरप्रवरो मुनीनाम |
अन्तस्तमश्शमनम् अन्तदृषां यदीयम्
अम्लानपल्लवतलारुणमङ्घ्रियुग्मम्  || २॥

 

गुणमणिनिधये नमो नमस्ते गुरुकुलधुर्य नमो नमो नमस्ते |

वरवरमुनये नमो नमस्ते  यतिवरतत्वविदे नमो नमस्ते  ||  ||

कुरु मयि विमलं दृगञ्चलं ते कुशलनिदानदयानिधे नमस्ते |

निशिचरपरिपन्थिनित्ययुक्ते निमिकुलमङ्गलदीपिके नमस्ते ||||

रविसुतसुहृदे नमोनमस्ते रघुकुलरत्न नमो नमो नमस्ते |

दशमुखमकुटछिदे नमस्ते दशरथनन्दन सन्ततं नमस्ते ||   ||

यदि पुनरभिधेयमद्वितीयं |

कृतिभिरतः परमीक्ष्यते न किञ्चित् ||

विजहति न हि जातु शुक्तिमुक्तं |

विशदशशिद्युतिमौक्तिकं विदग्धाः || ||

देव प्रसीद मयि दिव्यगुणैकसिन्धो |

दृष्ट्या  दयाSमृतदुहा सकृदीक्षितुं माम् ||

नैतेन कृत्यमसतेति न चिन्तयित्वा |

नारायणं गुरुवरं वरदं विदन्मे ||||

श्रीमद्रङ्गं जयतु परमंधाम तेजोनिधानं |

भूमा तस्मिन् भवतु कुशली कोपि भूमासहायः ||

दिव्यं तस्मै दिशतु विभवं देशिको देशिकानाम् |

काले काले वरवरमुनिः कल्पयन् मङ्गळानि || ||

तस्यै नित्यम्प्रदिशति दिशे दक्षिणस्यै नमस्याम् |

यस्यामाविर्भवति जगताञ्जीवनी सह्यकन्या ||

पुण्यैर्यस्याः क्षितितलजुषं पूरुषं रङ्गभूषां |

पश्यन्धन्यो वरवरमुनिः पालयन्वर्तते नः || ||

आशापाशैरवधिविधुरैः स्वैरमाकृष्यमाणं |

दूराद्दूरं पुनरपि न मे दूयतामेव चेतः ||

अन्तःकृत्वा वरवरमुने नित्यमङ्घ्रिद्वयं ते |

धाराकारस्मरणसुभगं निश्चली भूय तत्र || १० ||

त्वम्मे बन्धुस्त्वमसि जनकस्त्वं सखा देशिकस्त्वम् |
विद्या वृत्तं सुकृतमतुलं वित्तमप्युत्तमं त्वम् ||
आत्मा शेषी भवसि भगवन् ! आन्तरश्शासिता त्वं |
यद्वा सर्वं वरवरमुने! यद्यदात्मानुरूपं || ११   ||

आम्नायेषु स्मृतिभिरमितैस्सेतिहासै: पुराणैः
दृश्यं यत्नैर्यदिह विदुषां देशिकानां प्रसादात्  ||
स्वैरालापैस्सुलभयसि तत्पञ्चमोपायतत्वम्
दर्शंदर्शं वरवरमुने दैन्यमस्मद्विधानाम् || १२॥

सत्सम्बन्धो भवति हितमित्यात्मनैवोपदिष्टं |
शिष्टाचारं दृढयितुमिह श्रिसखो रङ्गधुर्यः ||
द्वारं प्राप्य प्रथितविभवो देवदेवस्त्वदीयं |
दृष्ट्वैव त्वां वरवरमुने दृश्यते पूर्णकामः || १३॥

सोऽयम्भूयस्स्वयमुपगतो देशिकैस्संसदं ते |
श्रुत्वा गूढं शठरिपुगिरामर्थतत्वं त्वदुक्तम् ||
आगोपालं प्रथयतितरामद्वितीयं त्वदीयं |
वाचां दूरं वरवरमुने वैभवं शेषशायी || १४॥

सिद्धोपायस्त्वमिह सुलभो लम्भयन्पूरुषार्था-
नज्ञातांश्च प्रथयसि पुनः यत्ततो देशिकस्त्वम् ||
देवी लक्ष्मी भवसि दयया वत्सलत्वेन च त्वं |
कोसौ यस्त्वां वरवरमुने! मन्यते नात्मानीनम् || १५॥

नित्यं पत्युः परिचरणतो वर्णतो निर्मलत्वात्
वृत्या वाचां निबुधसरितश्चातुरीमुद्गिरन्त्या ||
शेषः श्रीमानिति रघुपतेरन्तरेणाऽपि वाणीः
को नाम त्वां वरवरमुने कोविदो नावगन्तुम् || १६॥

