बृहदारण्यकोपनिषत् सप्तमोऽध्यायः

बृहदारण्यकोपनिषत्

अथ सप्तमोऽध्यायः

 

प्रथमं ब्राह्मणम्

 

[प्रणवप्रशंसा]

 

ओं पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते

 

प्र. –प्रणवोपासनां विधित्सन् प्रणवं परोक्षरूपेण स्तौति । पूर्णमदः….. पूर्णमेवावशिष्यते अदः परोक्षरूपः परलोकः इदम् अयं च लोकः पूर्णं – वेदेन पूर्णमित्यर्थः । शब्दप्रभवत्वात् सर्वस्य लोकस्य भूरिति व्याहरत् भूमिमसृजत (तै.बा.२-२-४) इति लोकानां व्याहृतिप्रभवत्वाम्नानात् । कारणेन च कार्यस्य व्याप्तत्वात् । पूर्णात् पूर्णमुदञ्च्यते पूर्णात् – पूर्यमाणाल्लोकात् पूर्णं – पूरणकर्तृ उदञ्च्यते उद्गतं भवति । अञ्चु गतिपूजनयोः (धा.पा.१८८) कर्मणि प्रत्ययः । उद्गतं भवति – श्रेष्ठं भवतीत्यर्थः । ततश्च पूर्यमाणलोकापेक्षया पूरणकर्तृव्याहृतिरूपः शब्दः उत्कृष्ट इत्यर्थः । पूर्णस्य पूर्णमादायपूर्णस्य व्याहृतिव्याप्तस्य लोकस्य पूर्णं – पूरणकर्तृव्याहृतिरूपं वस्तु आदाय – उपसहृंत्य पूर्णमेवावशिष्यते । तस्यापि यत् पूर्णं – पूरयितृ ओङ्कारात्मकं वस्तु, तदेव परिशिष्यत इत्यर्थः । ओङ्कारेण सर्वा वाक् संतृष्णा (छ.उ.२-२३-३) इति श्रुतेः ओङ्कारस्य सर्वव्यापकत्वेव पूर्णत्वात् तदेव कारणं व्याहृत्यादिषु शब्देषु कार्येषु विनष्टेषु परिशिष्यत इत्यर्थः । ओङ्काराद्व्याहृतिर्भवति व्याहृत्या गायत्री भवति इति सर्वशब्दनिदानत्वात् तदेव परिशिष्यत इत्यर्थः । इदं च रुच्युत्पादनाय प्रणवस्तुतिमात्रम् । अन्यथा निमित्तकारणस्य व्याहृत्यादेः कार्यव्यापकत्वासम्भवात् : उपादानभूतस्य भूतपञ्चकस्यैव व्यापकत्वसम्भवात् असामञ्जस्यं स्यादिति द्रष्टव्यम् ।। १ ।।

 

ओं३ खं ब्रह्म खं पुराणम् वायुरं खमिति स्याह कौरव्यायणीपुत्रः । वेदोऽयं ब्राह्मणाः विदुर्वेदैनेन यद्वेदितव्यम् ।। ।।

 

इति सप्तमाध्याये प्रथमं ब्राह्मणम् ।।

प्र. – ओं खं ब्रह्म । ओकार एव खम् अपरिच्छिन्नं ब्रह्म इत्यर्थः । ततश्च ओङ्कारे अपरिच्छिन्नब्रह्मोपासनं कर्तव्यमित्यर्थः । खं ब्रह्मेति ब्रह्मविशेषणीभूततयोक्तस्य खशब्दस्य स्वाभिमतमर्थमाह खं पुराणम् खमित्यनेन न वायुमान् आकाश उच्यते; अपि तु यत् पुराणं देशकालापरिच्छिन्नं परं ब्रह्म, तदेव खसादृश्यात् खमित्युच्यते । खम् – अपरिच्छिन्नमित्यर्थः । वायुरंखमिति स्माह कौरव्यायणीपुत्रः । कौरव्यायणीपुत्रस्तु कश्चन ऋषिः वायुरमेव वायुमदम्बरमेव खं – खशब्देनोच्यते । ततश्चाकाशशरीरकं ब्रह्म प्रणवे अध्यस्योपास्यमित्याह इत्यर्थः । प्रणवे ब्रह्मोपास्यम् इत्यत्र न विवादः । तत्राध्यस्यमानञ्च ब्रह्म अपरिच्छिन्नत्वेन गुणेनोपास्यत्वम्, उत भूताकाश शरीरकत्वेनैवोपास्यमित्यत्रेव विवाद इति भावः । वेदोऽयं ब्राह्मणा विदुः वेदैनेन यद्वेदितव्यम् यस्मादसौ वेदिता एनेनएतेन ओङ्कारेण यद्यद्वेदितव्यं – ज्ञातव्यम्। तत्तत्सर्वं वेद – जानाति, तस्मादयमेव प्रणवो वेदः, वेदयितृत्वरूपयौगिकार्थस्य पुष्कलत्वात् । इतरेषां तु वेदत्वममुख्यम् इति ब्राह्मणा मन्यन्ते इत्यर्थः ।। १ ।।

।। इति सप्तमाध्याये प्रथमब्राह्मण प्रकाशिका ।।

समभाध्याये द्वितीयं ब्राह्मणम्

[दमदानदयाशिक्षणम्]

 

त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुर्देवा मनुष्या असुराः । उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच इतिव्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुः, दाम्यतेति आत्थेति ओमिति होवाच, व्यज्ञासिष्टेति ।। ।।

प्र.- त्रयाः प्राजापत्या…… ब्रह्मचर्यमूषु: त्रयाः त्रिप्रकाराः – द्वित्रिभ्यां तयस्यायज्वा (पा. सू.५-२-४३) इति त्रे: परस्य तपस्या (तयपोऽ) यनादेशः । प्राजापत्या: प्रजापतिपुत्राः पितरि प्रजापतौ ब्रह्मचर्यम् ऊषुः – उषितवन्तः । के ते इत्यत्राह – देवा मनुष्या आसुराः उषित्वा ब्रह्मचर्यं देवा ऊचुः ब्रवीतु नो भवानिति ब्रवीतु । उपदेष्टव्यमिति शेषः । तेभ्यो हैतदक्षरम् उवाच इति व्यज्ञासिष्टा३ इति । तेभ्यो  इत्येतत् अक्षरमुक्त्वा प्रजापतिः किं यूयं व्यज्ञासिष्टा मदभिप्रायं ज्ञातवन्तः किमिति पप्रच्छ इत्यर्थः । व्यज्ञासिष्मेति होचुः । वयं ज्ञातवन्त इति देवाः प्रत्यूचुरित्यर्थः । कथमित्यत्र आहुः – दाम्यतेति आत्थेति नः अस्मान् प्रति दाम्यत दान्ता भवत इति खलु आत्थ -वदसि इत्यूचरित्यर्थः । दमेः स्यनि शमादित्वाद्दीर्घः । ओमिति होवाच, व्यज्ञासिष्टेति ओं सत्यम्, व्यज्ञासिष्टेति प्रजापतिरुवाच इत्यर्थः । ननु कथं  इत्युच्चारणमात्रेण, दाम्यतेति आत्था इति देवाः प्रत्यपद्यन्त । उच्यते – देवानामैश्चर्य-शालितया भोगप्रावण्येन मदान्धत्वात् स्वदोषं जानतां (देवानां) शब्दोच्चारणमात्रेण तत्प्रतिपत्तिः सम्भवतीति द्रष्टव्यम् ।। १ ।।

अथ हैनं मनुष्याः ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति आत्थेति ओमिति होवाच, व्यज्ञासिष्टेति ।। ।।

प्र. – अथ हैनं मनुष्याः…… व्यज्ञासिष्टेति दत्तेति आत्थेति दत्तदानं कुरुत इत्यर्थः । शिष्टं पूर्ववत् ।। २ ।।

 

अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति, व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुः दयध्वमिति आत्थेति ओमिति होवाच, व्यज्ञासिष्टेति । तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुः इति, दाम्यत दत्त दयध्वमिति । तदेतत् त्रयँ शिक्षेद् दमं दानं दयामिति ।। ।।

 

