श्री वेदान्तदेशिकमङ्गळाशासनम् (कुमारवरदाचार्यकृतिः)
श्रीमुल्लक्षणयोगीन्द्र-सिद्धान्त-विजयध्वजम् ।
विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे ।।
सर्वतन्त्र-स्वतन्त्राय सिंहाय कविवादिनाम् ।
वेदान्ताचार्यवर्याय वेङ्कटेशाय मङ्गळम् ।। (१)
नभस्यमासि श्रोणायामवतीर्णायसूरये ।
विश्वामित्रान्वयायास्तु वेङ्कटेशाय मङ्गळम् ।। (२)
पिता यस्यानन्तसूरिः पुण्डरीकाक्षयज्ज्वनः ।
पौत्रो यस्तनयस्तोतारांबायास्तस्य मङ्गळम् ।। (३)
वेङ्कटेशावतारोऽयं तद्घण्टांशोऽथवा भवेत् ।
यतीन्द्रांशोऽथवेत्येवं वितर्क्क्यायास्तु मङ्गळम् ।। (४)
श्रीभाष्यकारः पन्थानमात्मना दर्शितं पुनः ।
उद्धर्तुमागतो नूनमित्युक्तायास्तु मङ्गळम् ।। (५)
यो बाल्ये वरदार्यस्य प्राचार्यस्य परां दयाम्।
अवाप्य वृद्धिं गमितस्तस्मै योग्याय मङ्गळम् ।। (६)
रामानुजार्यादात्रेयात् मातुलात् सकलाः कलाः ।
अवाप विंशत्यब्दे यस्तस्मै प्राज्ञाय मङ्गळम् ।। (७)
श्रुतप्रकाशिकाभूमौ येनाजौ परिरक्षिता ।
प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गळम् ।। (८)
सांस्कृतिभिर्द्रामिडीभिर्बह्वीभिः कृतिभिर्जनान् ।
यस्समुज्जीवयामास तस्मै सेव्याय मङ्गळम् ।। (९)
यः ख्यातिलाभपूजासु विमुखो वैष्णवे जने ।
क्रयणीयदशां प्राप्तस्तस्मै भव्याय मङ्गळम् ।। (१०)
यस्मादेव मया सर्वं शास्त्रमग्राहि नान्यतः ।
तस्मै वेङ्कटनाथाय मम नाथाय मङ्गळम् ।। (११)
पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च ।
प्राप्याय प्रापकायास्तु वेङ्कटेशाय मङ्गळम् ।। (१२)
यः कृतं वरदार्येण वेदान्ताचार्य मङ्गळम् ।
आशास्तेऽनुदिनं सोऽपि भवेन्मङ्गळभाजनम् ।। (१३)
विश्वातिशायिने विश्वामित्रगोत्रांबुधीन्दवे ।
विष्णुघण्टावताराय वेङ्कटेशाय मङ्गळम् ।। (१४)
कल्याणगुणभूषाय कामितार्थप्रदायिने ।
कमनीयशरीराय कविसिंहाय मङ्गळम् ।। (१५)
वेदचूडापरिष्कार-सूक्तिमालां वितन्वते ।
वेदचूडार्यवर्याय विबुधेन्द्राय मङ्गळम् ।। (१६)
स्वजिह्वाग्रसमासीन तुरङ्गासनहेषितैः ।
सुनिरस्त-विपक्षाय श्रुत्यन्तार्याय मङ्गळम् ।। (१७)
मङ्गळाकृतये विश्वमान्याय निधये सताम् ।
मत्स्वामिने च वेदान्तदेशिकायास्तु मङ्गळम् ।। (१८)
मङ्गळाशासनपरैः मदाचारपुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गळम् ।। (१९)