सत्यं सत्यं पुनरिति पुरा सारविद्भिर्यदुक्तं |
ब्रूमश्श्रोत्रैश्शृणुत सुधियो मत्सरं वर्जयित्वा ||
तत्वं विष्णुः परमनुपमं तत्पदं प्राप्यमेवं |
तत्सम्प्राप्तौ वरवरमुनेर्देशिको दीर्घदर्शी || १७॥

लक्ष्यं यस्ते भवति भगवंश्चेतसश्चक्षुषो  वा |  
तुभ्यं द्रुह्यन्त्यपि कुमतयो ये वृथा मत्सरेण ||
मुक्तिं गच्छेन्मुषितकलुषो मोहमुध्दूय सोऽयं |
नानाभूतान्वरवरमुने नारकान्प्राप्नुयुस्ते || १८॥

स्वप्नेऽपि त्वत्पदकमलयोरञ्जलिं कल्पयित्वा |
श्रुत्वा यद्वा सकृदपि विभो ! नामधेयं त्वदीयम् ||
निष्प्रत्यूहं वरवरमुने! मानवः कर्मबन्धान् |
भस्मीकृत्य प्रविशति परं प्राप्यमेव प्रदेशम् || १९॥

यस्मिन् किञ्चिद्विधिरपि यथा वीक्षितुं न क्षमः स्यात् |
वक्तुं शक्तः क इह भगवन्  ! वैभवं तत्त्वदीयम् ||
यस्सर्वज्ञः स खलु भगवानीक्षते तत्समग्रं |
तस्याऽपि त्वं वरवरमुने ! मन्यसे तत्वमेकः || २०॥

कालोSनन्तः  कमलजनुषो न व्यतीता: कियन्तः
तिर्यङ्मर्त्यस्तृणवनलताः प्रस्तारोSप्यभूवम् ||
इत्थं व्यर्थैजनिमृतिशतैरेनसामेव पात्रं |
दिष्ट्या सोऽहं वरवरमुने दृष्टिगम्यस्तवासम् || २१॥

मुक्त्वैव त्वां वरवरमुने सम्पदाम् मूलकन्दं |
क्षेमं किन्चिन्नखलु सुलभं केशवैकान्त्यभाजाम् ||
दृष्टो  दैवात्तव पुनरनुक्रोशकोशैरपाङ्गैः –
निर्मर्यादः पशुरपि भृशं नीयते निर्मलत्वम् || २२॥

मर्त्यङ्कञ्चन्वरवरमुने ! मानहीन: प्राशंसन्  |
पादौ तस्य प्रपदनपरः प्रत्यहं सेवमानः ||
तच्छेषत्वं  निरयमपि यश्लाघ्यमित्येव भुङ्क्ते |
सोऽयं प्राप्तः कथमिव परं  तवत्पदैकान्त्यवृत्तम् || २३॥

नित्यानां यः प्रथमगणनां  नीयसे शस्त्रमुख्यैः |
कृत्याSSकृत्या भवसि कमलाभर्तुरेकान्तमित्रम्  ||
देवः स्वामी स्वयमिह भवन्सौम्यजामातृयोगी |
भोगीश त्वद्विमुखमपि मां भूयसा पश्यसित्वम्  || २४॥

अर्थौदार्यादपि च वचसामञ्जसा सन्निवेशात् –
आविर्बाष्पैरमलमतिभिर्नित्यमाराधनीयम्  ||
आशासानैर्वरवरमुने नित्यमुक्तैरलभ्यं |
मर्त्यो लब्धुं प्रभवति कथं मद्विधः श्रीसुखं ते  || २५॥

साराSसारप्रमितिरहितस्सर्वथा  शासनं  ते |
सद्यः श्रीमन् ! कपिकरकृतां  मालिकामेव कुर्याम् ||
नोचेदेतद्वरवरमुने ! दूरदूरं  श्रुतीनाम् ||
मौलौ  कुर्यात्पुरुषवृषभो  मैथिलीभागधेयम्  || २६॥

लक्ष्यं त्यक्त्वा यदपि विफलो जायते रामबाणो !
वाणी दिव्या वरवरमुने ! जातु नैवन्त्वदीयम् ||
सोऽयं  सर्वम्मदभिलषितं वर्षति श्रीसुखाब्द: –
तस्मै नित्यन्तदिह परमं धाम कस्माद्दुरापम् || २७॥
प्रेमस्थानं  वरवरमुने ! सन्तु सन्तश्शतं ते |

प्रेमस्थानं  वरवरमुने ! सन्तु सन्तश्शतं ते |
तुल्यः को वा वरदगुरुणा तेषु नारायणेन ||
सानुक्रोशस्स तु मयि दृढं सर्वदोषास्पदेस्मिन् |
मामेवं ते मनसि कुरुते मत्समः को हि लोके || २८॥

भक्त्युत्कर्षैर्दिशति  यदि मे पादपद्मे त्वदीये |
तस्मादस्मै भवति वरदस्सार्थनामा गुरुर्मे ||
यद्वा तस्मै वरवरमुने ! यद्यहं प्रेमयुक्तो |
धन्यस्त्वं मामनुभजसि तत्किन्न मन्ये यदन्यैः || २९॥