।। इति सप्तमाध्याये द्वितीयं ब्राह्मणम् ।।

प्र. –अथ हैनमसुराः…… व्यज्ञासिष्टेति दयध्वमिति आत्थेति । दयध्वंप्राणिषु दयां कुरुत इत्यर्थः । तदेतदेवैषा…… दयध्वमिति दाम्यत दान्ता भवत, दत्त – दानं कुरुत; दयध्वं – दयां कुरुतेति दमदानदयालक्षणं तदेतत् त्रितयं स्तनयित्नुः – मेघः इति दकारत्रयोच्चारणेनानुवदति । सैषा दैवी वाक् ; न तु स्तनयित्नुशब्दमात्रम् । तदेतत् त्रयं शिक्षेद्दमं दानं दयामिति तस्मादद्यापि दमदानदयालक्षणं धर्मत्रयं शिक्षेत् – उपादद्यात् (उपाददीत?) प्रजापतेरनुशासनमस्माभिः कर्तव्यमित्येवं मतिं कुर्यादित्यर्थः । तथा च स्मृतिः त्रिविधं नरकस्यैतत् द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभः तस्मादेतत् त्रयं त्यजेत् ।। इति (भ.गी.१६-२१) अस्य विधेः शेषः प्राचीनोऽर्थवादः ।। ३ ।।

।। इति सप्तमाध्याये द्वितीयब्राह्मणप्रकाशिका ।।

सारमाध्याये तृतीयं ब्राह्मणम्

[हृदयविषयकमुपासनम्]

एष प्रजापतिर्यद्धृदयमेतद् ब्रह्मैतत् सर्वम् तदेतत् त्र्यक्षरं हृदयमिति हृ इत्येकमक्षरम्: अभिहरन्त्यस्मै स्वाश्चान्ये एवं वेद इत्येकमक्षरम्। ददत्यस्मै स्वाश्चान्ये एवं वेद यमित्येकमक्षरम् एति स्वर्गं लोकम्, एवं वेद ।।।।

 

।। इति सासमाध्याये तृतीयं ब्राह्मणम् ।।

प्र. – एवं सर्वोपासनाङ्गभूतं दमदानदयालक्षणमर्थत्रयम् उपदिश्य ब्रह्मोपासनाङ्गभूतं हृदयोपासनमाह – एष प्रजापतिर्यद्धृदयमेतत् ब्रह्मेतत् सर्वम् । पूर्वं दमाद्यनुशास्तृत्वेन प्रस्तुतो योऽयं प्रजापतिः सोऽपि हृदयमेव । तदेतत् ब्रह्म – बृहत् । एतत् सर्वम् । पञ्चमाध्याये शाकल्यब्राह्मणोक्तरीत्या हदयस्य सर्वत्वं द्रष्टव्यम् । एवं हृदयस्य प्रजापतित्व-बृहत्त्वसर्वत्वरूपविशेषणविशिष्टतया हृदयोपासनं विधाय उपास्यं हृदयं हदयशब्दनिर्वचनेन स्तौति तदेतत् त्र्यक्षरं हृदयमिति । तत्र प्रत्येकमक्षरार्थान्, तद्वेदनफलानि चाह हृ इत्येकमक्षरम्…… एवं वेद । हृ इति हृञो’ रूपम् । यस्माद्धृदयाय स्वाश्च इन्द्रियाणि च अन्ये विषयाश्च शब्दादयः स्वं स्वं कार्यम् अभिहरन्ति…… स्वकार्यं सर्वं तदधीनं कुर्वन्ति । तत्तज्ज्ञानस्य सर्वस्यापि अन्त:करणादीनत्वादिति भावः । अतो हृदयनाम्नो हृ इत्येतदक्षरमिति यो वेद, अस्मै – विदुषे स्वाश्च – ज्ञातयः अन्ये – सम्बन्धिनो बलिमुपहरन्ति; तत्क्रतुन्यायात् इति भावः । इति…… वेद । यस्माद्धृदयाय स्वा: -इन्द्रियाणि अन्ये च विषया: स्वं स्वं वीर्यं ददति, अत: दकारोऽस्मिन्नाम्नि निबद्ध इति यो वेद, तस्यापि स्वीयाः (स्वकीयाः), अन्ये च स्यं स्वं वीर्यं प्रयच्छन्तीत्यर्थः । यमिति……वेद । इणः गत्यर्थस्य यमित्येतदूपमस्मिन्नानि निबद्ध मिति यो वेद, स स्वर्गं लोकमेति ।। एवं नामाक्षरनिर्वचनज्ञानादपि ईशं विशिष्टं फलं लभ्यते, किमुत तदुपासनया इति हृदयस्य स्तुतिः कृता भवति ।।१।।

इति साप्तमाध्याये तृतीयब्राह्मणप्रकाशिका ।।

सामाध्याये चतुर्थं ब्राह्मणम्

[हृदयब्रह्मोपासनम्]

 

तद्वै तदेतदेव तदास सत्यमेव यो हैतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति, जयति इमान् लोकान्, जित इन्बसावसत् एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यँ ह्येव ब्रह्म ।। ।।

प्र. – हृदयस्य प्रजापतित्वेनोपासनामुक्त्वा सत्यत्वेन उपासनामाह – तद्वै तदेतदेव तदास सत्यमेव । वैशब्दोऽवधारणे । तद्वै तदेव तत् – तादृशं हृदयम् एतदेव तदासएतत् – वक्ष्यमाणं तदास इत्यर्थः । किं तदास इत्यत्राह – सत्यमेव इति । द्वे वाव ब्रह्मणोरूपे (इत्यत्र सत्त्यच्छब्दितं मूर्तञ्चामूर्तञ्च च सत्यम् । अव्याकृतपञ्चभूतात्मकम् (विराड्  रूपम्) अभवत् इत्यर्थः । तदुपासनस्य फलमाह – यो……. इन्वसावसत् । यः कश्चिदेतत् हृदयं महत्; अत एव यक्षं – पूज्यं प्रथमजं प्रथमजातं सर्वस्मात् कार्यजातात् प्रथमजं सत्यम् – अव्याकृतपञ्चभूतात्मकम् ब्रह्म – बृहदिति यः कश्चिदेतद्धृदयम् वेद – उपास्ते स इमाँल्लोकान् जयति । जितः – वशीकृतः इन्नु–इत्थम् असौ .शत्रुरुपासकस्य यथा ब्रह्मणा जितः, असत् (असत्प्रायो) भवेदित्यर्थः । तस्यैतत् फलमिति पुनर्निगमयति एवमेतत्….ब्रह्म । यः एवं महद्यक्षं प्रथमजं सत्यं हृदयमुपास्ते’, तच्छत्रोरसत्वं युक्तमेव । हि यतः एतदुपासनं सत्यं ब्रह्म, अतोऽयं सत्योपासक इत्यतः तदुपासकस्य सत्त्वम्, तद्विरोधिनश्चासत्वं युक्तमेवेति भावः ।। १ ।।

आप एवेदमग्र आसुः ता आपः सत्यमसृजन्त सत्यं ब्रह्मः ब्रह्म प्रजापतिम्। प्रजापतिर्देवान् ते देवाः सत्यमेवोपासते तदेतत् त्र्यक्षरँ सत्यमिति; इत्येकमक्षरम्तीत्येकमक्षरम्, यमित्येकमक्षरम् प्रथमोत्तमे अक्षरे सत्यम् : मध्यतोऽनृतम् तदेतदनृतँ उभयतस्सत्येन परिगृहीतँ सत्यभूयमेव भवति नैनं विद्धाँसमनृतँ हिनस्ति ।। ।।

 

।। इति सप्तमाध्याये चतुर्थं ब्राह्मणम् ।।

प्र. – सत्यस्य ब्रह्मणः स्तुत्यर्थं महद्यक्षं प्रथमजम् इत्युक्तम्, तत् कथं प्रथमजत्वमित्यत्राह आप एवेदमग्र आसुः इदं – व्याकृतं जगत् अग्रे – अण्डसृष्टेः प्राक् आप एवासुः – अव्याकृतपञ्चभूतात्मना अवर्तत इत्यर्थः । ता आपः सत्यमसृजन्त ता आपः – अव्याकृतपञ्चभूतानि सत्यं – पञ्चीकृतपञ्चभूतात्मकं कार्यमण्डम् असृजन्तेत्यर्थः । सत्यं ब्रह्म – तच्च सत्यं ब्रह्म – चतुर्मुखम् असृजत इत्यर्थः । ब्रह्मेति – नपुंसकत्वं छान्दसम् । ब्रह्म प्रजापतिम् । ब्रह्मा प्रजापति दक्षादिप्रजापतिम् असृजत इत्यर्थः ।

