श्रीः ।।
केनोपनिषत्
(तलवकारोपनिषत्)
[सामवेदशान्तिपाठः]
ओम् आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्व ब्रह्मो (ह्मौ) पनिषदम् । माऽहं ब्रह्म निराकुर्याम् । मा मा ब्रह्म निराकरोत् । अनिराकरणमस्तु । अनिराकरणं मेऽस्तु, तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सुन्तु ते मयि सन्तु।
ओं शान्तिः शान्तिः शान्तिः ।
* * * * *
प्रथमखण्डः
हरिः ओम् ।
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उ देवो युनक्ति ।१।।
श्रीरङ्गरामानुजमुनिविरचिता
प्रकाशिका
येनोपनिषदां भाष्यं रामानुजमतानुगम् ।
रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ।
मङ्गलाचरणं प्रतिज्ञा च
अतसीगुच्छसच्छायमञ्चितोरसंस्थलं श्रिया।
अञ्जनाचलश्रृङ्गारमञ्जलिर्मम गाहताम् ।।
व्यासं लक्ष्मणयोगीन्द्र प्रणम्यान्यान् गुरूनपि ।
व्याख्यां तलवकारोपनिषदः करवाण्यहम् ।
अचेतनप्रेरकस्वरूपनिरूपकप्रश्नाः
परमात्मस्वरूपं प्रश्नप्रतिवचनरूपप्रकारेण प्रकाशयितुं प्रस्तौति- ‘केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उ देवो युनक्ति’ । मनः केन वा (?) प्रेषितम् – प्रेरितं सत् स्वविषये प्रवर्तत इति भावः ।। इषितम् – इष्टम्; मतम् । प्राणानां मध्ये प्रथमः प्राणः – मुख्यः प्राणः केन प्रेरितस्सन् प्रैति – प्रकर्षण सञ्चरति । तथा, केन वा प्रेरिताम्’ इमां वाचम् – वागिन्द्रियमवलंब्य व्यवहरन्ति लोकाः । तथा चक्षुःश्रोत्रयोश्च कः प्रेरकः? अचेतनानामेषां चेतनाप्रेरितानां कार्यकरत्वासम्भवात् इति गुरुमुपेत्य शिष्यः पप्रच्छ इत्यर्थः ।।
श्रोत्रस्य श्रोत्रं मनसो मनो यत् वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ।२।
गुरोःप्रतिवचनम्
गुरुः प्रतिवक्ति – श्रोत्रस्य श्रोत्रं…..भवन्ति। चक्षुरादीनां प्रकाशकं चक्षुराद्यनधीनप्रकाशम् अप्राणाधीनप्राणनञ्च यत् स उ – स एव इत्येवम् अतिमुच्य – ज्ञात्वा अस्माल्लोकात् – अर्चिरादिना मार्गेण गत्वा मुक्ता भवन्ति इत्यर्थः ।।
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः।
न विद्मो न विजानीमो यथैतदनुशिष्यात् । ३।।
तदेव प्रपञ्चयति – न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः। तर्हि तत् कथमुपदेष्टव्यम्’ इत्यत्राह-न विद्मो न विजानीमः यथैतदनुशिष्यात्-किं तदिति पृष्ट आचार्यः, ‘नान्तरिन्द्रियेण न बहिरिन्द्रियेण च ज्ञेयं तत्’ इत्येव तदुपदिशेत् ।
अन्यदेव तद्विदितादथो अविदितादधि।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ।४।
ब्रह्मणः विदिताविदितविलक्षणत्वम्
ननु तस्य सर्वात्मना ज्ञानाविषयत्वे तुच्छत्वं स्यात्; ब्रह्मजिज्ञासया गुरूपसदनादिकञ्चन स्यादित्यत्राह-‘अन्यदेव तत् विदितादथो—–तद्व्याचचक्षिरे’। ये-अस्माकं पूर्वे गुरवः ब्रह्मोंपादिशन्, तेषाम्-‘सर्वात्मना विदितादपि विलक्षणं सर्वात्मना अविदितादपि विलक्षणम् एवं रूपं ब्रह्म’ इति ईदृशीं वाचं वयं श्रुतवन्तः इत्यर्थः ।
यद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते।५।
वागादि इन्द्रियप्रकाशकं ब्रह्म
एतदेव प्रपञ्चयति – ‘यत् वाचाऽनभ्युदितं……नेदं यदिदमुपासते’। वागादिभिर्यदप्रकाश्यं स्वयं वागादि इन्द्रियप्रकाशकञ्च, तदेव ब्रह्म’ इति जानीहि ।।
यद्वस्तु इदम् इति इदङ्कारगोचरतया हस्तामलकवत् सुविदिततया उपासते जनाः, तत् ब्रह्म न इत्यर्थः । एवम् उत्तरत्रापि ।
यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । ६।
अत्र रङ्गरामानुजभाष्यम् नास्ति
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । ७।
‘यच्चक्षुषा न पश्यति येन चक्षुषि पश्यति’। येन परमात्मना साधनेन पुमान् इतरत् पश्यति इत्यर्थः ।
यत् श्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते।८।
अत्र रङ्गरामानुजभाष्यं नास्ति