यत्सम्बन्धाद्भवति सुलभं यस्य कस्याSपि  लोके |
मुक्तैर्नित्यैरपि  दुरधिगं  दैवतं  मुक्तिमूलम् ||
तं त्वामेवं वदति वरदे सौह्र्दं मे यदि स्यात् |
तस्यैव स्याद्वरवरमुने  सन्निधौ  नित्यवासः || ३०॥

सर्वावस्थासदृशविविधाSशेषगस्त्वत्प्रियाणां |
त्यक्त्वा भर्तुस्तदपि परमं धाम तत्प्रीतिहेतो: ||
मग्नानग्नौ वरवरमुने मादृशानुन्निनीषन् |
मर्त्याSवासो भवसि भगवन् ! मङ्गलं रङ्गधाम्नः || ३१॥

प्रत्यूषार्कद्युतिपरिचयस्मेरपद्माभिताम्रं |
पश्येयं तद्वरवरमुने पदयुग्मं त्वदीयम् ||
पाथो बिन्दुः परमणुरपि स्पर्शवेधी यदीयो |
भावेभावे विशयमुशितान्पावयत्येव लोकान् || ३२॥

नित्ये लोके निवसति पुनः श्रीमति क्ष्मागतानां
दूरिभावः प्रभवति पुरा दुष्कृतदुर्विपाकैः ||
संप्रतयेवं सकलसुलभो यद्यपि त्वं दयाब्धे
मामेवैकं वरवरमुने मन्यसे वर्जनीयम् || ३३॥

त्वत्पादाब्जप्रणयविधुरो दूरगस्त्वत्प्रियाणां |
त्वत्सम्बन्धस्मरणविमुखो वीतरागस्त्वदुक्तौ ||
त्वत्कैङ्कर्यत्वदुपसदनत्वत्प्रणामाSनभिज्ञो |
दूये दूरं  वरवरमुने ! दोषलक्षैकलक्ष्यम् || ३४॥

प्रादुर्भूतप्रचुरमतयो ये परब्रह्मसाम्यात् |
पश्यन्तस्तत्पदमनुपं ये पुनश्शुध्दसत्वाः ||
सर्वैरेतैर्वरवरमुने ! शश्वदुद्दिश्य सेव्यम् |
कांक्षत्येतत्कथमयमहो कामकामः पदाब्जं || ३५॥

प्राप्तः क्षेमं प्रकृतिमधुरैः प्रागपि त्वत्कटाक्षैः |
सोऽयञ्जन्तुस्त्वदनुभजनं त्वत्त एवाप्तुमिच्छन् ||
क्रन्दत्युच्चै: कलुषमतिभिः संवसन् कामकामैः |
कालक्षेपो वरवरमुने ! तत्कथं युज्यते ते || ३६॥

कोणैरक्ष्णः कुमनसमिमं निर्मलं कल्पयित्वा |
हातुं  दूरे वरवरमुने ! हा !!! कथं युज्यते ते ||
पाथः पातुं प्रयतनपरःपंकिलं शोधयित्वा |
पंके मुञ्चन् पुनरिदमतः प्राप्नुयादेव किंवा || ३७॥

कालः किंस्विन्न भवति समं कांक्षितः कांक्षितानां |
यस्मिन्नस्मादनलजलधेरुत्प्लुतस्त्वांनमस्यन् ||
सिक्तः श्रीमन् ! वरवरमुने ! शीतलैस्त्वत्कटाक्षैः –
मुक्तस्तापैरमृतमतुलं गाहते मोदमानः || ३८॥

कामक्रोधक्षुभितत्दृदयाः कारणं वर्जयित्वा
मर्त्यौपम्यं वरवरमुने! ये पुनर्मन्वते ते ||
दुष्टं तेषामभिमततया  दुर्वसं देशमृच्छन्  –
अन्तःस्वान्तं कथमपि मिथो भावयेयं भवन्तम् || ३९॥

नामैतत्ते नवनवरसं नाथ ! सङ्कीर्त्यनृत्यन् –
अन्तःकर्तुं वरवरमुने! नित्यमिच्छत्ययं त्वाम् ||
अर्ध्दंनिद्रा हरति दिवसस्यार्द्धमन्यन्नृशंसो |
वासो मूढैर्मलिनमतिभिर्वाक्प्रवृत्तिं निरुन्धे || ४० ॥

अन्तर्ध्यायन्वरवरमुने ! यद्यपि त्वामजस्त्रं |
विश्वं तापैस्त्रिभिरभिहतं वीक्ष्य मुह्यामसह्यम् ||
क्षुत्सम्पातक्षुभितमनसां को हि मध्ये बहूनां |
एकस्स्वादु स्वयमनुभवेन्नेति चेतःप्रसादम्  || ४१॥