जातावेकवचनम् । प्रजापतिर्देवान् । असृजतेति शेषः । ते देवा:……. यमित्येकमक्षरम् । स्पष्टम् । तीत्येकमक्षरम् इत्यत्रति इति इकारानुबन्धो निर्देशार्थः । प्रथमोत्तमे अक्षरे सत्यं मद्ध्यतोऽनृतम् प्रथमोत्तमे अक्षरे – सकारयकारौ सत्यम् । मृत्युरूपाभावात् । मध्यतः – तकारस्त्वनृतम् । अनृतं हि मृत्युः, मृत्य्वनृतयोः तकारसामान्यात् । तदेतदनृतं सत्यभूयमेव भवति । तदेतदनृतं मृत्युरूपम् उभयतः सत्येन सकारयकारलक्षणेन परिगृहीतं संदष्टं सत्यभूयमेव – सत्यबाहुल्यमेव भवति । नैनं विद्वांसमनृतं हिनस्ति । एवं सत्यबाहुल्यं सर्वस्य मृत्योरनृतस्य अकिञ्चित्वञ्च यो विद्वान, तमेवं विद्वांसम् अनृतं प्रमादोत्थं कदाचिदपि न हिनस्ति इत्यर्थः ।। २ ।।

।। इति सप्तमाध्याये चतुर्थब्राह्मण प्रकाशिका ।।

सप्तमाध्याये पञ्चमं ब्राह्मणम्

[सत्याख्यब्रह्मणः उपासनम्]

 

तद्यत् सत्यमसौ आदित्यो एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषः तावेतावन्योन्यस्मिन् प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः; प्राणैरयममुष्मिन् यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति; नैनमेते रश्मयः प्रत्यायन्ति ।। ।।

प्र. – एवं सत्यत्वेन हृदयोपासनमुक्त्वा आक्ष्यादित्यान्तर्वतिनो ब्रह्मणो निर्विकारत्व-रूपसत्यत्वेन व्याहृतिशरीरकत्वेन च उपासनं दर्शयति – तद्यत्सत्यमसौदक्षिणेऽक्षन् पुरुषः तद्यत् प्रसिद्धं सत्यम्, असौ स आदित्यः । स क इत्यत्राह एष एतस्मिन् मण्डले पुरुष इति । एषोऽन्तरादित्ये हिरण्मय: पुरुषो दृश्यते (छां.उ.१-६-६) य एषोऽन्तरक्षिणि पुरुषो दृश्यते (छां.उ.४-१५-१) इति श्रुतिप्रसिद्ध इत्यर्थः । अक्षन्अक्ष्णीत्यर्थः । तावेतावन्योन्यस्मिन् …… अमुष्मिन् । अधिदैवतमध्यात्मञ्चाव-स्थितावादित्यचाक्षुषपुरुषौ अन्योन्यस्मिन् प्रतिष्ठितौ परस्परोपकारकौ भवतः । रश्मिद्वारा आदित्यपुरुषः चाक्षुषपुरुषस्योपकारकः; आदित्यरश्मिसम्बन्धाभावे चाक्षुषपुरुषस्य परमात्मनः स्वकार्यासामर्थ्यात् । चाक्षुषश्च पुरुष: प्राणद्वारा आदित्यपुरुषस्योपकारकः। प्राणनाभावे आदित्यपुरुषस्य परमात्मनः प्रकाशकत्वाभावात् । यदोत्क्रमिष्यन् भवतिशुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः प्रत्यायन्ति । एवं विद्वान् उत्क्रान्तिवेलायां द्वारभूतमादित्यमण्डलं शुद्धं रश्मिप्रतिघातरहितं द्रष्टुं शक्नोति । सूर्यस्य रश्मय: एनं प्रतिप्रतिकूलं नायन्ति – अस्योपासकस्य चक्षुःप्रतिघाताय न प्रभवन्तीत्यर्थः । चक्षुरादित्य-मण्डलस्थयोः पुरुषयोः परस्परोपकार्योपकारकभावज्ञानवैभवादिति भावः ।। १ ।।

एष एतस्मिन् मण्डले पुरुषः, तस्य भूरिति शिरः एकँ शिरः; एकमेतत् अक्षरम् भुव इति बाहू द्वो बाहू; वे एते अक्षरे सुवरिति प्रतिष्ठा वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहरिति; हन्ति पाप्मानं जहाति , एवं वेद ।। ।।

प्र. – एष….भूरिति शिरः आदित्यमण्डले वर्तमानस्य सत्यपुरुषस्य भूरिति व्याहृतिः शिर इत्यर्थः । तच्छिरस्कत्वेन ध्यानं कर्तव्यमिति भावः । तत्रोपपत्तिमाह –एकँ शिरः, एकमेतदक्षरम् । एकत्वसङ्ख्यासाम्यादिति भावः । तथा भुव इति व्याहृतिः बाहू ध्यातव्या । तत्रोपपत्तिमाह द्वौ बाहू द्वे एते अक्षरे । द्वित्वसङ्ख्यासाम्यादिति भावः । सुवरिति प्रतिष्ठा प्रतिष्ठा पादौ इत्यर्थः । तत्रोपपत्तिमाह द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहरितितस्य – आदित्यमण्डलान्तर्वर्तिनः पुरुषस्य अहः इत्युपनिषत् रहस्यनाम इत्यर्थः । उक्तञ्च व्यासार्यै: – सम्बन्धादेवम् अन्यत्रापि (ब्र.सू.३-३-२०) इत्यत्र उपनिषदौ रहस्यनामनी इत्यर्थ इति । अहः इत्यस्य हन्तेर्जहातेश्च रूपसंभवम् अभिप्रेत्य तदनुसारेण फलमाह – हन्ति पाप्मानं जहाति , एवं वेद एवं वेद – उपास्ते;  पाम्मानं हन्ति जहाति च इत्यर्थः ।। २ ।।

प्योऽयं दक्षिणेऽक्षन् पुरुषः तस्य भूरिति शिरः एकँ शिरः, एकमेतदक्षरम् । भुव इति बाहू द्वौ बाहू, द्वे एते अक्षरे सुवरिति प्रतिष्ठा द्वे प्रतिष्ठे, द्वे एते अक्षरे सुवरिति प्रतिष्ठा द्वे प्रतिष्ठे; द्वे एते अक्षरे तस्योपनिषदहमिति; हन्ति पाप्मानं जहाति , एवं वेद ।। ।।

प्र एवमुत्तरत्रापि द्रष्टव्यम् योऽयं दक्षिणेऽक्षन् पुरुष इत्यादौ । तस्योपनिषदहमित्यपि पूर्ववद्रूपम् । तदनुसारि फलञ्च हन्ति पाप्मानं जहाति एवं वेद इति । इदञ्च चिन्तितं गुणोपसंहारपादे – एष एतस्मिन् मण्डले पुरुषे यश्चायं दक्षिणेऽक्षन् (बृ.उ.७-५-३) इत्यादिना अक्ष्यादित्यवर्तितया व्याहृतिशरीरकतया च उपास्यत्वेनोपदिष्टस्य ब्रह्मणः तस्योपनिषदहरित्यधिदैवतम्, तस्योपनिषदहमित्यध्यात्मम् इति ये अहरिति अहरिति च रहस्यनामनी उपदिष्टे, ते किं स्थानविशेषनियते – अतश्चाहरिति नाम आदित्य-मण्डलस्थानविशिष्टस्यैव अहमिति च नाम अक्षिस्थपुरुषस्यैवेति नियमोऽस्ति – उत नेति चिन्तायां पूर्वपक्षे उच्यते; सम्बन्धादेवमन्यत्रापि (ब्र.सू.३-३-२०)। यथा मनोमयत्वादि-विशिष्टस्यैकत्वादुपास्यैक्येन विद्यैक्यात् शाण्डिल्यविद्यायां गुणोपसंहारः, एवम् अक्ष्यादित्य-सम्बन्धिनो ब्रह्मणः सत्यस्य व्याहृतिशरीरकस्यैकत्वेन विद्यैक्यात् तत्सम्बन्धिनोर्नाम्नोरपि अनियमेन स्थानद्वयेऽप्युपसंहार इति ।

एवं प्राप्ते उच्यते – वा विशेषात् (ब.सू. ३-३-२१)। एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषः, तावेतावन्योन्यस्मिन् प्रतिष्ठितौ (बृ.उ.७-५-२) इति द्वित्वसङ्ख्याया प्रधानोपास्यभेदप्रतीतेः आदित्याक्षिस्थानभेदेन रूपभेदाच्च विद्याभेदात् न नाम्नोरनियमेन स्थानद्वयेऽप्युपसंहारः ।

दर्शयति (ब्र.सू.३-३-२२) । तस्यैतस्य तदेव रूपम्, यदमुष्य रूपम् (छां.उ.१-७-५) इत्यादिश्छान्दोग्यश्रुतिरेव स्थानभेदे परस्परगुणाप्राप्तिं दर्शयति हि चाक्षुषे पुरुषे आदित्यपुरुषरूपाद्यतिदेशेन । यदि हि स्थानभेदेऽपि परस्परंगुणप्राप्तिः; तर्ह्यति-देशानर्थक्यामेव स्यात् । अत: आदित्यस्थानविशिष्टस्यैव अहरिति नाम; अक्षिस्थस्यैव अहमिति नाम इति व्यवस्थेति स्थितम् । प्रकृतमनुसरामः ।। ३ ।।

।। इति सप्तमाध्याये पञ्चमब्राह्मण प्रकाशिका ।।

षष्ठं ब्राह्मणम्

[शाण्डिल्यविद्या]

 

मनोमयोऽयं पुरुषो भाः सत्यः तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशान: सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ।। ।।

 

।। इति सप्तमाध्याये षष्ठं ब्राह्मणम् ।।

प्र. – शाण्डिल्यविद्यामाह – मनोमयोऽयं पुरुषो भाः सत्यः मनोमयःविशुद्धमनोग्राह्यः । भा: – भारूपः। समानप्रकरणे छान्दोग्ये, मनोमयः प्राणशरीरो भारूप: (छो.उ.३-१४-२) इति श्रवणात् । सत्यः – निर्विकारः । देहादिध्वंसेऽपि निर्विकार इति यावत् । तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा अन्तर्हृदये – हृदयान्तर्गतः तदवच्छेदनिबन्धनस्वल्पपरिमाणः इत्यर्थः । एष…… किञ्च सर्वस्येशान: – नियन्ता । सर्वस्याधिपतिः – शेषी । सर्वमिदं प्रशास्ति यदिदं किञ्च । प्रशासनेन धारक इत्यर्थः । अत्र नियन्तृत्व-धारकत्वशेषित्वानि त्रीण्यप्युक्तानि । अत्र वशित्वादेः बृहदारण्यक-माध्यन्दिनशाखागतस्य छान्दोग्यशाण्डिल्यविद्यागतसत्यसङ्कल्पत्वविततिरूपत्वात् वेद्यरूपभेदाभावात् विद्यैक्यमिति द्रष्टव्यम् । गुणोपसंहारपादे – एकस्यामेव वाजसनेयशाखायाम् अग्निरहस्ये आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम् (अग्नि.र.१०-६) इति श्रुतशाण्डिल्यविद्यात: मनोमयोऽयं पुरुषो भास्सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा एष सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च इति श्रुता शाण्डिल्य विद्या भिद्यते, सत्यसङ्कल्पत्ववशित्वरूपगुणभेदादिति पूर्वपक्षे प्राप्ते उच्यते – समान एवञ्चाभेदात् (ब.सू.३-३-१९) । उभयत्रापि मनोमयत्वादिके समाने सति वशित्वादेः सत्यसङ्कल्पत्वविततिरूपत्वेन वशित्व सत्यसङ्कल्पत्वयोः अभेदात् रूपभेदाभावात् विद्यैक्यमिति स्थितम् ।। १ ।।

 

।। इति सप्तमाध्याये षष्ठब्राह्मण प्रकाशिका ।।

सप्तमं ब्राह्मणम्

[विद्युद्ब्रह्मदृष्टिः]

 

विद्युद् ब्रह्मेत्याहुः विदानाद्विद्युत् विद्यत्येनं पाप्मनो एवं वेद विद्युद् ब्रह्मेति विद्युद्ध्येव ब्रह्म ।। ।।

प्र. – विद्युद्ब्रह्मेत्याहुः । विद्युति ब्रह्मदृष्टि: कर्तव्या इति केचिदाहुः । विद्युति ब्रह्माध्यासहेतुभूतं सादृश्यमाह विदानाद्विद्युत् । मेघान्तःस्थितान्धकारखण्डनात् विद्युत् ब्रह्म च अज्ञानलक्षणतमःखण्डकम् इति विद्युत्त्वमस्तीति भावः । विद्यत्येनं पाप्मनो…..ब्रह्म । यः, विद्युद्ब्रह्म इत्येवं वेद; एनं पाप्मनो विद्यति । एनं प्रति प्रतिकूलभूता ये पाप्मानः, तान् सर्वान् विद्यति – विशेषेण द्यति – खण्डयति । दो अवखण्डने (धो.पा.११४८) इति हि धातुः । तत्रोपपत्तिमाह विद्युद्ध्येव ब्रह्म । ब्रह्मणो विद्युद्वत् खण्डकत्वात् इत्यर्थः ।। १ ।।

।। इति सप्तमाध्याय सप्तमब्राह्मण प्रकाशिका ।।

अष्टमं ब्राह्मणम्

[वाग्धेनूपासनम्]

 

वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः, स्वाहाकारो, वषट्कारे, हन्तकारस्वधाकारः तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारञ्च वषट्कारञ्च हन्तकारं मनुष्याः; स्वधाकारं पितरः तस्याः प्राण प्रषभो मनो वत्सः ।। ।।

 

।। इति सप्तमाध्याये अष्टमब्राह्मणम् ।।

प्र. – उपासनान्तरमाह – वाचं धेनुमुपासीत त्रयीलक्षणं वाचं धेनुरित्युपसीत इत्यर्थः तस्याश्चत्वारः…… स्वधाकारः स्पष्टम् तस्यै द्वौ स्तनो देवा उपजीवन्ति । तस्यै तस्याः । वाग्धेन्वा इत्यर्थः । स्वाहाकारञ्च वषट्कारञ्च । स्वाहाकारेण वा वषट्कारेण वा देवेभ्यो हविः प्रदानादिति भावः । हन्तकारं मनुष्याः। हन्त इति हि मनुष्ययज्ञे मनुष्येभ्यो अन्नं प्रयच्छन्तीति भावः । स्वधाकारं पितरः । स्वधाकारेण हि पितृभ्यः स्वधां प्रयच्छन्तीति भावः । तस्याः प्राण ऋषभः । प्राणेन हि वाक् प्रसूयते । मनो वत्सः । मनसा हि प्रस्नाव्यते । मनसा हि आलोचिते विषये वाक् प्रवर्तते । तस्मात् मनो वत्सस्थानीयमिति भावः ।। १ ।।

।। इति सप्तमाध्याये अष्टमब्राह्मण प्रकाशिका ।।

नवमं ब्राह्मणम्

[अग्निवैश्वानरब्राह्मण उपासनम्]

 

अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे, येनेदमन्नं पच्यते, यदिदमद्यते । तस्यैष घोषो भवति, यमेतत् कर्णावपिधाय शृणोति यदोत्क्रमिष्यन् भवतिनैनं घोषँ शृणोति ।। ।।

 

।। इति सप्तमाध्याये नवमब्राह्मणम् ।।

प्र. – प्रसङ्गादुत्क्रान्तिं वक्तुं तदुपक्रममाह – अयमग्निः वैश्वानरो योऽयमन्तपुरुषे । कोऽसौ इत्यत्राह – येनेदमन्नं पच्यते, यदिदमद्यते । यदिदमद्यते, तदिदं भुज्यमानं येनाग्निना पच्यते स वैश्वानराग्निरित्यर्थः । तस्यैष घोषो भवति……शृणोति तस्य वैश्वानराग्नेः जाठरस्यैष घोषो भवति, यं घोषं एतत् इदानीं कर्णावपिधाय – कर्णावङ्गुलिभ्यां विधाय शृणोति । तादृशवैश्वानराग्नौ ब्रह्मदृष्टिः कार्या इत्यर्थसिद्धोऽर्थः । …… शृणोति । तदानीं जाठराग्नेरभावात् इति भावः ।। १ ।।

।। इति सप्तमाध्याये नवमब्राह्मण प्रकाशिका ।।

 

दशमं ब्राह्मणम्

[ब्रह्मविदः गतिः]

 

यदा वै पुरुषोऽस्माल्लोकात्प्रैति, वायुमागच्छति तस्मै तत्र विजिहीते यथा रथचक्रस्य खम् तेन ऊर्ध्वं आक्रमते आदित्यमागच्छति तस्मै  तत्र विजिहीते यथाऽऽडम्बरस्य खम् तेन ऊर्ध्व आक्रमते चन्द्रमसमागच्छति तस्मै तत्र विजिहीते यथा दुन्दुभेः खम् तेन ऊर्ध्व आक्रमते लोकमागच्छत्यशोकमहिमम् तस्मिन् वसति शाश्वती: समाः ।। ।।

 

।। इति सप्तमाध्याये दशमं ब्राह्मणम् ।।

 