सत्वोदग्रैस्सकलभुवनश्लाघनीयैश्चरित्रैस्  –
त्रैयन्तार्थप्रकटनपरैः सारगर्भैर्वचोभिः ||
लोकोत्तीर्णं वरवरमुने लोकसामान्यदृष्ट्या |
जानानस्त्वां कथमपि न मे जायतामक्षिगम्यः || ४२॥

कल्याणैकप्रवनमनसं कल्मषोपप्लुतानां |
क्षान्तिस्थेमद्रढिमसमताशीलवात्सल्यसिन्धो ||
त्वामेवाSयं वरवरमुने ! चिन्तयन्नीप्सति त्वाम्
आर्तं श्रीमन् ! कृपणमपि मामर्हसि त्रातुमेव ||  ४३॥

दोषैकान्ती दुरितजलधिर्देशिको दुर्मतीनां |
मूढो जन्तुर्ध्रुवमयमिति श्रीमता मोचनीय: ||
पादूयुग्मं भवदनुचरैरर्पितं  भक्तिनम्रे |
मौलौ कृत्वा वरवरमुने वर्ततां  तत्र धन्यः || ४४॥

नित्यं निद्राविगमसमये निर्विशङ्कैरनेकै: –
त्वन्नामैव श्रुतिसुमधुरं गीयमानं  त्वदीयैः  ||
प्रायस्तेषां प्रपदनपरो निर्भरस्त्वत्प्रियाणां |
पादाम्भोजे वरवरमुने ! पातुमिच्छाम्याहं ते || ४५॥

अन्तःस्वान्तं कमपि मधुरं मन्त्रमावर्तयन्तीम्
उद्यद्बाष्पस्तिमितनयनामुज्झिताशेषवृत्तिम् ||
व्याख्यागर्भं वरवरमुने ! त्वन्मुखं वीक्षमाणां |
कोणे लीनः क्वचिदनुरसौ संसदं तामुपास्ताम् || ४६॥

आबिभ्राणश्चरणयुगलीमर्पितां त्वत्प्रसादात् –
वारंवारं वरवरमुने ! वन्दमानेन मूर्ध्ना ||
शृण्वन्वाचः श्रुतिशतशिरस्तत्वसञ्जीविनीस्ते |
पश्यन्मूर्तिं परिषदि सतां प्रेक्षणीयो भवेयम् || ४७॥

काले यस्मिन्कमलनयनं देवमालोकयिष्यन् –
निर्यासि त्वं वरवरमुने ! नित्ययुक्तैस्त्वदीयैः ||
अग्रे नृत्यन्नयमपि तदा गाहतां हर्षसिन्धौ |
मज्जम्मज्जम्मधुवनजुषां  वैभवं यूथपानाम् || ४८॥

भूत्वा पश्चात्पुनरयमथ व्योम्नि गोपायमानो |
भ्रूयः पार्श्वद्वितयसुषमासागरं गाहमानः ||
जल्पन्नुच्छैर्जयजय विभो ! जीवजीवेति वाचं |
शंसन्मार्गं वरवरमुने ! सौविदल्लो भवेयम् || ४९॥

देवी गोदा यतिपतिशठद्वेषिणौ रङ्गशृङ्गं |
सेनानाथो विहगवृषभः श्रीनिधिस्सिन्धुकन्या ||
भूमानीलागुरुजनवृतः पूरुषश्चेत्यमीषा –
मग्रे  नित्यं वरवरमुनेरङ्घ्रियुग्मं प्रपद्ये || ५०॥

भृत्यैर्द्वित्रैः प्रियहितपरैरञ्चिते भद्रपीठे |
तुङ्गं तूलासनवरमलन्कुर्वतस्सोपधानम्  ||
अङ्घ्रिद्वन्द्वं वरवरमुनेरब्जपत्राSभिताम्रं |
मौलौ वक्त्रे भुजशिरसि मे वक्षसि स्यात्क्रमेण || ५१॥

अग्रे पश्चादुपरि परितो भूतलं पार्श्वतो मे |
मौलौ वक्त्रे वपुषि सकले मानसाम्भोरुहे च ||
दर्शंदर्शं वरवरमुने ! दिव्यंमङ्घ्रिद्वयं ते |
मज्जन्मज्जन्नमृतजलधौ निस्तरेयं भवाब्धिम् || ५२॥

कर्माधीने वपुषि कुमतिः कल्पयन्नात्मभावं |
दुःखे मग्नः किमिति सुचिरं दूयते जन्तुरेषः ||
सर्वे त्यक्त्वा वरवरमुने ! सम्प्रति त्वत्प्रसादात्-
दिव्यं प्राप्तुं तव पदयुगं देहि मे सुप्रभातम् || ५३॥

या या वृत्तिर्मनसि मम सा जायतां संस्मृतिस्ते |
यो यो जल्पस्स भवतु विभो ! नामसङ्कीर्तनं ते ||
या या चेष्टा वपुषि भगवन्  ! सा भवेद्वन्दनं ते |
सर्वं  भूयाद्वरवरमुने ! सम्यगाराधनं ते || ५४॥

कामावेशः कलुषमनसामिन्द्रियार्थेषु योSसौ |
भूयो नाथे मम तु शतधा वर्ततामेव भूयान् ||
भूयोSप्येवं वरवरमुने ! पूजनत्वे प्रियाणां |
भूयोभूयस्तदनुभजने पूर्णकामो भवेयम् || ५५॥

भक्ष्याSभक्ष्ये भयविरहितस्सर्वता भक्षयित्वा |
सेव्याSसेव्यौ समयरहितस्सेवया तोषयित्वा ||
कृत्याकृत्ये किमपि न विदन् गर्हितं वाSपि  कृत्वा |
कर्तुं युक्तं वरवरमुने ! काङ्क्षितं त्वत्प्रियाणाम् || ५६॥

वृत्तिं त्रातुं वरवरमुने ! विश्वतो वीतरागैः |
प्राप्यं सद्भिः परमिदमसौ नेच्छति ब्रह्मसाम्यम् ||
निर्मर्यादः पततु निरये निन्दितैरप्यनल्पैः
लब्ध्वा किञ्चित्त्वदनुभजनं त्वन्मुखोल्लासमूलम् || ५७॥

नाSसौ  वासं नभसि परमे वाञ्च्छति त्वत्प्रसादान् |
मर्त्यावासो यदिह सुलभः कोऽपि लाभो महीयान् ||
किञ्चित्कृत्वा वरवरमुने ! केवलं त्वत्प्रियाणां |
पश्यन् प्रीतिं भवति भवतो वीक्षणानां निधानम् || ५८॥

अस्माद्भूयांस्त्वमसि विविधानात्मनश्शोधयित्वा |
पद्माभर्तुः प्रतिदिनमिह प्रेषयन् प्राभृतानि ||
तस्मिन्दिव्ये वरवरमुने ! धामनि ब्रह्मसाम्यात्-
पात्रीभूतो भवति भगवन् ! नैवकिन्चिद्दयायाः || ५९॥

जप्यन्नान्यत्किमपि यदि मे दिव्यनाम्नस्त्वदीयाः –
नैवोपास्यं नयनसुलभादङ्घ्रियुग्मादृते ते ||
प्राप्यं किञ्चिन्न भवति परं  प्रेष्यभावादृते ते |
भूयादस्मिन् वरवरमुने ! भूतले नित्यवासः || ६०॥

मन्त्रो दैवं फलमिति मया वाञ्छितं यद्यपि स्यात्
मध्ये वासो मलिनमनसामेवमेवं यदि स्यात् |
यद्वा किन्चित्त्वदनुभजनं सर्वदा दुर्लभं स्यात्
देहं त्यक्तुं वरवरमुने ! दीयतां निश्चयो मे || ६१||