प्र. – उत्क्रान्तिप्रसङ्गात् ब्रह्मविदः गतिमाह – यदा वै….. शाश्वती: समाः । यदा ब्रह्मवित् पुरुषः अस्मालोकात् प्रैति, तदा अर्चिर्दिनपूर्वपक्षषडुदङ् मासाब्दद्वारा’ वायुमागच्छति । तस्मै – आगताय ब्रह्मविदे सः – वायुः विजिहीते – आत्मावयवान् विगमयति । छिद्रीकरोत्यात्मानम् इत्यर्थः । किं परिमाणं छिद्रमित्यत्राह – यथा रथचक्रस्य खम् । रथचक्रमध्यवर्ति रन्ध्रं यत्परिमाणम् , तत्परिमाणं छिद्रं करोति । तेन छिद्रेण ऊवं गत्वा सः – ब्रह्मवित् आदित्य लोकमागच्छतीत्यर्थः । न च देवलोकमादित्यलोकम् इति श्रुत्या विरोध इति वाच्यम् – योऽयं पवतेएष देवानां गृहाः इति श्रुतेः वायोरेव तत्र देवलोकशब्दवाच्यत्वात् । सूत्रितञ्च वायुमब्दादविशेषणविशेषाभ्याम् (ब्र.सू.४-३-२) इति । वायुम् अब्दात् संवत्सरादूर्ध्वमधिगच्छेत् । अविशेषविशेषणाभ्याम् – सामान्यविशेषाभ्यां देवलोकशब्दो हि सामान्यशब्दः । वायुशब्दो विशेषः । अतो वायुरेव देवलोक इति स्थितम् । तस्मै …… खम् । आदित्यो ब्रह्मलोकं जिगमिषोर्मार्गनिरोधं कृत्वा स्थितोऽपि तस्मै – एवं विदे उपासकाय प्राप्ताय आडम्बराख्यवाद्यविशेषस्य खं – छिद्रमिव छिद्रं करोति । तेन ऊर्ध्वमाक्रम्य चन्द्रमसम् आगच्छति । तस्मै …… खम्सोपि चन्द्रमाः तस्मै – ब्रह्मविदे दुन्दुभिरन्ध्रसदृशं रन्ध्रं करोति । तत्प्रमाणेन मार्गेण स ऊर्ध्वमाक्रम्य विद्युद्वरुणेन्द्रधातृलोकान् अतिक्रम्य अशोकं – शोकशून्यम् अहिमं – हिमाद्याधिदैविकदुःखशून्यं परब्रह्मलोकं’ गत्वा शाश्वतीः समाः -अनन्तात् संवत्सरात् तत्रैव वसति । न पुनरावर्तत इत्यर्थः ।। १ ।।

।। इति सप्तमाध्याये दशमब्राह्मण प्रकाशिका ।।

 

एकादशं ब्राह्मणम्

[व्याधिसन्तापादौ तपोदृष्टिः]

 

एतद्वै परमं तपोयद्व्याहित स्तप्यते परमं हैव लोकं जयति एवं वेद एतद्वै परमं तपो ये प्रेतमरण्य हरन्ति परमँ हेव लोकं जयति एवं वेद एतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति परमं हैव लोकं जयति एवं वेद

 

।। इति सप्तमाध्याये एकादशं ब्राह्मणम् ।।

प्र. – एतद्वे…… वेद व्याहितः – व्याधितः । ज्वरादिपरिगृहीतस्सन् यत् तप्यते; तदेव परमं तप इत्येवं चिन्तयेत् । दुःखसामान्यात् । तस्यैवं चिन्तयतो विदुषः [अनिन्दितोऽविहितश्च] कर्मक्षयहेतुः तदेव तपो भवति । स एवं तेन विज्ञानेन तपसा दग्धकिल्बिषः परमं हैव लोकं जयति, एवं वेद एतद्वै परमं…… वेद । यं प्रेतं ग्रामादरण्यम् ऋत्विजो हरन्ति तस्मिन् कर्मणि ग्रामादरण्यगमनत्वसामान्यात् परमं तपो भविष्यतीति तत्र परमतपस्त्वबुद्धिं जीवद्दशायां यः करोति, स परमं लोकं. जयति । एतद्वै परमं…… एवं वेद । अग्निप्रवेशसामान्यात् भविष्यति प्रेतभूतस्य स्वस्याग्नौ अभ्याधाने परमतपस्त्वबुद्धिं कुर्वतः परलोकप्राप्तिरित्यर्थः ।। १ ।।

 

इति सप्तमाध्याये एकादशब्राह्मण प्रकाशिका ।।

द्वादशं ब्राह्मणम्

[अन्नं ब्रह्म इत्युपासनम्]

 

अन्नं ब्रह्मेत्येक आहुः तन्न तथा; पूयति वा अन्नमृते प्राणात् प्राणो ब्रह्मेत्येक आहुः तन्न तथा; शुष्यति वै प्राण ऋतेऽन्नात् एते त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः तद्ध स्माह प्रातृदः पितरम्। किँस्विदेवैवं विदुषे साधु कुर्याम्, किमेवास्मा असाधु कुर्यामिति स्माह पाणिना मा प्रातृदकस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति तस्मा हैतदुवाच, वीति अन्नं वै वि अन्ने हीमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वै रम् प्राणे हीमानि सर्वाणि भूतानि रमन्ते सर्वाणि वा अस्मिन् भूतानि विशन्तिसर्वाणि भूतानि रमन्ते, एवं वेद ।। ।।

प्र.- अन्नं ब्रह्म…… प्राणात् केचिदन्नं ब्रह्म इत्याहुः आचार्याः । तन्न तथा युज्यते । प्राणादृते तदन्नं पूयति – पूतिभावमापद्यते । तस्मान्नान्नं ब्रह्मेति । प्राणो…… ऋतेऽन्नात् । केचित्प्राणो ब्रह्मत्याहुः । तदपि न युक्तम् । अन्नाभावे प्राणस्य शोषणदर्शनात् इत्यर्थः । एते त्वेव…… गच्छतः । तस्मादन्नप्राणरूपे एते देवते एकधाभूयं-एकधाभाव भूत्वा – गत्वा परमतां – परमत्वं गच्छतः । तद्ध स्मा प्रातृदः पितरम्तदेवमध्यवस्य ह स्म प्रातृदो नाम पुत्रः पितरमाह किमिति इत्यत्राह – किं स्विदेवैवं…...कुर्याम् इति । अन्नप्राणौ एकीभूतौ ब्रह्मेति विदुषे अस्मै मह्यं’ किं वा साधु कर्म कुर्याम्; किं वा असाधु कर्म कुर्याम् । कृतकृत्यस्य मे साध्वसाधुकर्मभ्यां किं भविष्यतीति भावः । अस्मा इति स्वात्मानमेव निर्दिशति देहादिविवेकज्ञापनाय । अथवा अस्मा इति कस्यचित् तच्छिष्यस्य तद्विदुषो वा निर्देशः । स्माह…… गच्छतीति । तमेवं वादिनं पुत्रं हस्तेन निवारयन् स ह पिता आह स्म । किमिति? हे प्रातृद! मैवं वोचः – कस्त्वेनयोः अन्नप्राणयोः एकधाभूयं भूत्वा – गत्वा स्थितयोः परमतां – विद्वान् परमतां गच्छति । न कश्चिदपि विद्वान् अनेन दर्शनेन परमतां गच्छति । तस्मात् मैवं वक्तुमर्हसि, कृतकृत्योऽसाविति । इति पित्रोक्तः पुत्रः यद्येवं, ब्रवीतु भगवान्, कथं परमतां गच्छतीति पितरं पप्रच्छ । तस्मा हैतदुवाच तस्मै एवं पृष्टवते पुत्राय पिता एतत् वक्ष्यमाणमुवाच इत्यर्थः । तदेवाह – वीत्यन्नं वै वि इत्यादि । अन्ने हि यस्मादिमानि सर्वाणि भूतानि विष्टानि आश्रितानि । अतोऽन्नं वीत्युच्यते इत्यर्थः । अतो ‘वि’ इत्यन्नमुपास्यमित्यर्थः । रमिति । प्राण उपास्य इति शेषः । तदेव उपपादयति । प्राणो वै – – –रमन्ते इति । यस्मादिमानि सर्वाणि भूतानि प्राणे रमन्ते अतः प्राण एव रमित्यर्थः । विरमिति गुणविशिष्टान्नप्राणोपासनस्य फलमाह – सर्वाणि वा अस्मिन् भूतानि विशन्ति सर्वाणि भूतानि रमन्ते एवं वेदेति । स्पष्टोऽर्थः ।। १ ।।

।। इति सप्तमाध्याये द्वादशब्राह्मण प्रकाशिका ।।

 