आचार्यत्वं तदधिकमिति ख्यातमाम्नायमुख्यैः

एष श्रीमान् भवति भगवान् ईश्वरत्वं विहाय ||

मन्त्रं दाता वरवरमुने ! मन्त्ररत्नं त्वदीयं

देवः श्रीमान्  वरवरमुनेर्वर्तते देशिकत्वे || ६२||

आत्मानात्मप्रमितिविरहात्पत्युरत्यन्तदूरो |

घोरे तापत्रितयकुहरे घूर्णमानो जनोऽयम् ||

पादच्छायां वरवरमुने ! प्रापितो यत्प्रसादात्

तस्मै देयं तदिह किमिव श्रीनिधे विद्यते ते || ६३||

विख्यातं यद्रघुकुलपते विश्वतः क्ष्मातलेऽस्मिन्

नित्योदग्रं वरवरमुने ! निस्सपत्नं महत्वम् ||

पश्यन्नन्धः प्रकृतिविवशो बालिशो यादृशोऽयं |

तत्वं तस्य प्रकटयसि मे तादृशैरेव योगैः || ६४||

लक्ष्मीभर्तुः परमगुरुतां लक्षयन्ती गुरूणां |

पारम्पर्यक्रमविवरणी या हि वाणी पुराणी ||

अर्थं तस्याः प्रथयसि चिरादन्यतो यद्दुरापं |

दिव्यं तन्मे वरवरमुने ! वैभवं दर्शयित्वा || ६५||

तत्वं यत्ते किमपि तपसा तप्यतामप्यृषीणां |

दूराद्दूरं वरवरमुनेदुष्कृतैकान्तिनो मे ||

व्याकुर्वाणः प्रतिपदमिदं व्यक्तमेवं दयावान्

नाथो नैतत्किमिति जगति ख्यापयत्यद्वितयिम् || ६६||

कालेकाले कमलजनुषां नास्ति कल्पायुतं किं |

कल्पेकल्पे हरिरवतरन् कल्पते किन्न मुक्त्यै ||

मृत्वामृत्वा तदपि दुरितैरुद्भवन्तो दुरन्तैः

अद्याऽपि त्वां वरवरमुने ! हन्त नैवाऽऽश्रयन्ते || ६७||

कारागारे वरवरमुने ! वर्तमानश्शरीरे |

तापैरेष त्रिभिरपि चिरं दुस्तरैस्तप्यमानः ||

इच्छन्भोक्तुं तदपि विषयानेव लोकः क्षुधार्तो |

हित्वैव त्वां विलुठति बहिर्द्वारि पृथ्वीपतीनाम्  || ६८||

मध्ये माम्सक्षतजगहनं  विड्भुजामेव भोज्यं |

दीनो वोढुं दृढमिति वपुश्चेष्टते रात्र्यहानि ||

भग्ने तस्मिन् परिणमति यः पातकी यातनाभ्यो |

देही नित्यो वरवरमुने ! केन जिज्ञासनीयः || ६९||

अल्पादल्पं क्षनिकमसकृद्दुष्कृतान्येव कृत्वा

दुःखोदग्रं सुखमभिलशन्दुर्लभैरिन्द्रियार्थैः ||

मोघं कृत्वा वरवरमुने ! मुक्तिमूलं शरीरं |

मज्जत्यन्धे तमसि मनुजस्त्वाप्रियस्त्वाप्रियाणाम् || ७०||

 

पश्यन्नेवं प्रभवति जनो नेर्ष्यितुं त्वत्प्रभावं |
प्राज्ञैरुक्तं पुनरपि हसन्दर्शयत्यभ्यसूयाम् ||
नश्यत्यस्मिन्  वरवरमुने ! नाथ ! युक्तं तदस्मिन् |
प्रत्यक्षं तत्परिकलयितुं तत्वमप्राकृतं ते || ७१||

 

सत्वोन्मेषप्रमुषितमनःकल्मषैः सत्वनिष्ठैः |

सङ्गं त्यक्त्वा सकलमपि यः सेव्यसे वीतरागैः ||

तस्मै तुभ्यं वरवरमुने ! दर्शयन्नभ्यसूयां |

कस्मै कृत्वा किमिव कुमतिः कल्पतामिष्टिसिद्ध्यै || ७२||

दिव्यं तत्ते यदिह कृपया देवदेवोपदिष्टं |

तत्वं भूयाद्वरवरमुने ! सर्वलोकोपलभ्यम् ||

व्यक्ते तस्मिन् विदधति भवद्वैभवद्वेषिणो ये |

द्वेषं त्यक्त्वा सपदि दुरितध्वंसिनीं त्वत्सपर्याम् || ७३||

केचित्स्वैरं वरवरमुने! केशवं संश्रयन्ते |

तानप्यन्ये तमपि सुधियस्तोषयन्त्यात्मवृत्त्या ||

त्वत्तो नाऽन्यत्किमपि शरणं यस्य सोयं त्वदीयो

भृत्या नित्यं भवति भवतः प्रेयसां प्रेमपात्रम् || ७४||

दीने पूर्णां भवदनुचरे देहि दृष्टिं दयाऽऽर्द्रां  |

भक्त्युत्कर्षं वरवरमुने ! तादृशं भावयन्तीम् ||

येन श्रीमन् ! द्रुतमहिमतः प्राप्य युष्मत्पदाब्जं |

त्वद्विश्लेषे तनुविरहितस्तत्र लीनो भवेयम् || ७५||

त्वत्पादाब्जं भवतु भगवन् दुर्लभं दुष्कृतो मे |

वासोऽपि स्यात् वरवरमुने ! दूरतस्त्वत्प्रियाणाम् ||

त्वद्वैमुख्याद्विफलजनुषो ये पुनस्तूर्णमेषां |

दूरीभूतः क्वचनगहने पूर्णकामो भवेयम् || ७६||

सिम्हव्याघ्रौ सपदि विपिने पन्नगः पावको वा-

कुर्युः प्राणान्तकमपि भयं को विरोधस्ततो मे ||

नैते दोषग्रहणरुचयस्त्वत्प्रियैर्निर्निमित्तैः

नानाजल्पैर्वरवरमुने ! नाशयन्त्यन्तिकस्थान् || ७७||

त्वद्भृत्यानामनुभजति यस्सर्वतो भृत्यकृत्यं |

तद्भृत्यानामभिलषति यस्तादृशं प्रेष्यभावम् ||

मद्भ्रुत्योऽसाविति मयि स चेत्सानुकल्पैरपाङ्गैः |

क्षेमं कुर्याद्वरवरमुने ! किं पुनश्शिष्यते मे || ७८||

क्वाऽहं क्षुद्रः कुलिशत्दृदयो  दुर्मतिः क्वात्मचिन्ता |

त्रैयन्तानामसुलभतरं तत्परं क्वाऽऽत्मतत्वम् ||

इत्थम्भूते वरवरमुने! यत्पुनस्स्वात्मरूपं |

द्रष्टुं तत्तत्समयसदृशं देहि मे बुद्धियोगम् || ७९||

सोढुं ताद्रुग्रघुपरिवृढो न क्षमस्त्वद्वियोगं |

सद्यः काङ्क्षन् वरवरमुने ! सन्निकर्षं तवैषः ||

सायम्प्रातस्तव पदयुगं शश्वदुद्दिश्य दिव्यं |

मुञ्चन् बाष्पं मुकुलितकरो वन्दते हन्त मूर्ध्ना || ८०||

अन्तस्ताम्यन्रघुपतिरसावन्तिके त्वामदृष्ट्वा |
चिन्ताक्रान्तो वरवरमुने ! चेतसो विश्रमाय ||
त्वन्नामैव श्रुतिसुखमिति श्रोतुकामो मुहुर्मां |
कृत्यैरन्यैः किमिह तदिदं कीर्तयेति ब्रवीति || ८१||

भुङ्क्ते नैव प्रथमकवले यस्त्वया नोपभुक्ते |

निद्रा नैव स्पृशति सुत्दृदं त्वां विना यस्य नेत्रे ||

हीनो येन त्वमसि सलिलोत्क्षिप्तमीनोपमानः |

कोऽसौ सोढुं वरवरमुने! राघवस्त्वद्वियोगम् || ८२||

पत्रं मूलं सलिलमपि यत्पाणिनोपात्दृतं ते |

मात्रा दत्तादपि बहुमतं पत्युरेतद्रघूणाम्  ||

शाखागेहं समजनि विभोः सम्मतं सौघशृङ्गं |

भूत्वा वासो महदपि वनं भोगभूमिस्त्वयाऽभूत् || ८३||

अध्वश्रान्तिं हरसि सरसैरार्द्रशाखासमीरैः |

पादौ संवाहयसि कुरुषे पर्णशालां विशालाम् ||

भोज्यं दत्वा वरवरमुने ! कल्पयन् पुष्पशय्यां |

पश्यन्धन्यो निशिरघुपतिं पासि पत्नीसहायम् || ८४||

पश्यन्नग्रे परिमितहितस्निग्धवाग्वृत्तियोगं |

सद्यः शोकप्रशमनपरं सान्त्वयन्तं भवन्तम् ||

प्राज्ञो जज्ञे स खलु भगवान्दूयमानो वनान्ते |

पश्चात्कर्तुं वरवरमुने ! जानकीविप्रयोगम् || ८५||

सुग्रीवो नश्शरणमिति यत्सूनृतं भ्रातुरर्थे |

पम्पातीरे पवनजनुषा भाषितं शोभते ते ||

कालातीते कपिकुलपतौ देव तत्रैव पश्चात्

चापं धून्वन्वरवरमुने यद्भवान्निग्रहेऽभूत् || ८६||

यस्मिन्प्रीतिं मदभिलषितमार्यपुत्रो विधत्ते |

येनोपेतः स्मरति न पितुस्सोऽतिवीरो गतिर्मे ||

इत्येवं त्वां प्रति रघुपतिप्रेयसी सन्दिशन्ती-

व्यक्तं देवी वरवरमुने तत्वमाह त्वदीयम् || ८७||

बानैर्यस्य ज्वलनवदनैर्वाहिनी वानराणां

वात्यावेगभ्रमितजलदस्तोमसाधर्म्यमेति ||

सोऽयं भग्नो वरवरमुने ! मेघनादश्शरैस्ते

रक्षोनाथः कथमितिरथा हन्यते राघवेण || ८८||

पृथ्वीं भित्वा पुनरपि दिवं प्रेयसीमश्नुवानां

दृष्ट्वा श्रीमद्वदनकमले दत्तदृष्टिः प्रसीदन् ||

प्रेमोदग्रैर्वरवरमुने ! भृत्यकृत्यैस्त्वदीयैः |

नीतः प्रीतिं प्रतिदिनमसौ शासिता नैर्ऋतीनाम् || ८९||

सोदर्येषु त्वमसि दयितो यस्य भृत्यस्सुत्दृद्वा |

सोढव्योऽभूत्त्वयि सहचरे जानकीविप्रयोगः ||

ध्यायन्ध्यायन्वरवरमुने ! तस्य ते विप्रयोगं |

मन्येऽनिद्रामरतिजनितां मानयत्यग्रजोऽयम् || ९०||

 

मुग्धालोकं मुखमनुभवन्मोदते नैव देव्याः |
स्निग्धालापं कपिकुलपतिं नैव सिञ्चत्यपाङ्गैः ||
त्वामेवैकं वरवरमुने ! सोदरं द्रष्टुकामो |
नाथो नैति क्वचिदपि रतिं दर्शने यूथपानाम् || ९१॥