त्रयोदशं ब्राह्मणम्

 

[प्राणे उक्थादिदृष्टय:]

 

उक्थम् प्राणो वा उक्थम्। प्राणो हीदँ सर्वम् उत्थापयति उद्धारमा दुक्थ विद्धीरस्तिष्ठति, उक्थस्य सायुज्यँ सलोकतां जयति। एवं वेद ।। ।।

प्र.- प्राणस्यैव ऋग्यजुस्सामत्वेन उपासनमाह – उक्थम्इति प्राणमुपासीत इति शेषः । उक्थशब्दः शस्त्रविशेषवचनोऽपि यजुस्सामप्रायपाठात् ऋङ्मात्रपरः । शस्त्रपरत्वेऽपि न दोषः । तत्रोपपत्तिमाह – प्राणो वा उक्थम् । प्राणस्योक्थत्वमुपपादयति प्राणो हीदं सर्वमुत्थापयति । न ह्यप्राणः कश्चिदुत्तिष्ठतीति भावः । उद्धास्मादुक्थ विद्धीरस्तिष्ठति अस्मात् – एवंविदः उक्थवित् उक्तप्राणवित् धीरः पुत्रः उत्तिष्ठतीति व्यवहितेन संबन्धः । एवं दृष्टफलमुक्त्वा अदृष्टं फलमाह उक्थस्य सायुज्यं…… वेद । उक्थप्राणेन सायुज्यं सलोकतां प्राप्नोतीति भावः ।। १ ।।

 

यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषस्सायुज्यँ सलोकतां जयति, एवं वेद ।। ।।

प्र. – यजुःइति प्राणमुपासीत इति शेष इत्यादि पूर्ववत् । प्राणे सति हीमानि सर्वाणि भूतानि युज्यन्ते – सन्नह्यन्त उद्युञ्जते । अतः प्राणो यजुः । युज्यन्ते हास्मै……..वेद । अस्माकमसौ श्रेष्ठो भवतु इत्येवंविदः श्रैष्ठयाय युज्यन्ते सन्नह्यन्ति उद्युञ्जते सर्वाणि भूतानि इत्यर्थः । शिष्टं स्पष्टम् ।। २ ।।

 

साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते, साम्नः सायुज्यँ सलोकतां जयति एवं वेद ।।।।

प्र.- साम प्राणो वै साम…… पूर्ववत् । सम्यञ्चि – सङ्गतानि भवन्ति इत्यर्थः । अस्मै श्रैष्ठ्याय सम्यञ्चि कल्पन्ते नः श्रेष्ठो भवत्विति । प्राणविदः श्रैष्ठ्याय सङ्गतानि सन्ति कल्पन्ते इत्यर्थः । शिष्टं स्पष्टम् ।। ३ ।।

 

क्षत्रम् प्राणो वै क्षत्रम् प्राणो हि वै क्षत्रम् त्रायते हैनं प्राण: क्षणितोः । प्र क्षत्रमत्र माप्नोति, क्षत्रस्य सायुज्यँ सलोकतां जयति, एवं वेद ।। ।।

 

प्र.- क्षत्रम् इति प्राणमुपासीत इति शेषः । तत्रोपपत्तिः प्राणो वै क्षत्रम् । अत्र विवदमानं प्रत्याह – प्राणो हि वै क्षत्रम् । प्राणस्य क्षत्रत्वप्रसिद्धेरिति भावः । तदुपपादयति त्रायते हैनं प्राणः क्षणितो: क्षणु हिंसायाम् (धा.पा.१४६६) इत्यस्मात्, सर्वधातुभ्यः इन् (उणादि.५५७) इति इन् । क्षणि: हिंसा । तस्मात् पञ्चम्यर्थे तोसुन् प्रत्ययः । हिंसातः त्रायते ह्येनं प्राण इत्यर्थः । शस्त्रादिहिंसायामपि प्राणसद्भावे पुनर्मांसेन पूर्णं भवति इत्यर्थः । विद्यायाः फलमाह – प्रक्षत्रमत्रमाप्नोति…… एवं वेद । न त्रायते अन्येन केनचित् इति अत्रं-प्राणः । तमत्रं क्षत्रं क्षत्रत्वगुणविशिष्टं प्राप्नोतीत्यर्थः । क्षत्रस्य सायुज्यं सलोकतां जयति । क्षत्रप्राणस्य सायुज्यसालोक्ये गच्छति इत्यर्थः ।। ४ ।।

।। इति सप्तमाध्याये त्रयोदशब्राह्मण प्रकाशिका ।।

 

चतुर्दशंगायत्रब्रह्मोपासनाब्राह्मणम्

[सावित्रीगायत्र्युपाधिकब्रह्मोपासनम्]

भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि । अष्टाक्षरँ हवा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावदेषु त्रिषु लोकेषु तावद्ध जयति, योऽस्या एतदेवं पदं वेद ।।१।।

प्र. – एवं मनोहृदयाद्यनेकविशिष्टस्य उपासनमुक्त्वा गायत्र्युपाधिविशिष्टस्य उपासन-माह – भूमिरन्तरिक्षं द्योरित्यष्टावक्षराणि । अत्र द्यौरित्यक्षरद्वयं कृत्वा यकारेण सहाष्टत्वं द्रष्टव्यम् । अष्टाक्षरं वा एकं गायत्र्यै पदम् । गायत्र्या एकं पदमष्टाक्षरम् । एकैकः पादोऽष्टाक्षर इत्यर्थः । एतदु हैवास्या एतत् एतत् – लोकत्रयात्मकम् अस्याः -गायत्र्याः एतत् पदम् – एकं पदमित्यर्थः । लोकत्रये गायत्र्येकपदत्वज्ञानस्य फलमाह  यावदेषुवेद । एवमेतत् पदं यो वेद; त्रिषु लोकेषु, यावत् जेतव्यम् तावज्जयति इत्यर्थः एवमुत्तत्रापि ।। १ ।।

 

ऋचो यजूँषि सामानीत्यष्टावक्षराणि अष्टाक्षरँ वा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् यावतीयं त्रयी विद्या तावद्ध जयति, योऽस्या एतदेवँ पदं वेद ।।।।

प्र.- ऋचो यज्ञेषि…… एतदु हैवास्या एतत् एतत् वेदत्रयात्मकम् अस्याः गायत्र्याः एतत् – एकं पदमित्यर्थः । यावतीयं…… वेद इयं त्रयी विद्या यावती – यावत्फलप्रकाशिका, तत् फलं सर्वं जयतीत्यर्थः । गायत्र्याः वेदत्रयात्मकं पदं जानन् त्रयीप्रतिपाद्यं सर्वं फलमाप्नोतीति यावत् ।। २ ।।

प्राणोऽपानो व्यान इत्यष्टावक्षराणि अष्टाक्षरँ हवा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् यावदिदं प्राणि तावद्ध जयति; योऽस्या एतदेवं पदं वेद । अथास्या एतदेव तुरीयं दर्शतं पदं परोरजाः, एष तपति यद्वै चतुर्थं तत् तुरीयम् दर्शतं पदमिति ददृश इव ह्येषः परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति एवँ हैव श्रिया यशसा तपति, योऽस्या एतदेवं पदं वेद ।।।।

प्र. – प्राणोऽपानो व्यान इत्यष्टौ अत्र वि ‘या’ व्यान इति यकारेण सहाष्टाक्षरत्वम् । यावदिदंवेद । प्राणात्मकगायत्रीतृतीयपादोपासकः प्राणिजातं सर्वं जयतीत्यर्थः ।। अथास्या एतदेव…… तपति अस्याःगायत्र्याः एतदेव तुरीयं पदम् । अत्र, तुरीयदर्शतशब्दौ स्वयमेव व्याचष्टे – यद्वै चतुर्थम् तत् तुरीवम् दर्शतं पदमितिददृश इव ह्येषः लोके चतुर्थमिति प्रसिद्धमेव तुरीयम् । एषः मण्डलान्तर्गतः पुरुषो दृश्यत इव हि भासते । अतः दर्शतं पदमित्यर्थः । परोरजा इत्येतद्याचष्टे परो रजा इति, सर्वमु ह्येवैष रज उपर्युपरि तपति सर्व रजः सर्वमपि राजसं ‘लोकम् उपर्युपरि अत्यन्तमूर्ध्वं स्थित्वा एषः – मण्डलपुरुषः तपति इत्यर्थः । एवं हैव…… वेद । यो अस्याः गायत्र्याः एतदेवं पदं तुरीयं वेद, स श्रिया यशसा च एवमेव – तुरीयपदभूतमण्डलपुरुष इव दीप्यत इत्यर्थः ।। ३ ।।

सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्वैतत्सत्ये प्रतिष्ठितम् चक्षुर्वै सत्यम् चक्षुर्हि वै सत्यम् तस्माद्यदिदानीं द्वौ विवदमानावेयातामहम् अदर्शमहमश्रौषमिति, एवं ब्रूयादहमदर्शमिति तस्मा एवं श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितम् प्राणो वै बलम् तत्प्राणे प्रतिष्ठितम् तस्मादाहुर्बलँ सत्यादोजीय इति एवमेषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गयाँस्तत्रे । प्राणा वै गया: तत्प्राणाँस्तत्रे। तद्यद्गयाँस्तत्रे, तस्माद्गायत्री नाम यामेवामूँ सावित्रीमन्वाह: एषैव सा यस्मा अन्याह तस्य प्राणाँस्त्रायते ।। ।।

प्र. – सैषा…… प्रतिष्ठिता एषा गायत्री तुरीये दर्शते पदे परोरजसि मण्डलपुरुषे प्रतिष्ठिता इत्यर्थः । तद्वै…… सत्यम् । आदित्यश्चक्षुपि सत्ये प्रतिष्ठित इत्यर्थः चक्षुषः सत्यत्वे विवदमानं प्रत्याह । चक्षुर्हि वै तत्यम् । तत्रोपपत्तिमाह – तस्माद्यदिदानीम् । अश्रौषमिति । अहमदशीमत्येकः, अहमश्रोषमित्येकः, एवं द्वौ विवदमानौ एयाताम् । आगच्छेताञ्चेदित्यर्थः । एव…… श्रद्दध्याम । चक्षुषा अहं दृष्टवानिति वचनादेव श्रद्धां कुर्वीमहि; न तु तद्विरुद्धार्थात् अश्रौषमिति वचनात् श्रद्धा जायत इत्यर्थः । तद्वै…..बलम् । स्पष्टार्थम् । तत् प्राणे प्रतिष्ठितम् तत् – सत्यं बलशब्दवाच्ये प्राणे प्रतिष्ठितम् इत्यर्थः । बलं सत्यादोजीयः ओजीयः ओजस्तर-मित्यर्थः । लोके यस्मिन् यत् आश्रितं भवति; तस्मादाश्रितात् आश्रयस्य बलवत्त्वमिति भावः । एवमेषा…… प्रतिष्ठिता । एवम् उक्तप्रकारेण अध्यात्मं प्राणे गायत्री प्रतिष्ठिता इत्यर्थः ।

गायत्रीनिर्वचनमाह – सा हैया गयांस्तत्रे तत्रेत्रैङ् पालने (धा.पा.९६५) अस्माल्लिटि रूपम् । पालयति स्म इत्यर्थः । गायशब्दं व्याचष्टे –प्राणा वै गयातत्प्राणांस्तत्रे तत्प्राणान् – तान् प्राणान् इत्यर्थः । तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम । स्पष्टम् । यामेवामूं सावित्रीमन्वाह, एषैव सा सः आचार्यः, पच्छोद्धर्चशस्सर्वाम् इति प्रकारेण यां सावित्रीमन्वाह; सा सावित्री एषैव – प्राणान् नरकपतनादिभ्यः त्रायत इत्यर्थः । यस्मा…… त्रायते सःआचार्यों यस्मैशिष्याय अन्याह; तस्य प्राणान् नरकपतनादिभ्यः त्रायते । [अतो गायत्र्येव सावित्री] इत्यर्थः ।। ४ ।।

 

ताँ हैतामेके सावित्रीमनुष्टुभमन्वाहुः, वागनुष्टुप् एतद्वाचमनुब्रूम इति ।  तथा कुर्यात् गायत्रीमेव सावित्रीमनुब्रूयात् यदिह वा अप्येवंविद्वह्विव प्रतिगृह्णाति; हैव तद्गायत्र्या एकञ्चन पदं प्रति ।। ।।

 

प्र.- तां हैतामेके…… अनुब्रूम इति । केचन तामेतां सावित्री – ‘मनुष्टुप्छन्द-स्कमिवाहुः । तत्र हेतुः वागनुष्टुप्…… इति । एतां वचनमनुब्रूम इति सावित्र्यनुवचने प्रवर्तमानाः प्रवर्तन्ते, वाक् च अनुष्टुप् छन्दः प्रधानेति अनुष्टुप्छन्दस्कै(से)व सावित्री उपदेष्टव्या । अतः तुरीयेणाष्टाक्षरेण पादेन युक्ता सावित्री उपदेष्टव्या । अतश्च द्वात्रिंशदक्षरतया अनुष्टुप्छन्दस्का सावित्री उपपद्यते इत्यर्थः । तत् दूषयति – तथा कुर्यात् तथा न कुर्यात्, किन्तु गायत्रीमेव सावित्रीमनुब्रूयात् । गायत्रीछन्दस्कामष्टाक्षरैः त्रिभिः पादैः युक्तां गायत्रीमेव सावित्रीमनुब्रूयात् इत्यर्थः । यदि वा अप्येवंवित्……पदं प्रति एवं प्रजानन् देहयात्रायै बहुप्रतिग्रहं करोति यदि, तत् प्रतिग्रहजातं गायत्र्या एकैकस्य पदस्य न पर्याप्तम् , तेन न स्पर्द्धते । एवं पादविदः प्रतिग्रहदोषाः शमं यान्ति इत्यर्थः ।। ५ ।।

इमाँस्त्रीन् लोकान् पूर्णान् प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमं पदमाप्नुयात् । अथ यावतीयं त्रयी विद्या यस्तावत् प्रतिगृह्णीयात्; सोऽस्या एतद् द्वितीयं पदमाप्नुयात् अथ यावदिदं प्राणि यस्तावत् प्रतिगृह्णीयात्; सोऽस्या एतत् तृतीयं पदमाप्नुयात् अथास्या एतदेव तुरीयं दर्शतं पदं परोरजाः, एष तपति नैव केन नाप्यम्; कुत एतावत् प्रतिगृह्णीयात् ।। ।।

प्र. – इमां स्त्रीन् लोकान् . पदमाप्नुयात् य इमान् त्रीन् लोकान् धनपूर्णान् प्रतिगृह्णाति, स गायत्री प्रथमपादज्ञानफलमाप्तवान् । प्रथमपादज्ञानस्य लोकत्रयभोक्तृत्वं फलमित्यर्थः । यद्वा लोकत्रयप्रतिग्रहप्रायश्चित्तं प्रथमपादाध्ययनमित्यर्थः । एवमुत्तरत्रापि योज्यम् । अथ यावतीयं – – – द्वितीयं पदमाप्नुयात् । त्रयीप्रकाश्य सकलफलानुभवो द्वितीयपादज्ञानस्य फलमित्यर्थः । त्रयीप्रकाश्यसकलफलप्रतिग्रहप्रायश्चित्तं द्वितीयपादज्ञानमिति वाऽर्थः । अथ यावदिदं…… तृतीयं पदमाप्नुयात् । सर्वप्राणिनः प्रतिशेषित्वं तृतीयपादज्ञानस्य फलमित्यर्थः । पूर्ववद्वा योज्यम् ।। ६ ।।

अथास्या एतदेव…… प्रतिगृह्णीयात् दर्शतस्य तुरीयपादस्य यत् फलम्, तत् केन चन – केनापि नाप्यं – न प्राप्तुं योग्यम् । कुत इत्यत्राह – कुत एतावत् प्रतिगृह्णीयात् । एतदनुरूपं फलं कुतः स्यादित्यर्थः । तस्मात् तस्य आनन्त्यमेव फलम्, नान्यदित्यर्थः ।। ६ ।।

 

[गायत्र्युषस्थानम्]

 

तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि; हि पद्यसे नमस्ते तुरीयाय दर्शताय पदाय परोजसे

 

असावदो मा प्रापत् इति, यं द्विष्यात्, असावस्मै कामो मा समृद्धि इति वा, – हैवास्मै काम ऋध्यते, यस्मा एवमुपतिष्ठतेअहमदः प्रापम् इति वा ।। ।।

 