एवं देवः स्वयमभिलशन्नेष ते शेषवृत्तिं |

जज्ञे भूयस्त्वदनुजगदानन्दनो नन्दसूनुः ||

दूरिभावं वरवरमुने ! दुस्सहं पूर्वजस्ते |

धन्यस्त्यक्त्वा धयतु न चिराच्छाक्षुषा राघवस्त्वाम् || ९२॥

पारम्पायं प्रणयमधुरे पादपद्मे त्वदीये |

पश्येयं तत्किमपि मनसा भावयन्तं भवन्तम् ||

कामक्रोधप्रकृतिरहितैः काङ्क्षितत्वत्प्रसादैः |

सद्भिस्साकं वरवरमुने ! सन्ततं वर्तिषीय || ९३॥

पश्यत्वेनं जनकतनया पद्मगर्भैरपाङ्गैः

प्रारब्धानि प्रशमयतु मे भागधेयं रघूणाम् ||

आविर्भूयादमलकमलोदग्रमक्ष्णोः पदं मे-

दिव्यं तेजो वरवरमुने ! देवदेव ! त्वदीयम् || ९४॥

रामः श्रीमान्रविसुतसखो वर्द्धतां यूथपालैः

देवीं तस्मै दिशतु कुशलं मैथिली नित्ययोगात् ||

सानुक्रोशो जयतु जनयन् सर्वतस्तत्प्रसादं |

सौमित्रिर्मे स खलु भगवान्सौम्यजामातृयोगी || ९५॥

यस्मादेतद्यदुपनिषदामप्रमेयं प्रमेयं |

कुर्वाणस्तत्सकलसुलभं कोमलैरेव वाक्यैः ||

नीरोगस्त्वं वरदगुरुणा नित्ययुक्तो धरित्रीं |

पाहि श्रीमन् ! वरवरमुने ! पद्मयोनेर्दिनानि || ९६॥

अपगतमतमानैः अन्तिमोपाय निष्टैः

अधिगतपरमार्थैः अर्थकामान्  अपेक्षैः ||

निखिलजनसुहृद्भिः निर्जित क्रोध लोभैः

वरवरमुनि भृत्यैः अस्तु मे नित्य योगः || ९७॥

वरवरमुनिवर्य चिन्तामहन्तामुषम् तावकीम्-

अविरतमनुवर्तमानानुमानावमानानिमान्  ||

निरुषधिपदभक्तिनिष्ठाननुष्ठाननिष्ठानहं |

प्रतिदिनमनुभूय भूयो न भूयासमायासभूः || ९८॥

वरवरमुनिवर्यपादावुपादाय सौदामिनी-

विलसतिविभवेषु वित्तेषु पुत्रेषु मुक्तेषणाः ||

कतिचन यतिवर्यगोष्ठीबहिष्ठीकृतष्ठीवना |

निजहति जनिमृत्युनित्यानुवृत्या यदत्याहितम् || ९९॥

निरवधिनिगमान्तविद्यानिषद्यानवद्यशयान् |

यतिपतिपदपद्मबन्धानुबन्धानुसन्धायिनः ||

वरवरमुनिवर्यसम्बन्धसम्बन्धसम्बन्धिनः |

प्रतिदिनमनुभूय भूयो न भूयासमायासभूः || १००॥

यन्मूलमाश्वजमास्यवतारमूलं |

कान्तोपयन्तृयमिनः करुणैकसिन्धोः ||

आसीदसत्सु गणितस्य ममाऽपि सत्ता-

मूलम् तदेव जगदभ्युदयैकमूलम् || १०१॥

यदवतरनमूलम्  मुक्ति मूलं प्रजानां |

शठरिपुमुनि दृष्ठाम्नाय साम्राज्य मूलम् ||

कलिकलुष समूलोन्मूलनेमूलमेतत् |

स भवतु वरयोगी नः समर्तार्थमूलम् || १०२॥

मूलं शठारिमुखसूक्तिविवेचानायाः |

कूलं कवेरदुहितुस्समुपागतस्य ||

आलम्बनस्य मम सौम्यवरस्य जन्म |

मूलं विभाति सतुलं वितुलश्च चित्रम् || १०३॥

अनुदिनमनवद्यैः पद्यबन्धैरमीभिः –

वरवरमुनितत्वं व्यक्तमुद्धोषयन्तम् ||

अनुपदमनुगच्छनप्रमेयः श्रुतीनाम्-

अभिलषितमशेषं सयते  शेषशायी || १०४॥

जयतु यशसा तुङ्गं रङ्गं जगत्रयमङ्गलम् |

जयतु सुचिरं तस्मिन्भूमा रमामणिभूषणम् ||

वरदगुरुणा सार्द्धं तस्मै शुभान्यभिवर्द्धयन् |

वरवरमुनिः श्रीमान्रामानुजो जयतु क्षितौ || १०५॥

पठति शतकमेतत् प्रत्यहम् यः सुजानन् |

स हि भवति निधानं सम्पदामीप्सितानाम् ||

प्रशमयति विपाकं पातकानां गुरूणां |

प्रथयति च निदानं पारमाप्तुं  भवाब्धेः || १०६॥

इति श्री सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदैरष्टदिग्गजान्तर्भूतिश्र्चरमपर्वनिष्ठाग्रेसरैः

श्रीदेवराजाचार्यगुरुवर्यैः प्रसादितं श्रीवरवरमुनिशतकं समाप्तम् ||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.