प्र. – तस्या उपस्थानम् तस्याःगायत्र्याः उपस्थानं– उपस्थानमन्त्र उच्यते इत्यर्थः । मन्त्रमेवाह गायत्रि असि एकपदी…… हि पद्यते । हे गायत्री ! त्वं भूर्भुवस्सुवर्लक्षणेन एकेन पादेन एकपद्यसि । त्रयीलक्षणेन द्वितीयेन पादेन द्विपदी । प्राणादिना तृतीयेन पादेन त्रिपदी । तुरीयेण पदेन परोरजसा चतुष्पद्यसि । अपदसीत्ये-तदुपपादयति हि पद्यसे पद्यसे गम्यसे – ज्ञायसे इत्यर्थः । अपरिच्छिन्न-महिमत्वात् परिच्छिन्नतया ज्ञातुं न शक्यस इत्यर्थः । तुरीयं पादं नमस्यति नमस्ते तुरीयाय दर्शताय पदाय । स्पष्टम् । असावदो मा…… प्रापमिति वा । उक्तगायत्रीवित् यं द्विष्यात्; असौ शत्रुः अदः इदं वाञ्छितं मा प्रापत् मैव प्राप्नोतु इति वा; असौ – कामः अस्मै – शत्रवे मा समर्द्धिसमृद्धं (समृद्धी – समृद्धिः) माभूत् – व्रीह्यादित्वादिनिः – इति वा, यस्मैशत्रवे यं शत्रुमुद्दिश्येति यावत् – एवम् – उक्तमन्त्राभ्यां गायत्रीम् उपतिष्ठते; तस्मै स कामो न ऋध्यते – न वृद्धिमाप्नोति । अहमदः श्रेयः प्रापं – प्राप्तवानस्मीति वा मन्त्रेण य उपतिष्ठते गायत्रीम् , तस्य तत् प्राप्नोतीत्यर्थः । एवञ्च एषां त्रयाणां मन्त्राणां विकल्पेन प्रयोग इति द्रष्टव्यम् ।। ७ ।।

[जनकेन अग्निरूपमुखोपदेशः]

 

एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच, यन्नु हो तद्गायत्रीविदबूथाःअथ कथँ हस्तीभूतो वहसीति मुखँ ह्यस्याः सम्राण्ण विदाञ्चकारेति होवाच । तस्या अग्निरेव मुखम् यदिह वा अपि बह्व वाग्ना वभ्यादधाति, सर्वमेव तत् सन्दहति एवँ हैवैवंवित् यद्यपि बह्विव पापं कुरुते, सर्वमेव तत् संसाय शुद्धः पूतोऽजरोऽमृतः सम्भवति ।। ।।

प्र.- एतद्ध वै…… उवाच एतत् – गायत्रीविज्ञानं प्रस्तुत्य वैदेहो जनकः नाम्ना बुडिलम् अश्वतराश्वस्य अपत्यम् आश्वतराश्चिम् उवाच इत्यर्थः । उक्तिमेवाह – यन्नु हो…… इति हो – अहो तत्, यद् गायत्रीविदस्मि इत्यब्रूथाः उक्तवानसि । तस्य वचसोऽननुरूपमिदम् इत्यर्थः । तत् किमित्यत्राह – अथ कथं हस्तीभूतो वहसीति । हस्तीव प्रतिग्रहादिजन्यं पापं वहसि । अथाप्यहं गायत्रीविदिति ब्रूषे ।नैतदनुरूपमित्यर्थ:। स आह मुखं ह्यस्याः सम्राण्ण विदाञ्चकारेति होवाच । हे सम्राट् ! अहं गायत्रीं जाने; अपि तु तस्याः मुखं न ज्ञातवानस्मि । अतः पापं वहामि इत्युक्तवान् । इतर आह तस्या अग्निरेव मुखम् यदिह…… सम्भवति तस्याः गायत्र्याः अग्निर्मुखम् । यदि बह्वपि इन्धनमग्नौ अभ्यादधाति – प्रक्षिपति, तत् सर्वमग्निः दहति – एवमेवंविद् बह्वपि पापं कुरुते चेत्, तत्कृतं पापं सर्वं संसाय…... षो अन्तकर्मणि (धा.पा.११४७) दग्ध्वा इत्यर्थ: । पूत:-ब्रह्मविद्याप्रतिबन्धकपापरहितः शुद्धः – सम्पन्नब्रह्मविद्यः अजरोऽमृतः सम्भवति । जरामरणशून्यो भवतीत्यर्थः ।। ८ ।।

।। इति सप्तमाध्याये चतुर्दशब्राह्मण प्रकाशिका ।।

सामाध्याये पञ्चदश ब्राह्मणम्

[मुमुक्षुकर्तृकप्रार्थनामन्त्राः]

 

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।। पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह, रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ।। बायुरनिलममृतमथेदं भस्यान्तँ शरीरम् । ओं३ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतं स्मर ।। अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ।। ।।

 

इति सप्तमाध्याये पञ्चदश ब्राह्मणम् ।।

 

।।समाप्तश्च सप्तमोऽध्यायः ।।

प्र.-अर्चिराद्यातिवाहिकानुप्रविष्टादित्यप्रार्थनामन्त्रः । हिरण्मयेन…… मुखम् । सत्यस्यब्रह्मणः मुखं – द्वारम् – ब्रह्मगमनमार्ग इति यावत् हिरण्मयेन पात्रेणतेजिष्ठेन तेजो मण्डलेन अपिहितम् – आवृतम्, तत् – द्वारं त्वं पूषन्! अपावृणु -अनावृतं कुरु । किमर्थमित्यत्राह – सत्यधर्माय दृष्टये सत्यंब्रह्म धर्म:-आस्रय: साधनं यस्य तस्मै ब्रह्मैकनिष्ठाय ब्रह्मदर्शनार्थिने मह्यं दृष्टये – ब्रह्मदर्शनाय इत्यर्थः । पूषन्नेकर्षे यम सूर्य प्राजापत्य । हे पूषन् ! एकश्चासौ ऋषिश्च एकर्षिः । ऋषिर्द्रष्टा । सवितुः जगदेकचक्षुष्वादिति भावः । यम – यमयितः । सूर्य – सुष्टु ईरयति रश्मीन् इति सूर्यः । प्राजापत्य – प्रजापतेः पुत्र ! व्यूह रश्मीन् समूह तेजः । तावकान् रश्मीन् व्यूह अपगमय । तेजः समूह – संक्षिप । किमर्थम् इत्यत्राह – यत्ते रूपं कल्याणतमं तत्ते पश्यामि । तेजसां संक्षेपाभावे तव रूपं दुर्दर्शमिति भावः ।

योऽसावसौ पुरुषस्सोहमस्मि । आत्मा यादृग्रूपः; तादृग्रूपोऽहमस्मि; तादृग्रूपतया ‘वेद्मि । आत्मतत्त्वविदस्मि इत्यर्थः ।वायुरनिलममृतमथेदं भस्मान्तं शरीरम् । अर्चिरादिना गतस्य मे प्राणवायुः वायो लीयताम् । मृतञ्चेदं शरीरं भस्मान्तञ्च भवतु । ततश्च देहेन्द्रियादिषु आत्माभिमानी नाहमस्मि । तद्विलक्षणात्मज्ञानवान् इत्यर्थः ।

ओं क्रतो स्मर कृतं स्मर । ओमिति प्रणवप्रतिपाद्यत्वात् आदित्यस्य संबोधनम् । क्रतोःअधीगर्थदयेशां कर्मणि (पा.सू.२-३-५२) इति कर्मणि षष्ठी – क्रतुम् उपास्तिमनुष्ठितां स्मर । तदङ्गतया कृत – कर्मापि स्मर । अहं देहविलक्षणात्मज्ञानी कर्माङ्गकब्रह्मविद्यानिष्ठश्च । अतः त्वत्स्वरूपं प्रदर्शय; मुक्तिमार्गश्च प्रयच्छ इत्यर्थः ।

अर्चिरादिप्रथमपर्वाग्निप्रार्थनामन्त्रः । अग्ने नय…… विद्वान् । हे अग्ने! सुपथाशोभनैनार्चिरादिमार्गेण राये – ऐश्वर्याय स्वाराज्याय – मोक्षायेति यावत् – अस्मान् नयप्रापय । हे देव – द्योतमान ! विश्वानि वयुनानि सर्वाणि ज्ञानानि विद्वान् भवसि ।

अतो मदीयमपि आत्मज्ञानं त्वं जानासि इत्यर्थः । युयोध्यस्मज्जुहुराणमेनः युयोधिअपनय । अस्मत् – अस्मत्तः । जुहुराणं – कुटिलम् । हुर्च्छा कौटिल्ये (धा.पा.२११) इत्यस्मात् कानचि रूपम् । एन: – पापं युयोधि इत्यन्वयः । भूयिष्ठां – भूयसी नम उक्तिं ते करवाम इत्यर्थः ।। १ ।।

।। इति सप्तमाध्याये पञ्चदश ब्राह्मण प्रकाशिका ।।

।।समाप्तश्च सप्तमोऽध्यायः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.