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।९।।
‘यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते’ – प्रणीयते – प्राणिति इत्यर्थः ।।
प्रथमखण्डः समाप्तः
*****
द्वितीयखण्डः
यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं यदस्य देवेषु अथ नु मीमांस्यमेव ते मन्ये विदितम् ।१।।
शिष्यं प्रत्याचार्य आह – ‘यदि मन्यसे सुवेदेति……..अथ नु मीमांस्यमेव ते’। ‘अहं ब्रह्मस्वरूपं सुष्टु वेद’ इति यदि मन्यसे; न तत् तथा । अस्य ब्रह्मणः इह लोके यदपि रूपं त्वं वेत्थ, तन्नूनं दभ्रमेव अल्पमेव । देवेषु यद्रूपं त्वं वेत्थ, तदपि दभ्रमेव – अल्पमेव।। , त्वया ज्ञातं सर्वं ब्रह्मणो रूपम् अल्पमेव; न सर्वं ब्रह्मरूपं त्वया ज्ञातम् । अतःपरमेव ते ब्रह्म विचार्यम् ; नातः पूर्वं सम्यग्विचारितम् इत्यर्थः । एतद्वाक्यं श्रुत्वा, सम्यविचार्य शिष्य आह – ‘मन्ये विदितम्’ – अहं विदितमेव मन्ये ।।
नाहं मन्ये सुवेदेति नो न वेदेति वेद च।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ।२।।
कथमित्यत्राह – नाहं मन्ये सुवेदेति नो न वेदेति वेद च। अहम् – सम्यग्वेद इत्यपि न मन्ये; न वेदेत्यपि न। अपि तु वेदैव। ततश्च कात्र्सून्येन ज्ञातत्वमज्ञातत्वञ्च नास्ति; किञ्चित्ज्ञातत्वमस्तीत्यर्थः । ‘यो नस्तद्वेद तद्वेद नो न वेदेति वेद च नः-अस्माकं ब्रह्मचारिणां मध्ये तत् – ‘नो न वेदेति वेद च’ इति निर्दिष्टं तत् अर्थतत्वं यो वेद, सः तद्ब्रह्म वेद इत्यर्थः ।।
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् । ३।।
ब्रह्मणः कृत्स्नज्ञानमानिनामज्ञत्वम्
यस्यामतं तस्य मतं मतं यस्य न वेद सः। यः (यस्तु) परिच्छिन्नत्वेन ब्रह्म न मनुते, स ब्रह्म मनुते । यस्तु परिच्छिन्नत्वेन ब्रह्म मनुते, स तु न जानाति इत्यर्थः । अविज्ञातं विजानतां विज्ञातमविजानताम् – ब्रह्म एतावत् इति परिच्छेदज्ञानवतां ब्रह्माऽविज्ञातं भवति; परिच्छिन्नत्वज्ञानशून्यानां ब्रह्म विज्ञातं भवति इत्यर्थः ।।
उक्तञ्च भगवता भाष्यकृता – ‘यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह’ (तै.उ.आ.9) इति ब्रह्मणोऽनन्तस्य अपरिमितगुणस्य वाङ्मनसयोः ‘एतावत्’ इति परिच्छिदायोग्यत्वश्रवणेन ‘ब्रह्म एतावत्’ इति ब्रह्मपरिच्छेदज्ञानवतां ब्रह्म अविज्ञातम् अमतम् इत्युक्तम्; अपरि छिन्नत्वात् ब्रह्मणः । अन्यथा ‘यस्यामतं तस्य मतम्’, ‘विज्ञातमविजानताम्’ इति तत्रैव मतत्व-विज्ञातत्ववचनं विरुद्ध्येत इति । ततश्च अविज्ञातत्वादिवचनं’ कात्र्सून्येन ज्ञानाविषयत्वपरम्; न तु सर्वात्मना ब्रह्मणः ज्ञानागोचरत्वपरम् इति द्रष्टव्यम् । तथाहि सति, ‘ब्रह्मविदाप्रोति परम्’ (तै.उ.आ.1), ‘तमेव विदित्वाऽतिमृत्युमेति’ (श्वे.उ.3.8) इत्यादि शास्त्राणाम् असंगतार्थकत्वप्रसङ्गात्, वेदान्तानां नैरर्थक्यप्रसंगाच्च ।।
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ।४।
अमृतत्वप्राप्तिप्रकारः
प्रतिबोधविदितं मतममृतत्वं हि विन्दते । प्रतिनियतो बोधः प्रतिबोधः। सत्यत्व – ज्ञानत्व – अनन्तत्वादिरूपासाधारणधर्मविशिष्टतया ज्ञातम् अमृतम् – ब्रह्मस्वरूप, तत्क्रतुन्यायेन स्वोपासकस्याप्यमृतत्वं विन्दते – लम्भयति इत्यर्थः । अन्तर्भावितण्यर्थः अयं विदिधातुः । लम्भनप्रकारमेवाह – आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् । ‘स नो देवः शुभया स्मृत्या संयुनक्तु’ (तै.ना. 84.) इत्युक्तरीत्या विद्यानिष्पत्त्यनुकूलं वीर्य प्रसन्नेन परमात्मना लभते प्रसन्नपरमात्माऽऽहितवीर्यार्जितया विद्यया अमृतत्वम् अश्नुत इत्यर्थः ।।
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ।५।।
ब्रह्मणः इहैव अवश्यवेद्यत्वम्
तादृशब्रह्मज्ञाने त्वराम् उत्पादयति – ‘इह चेदवेदीदथ सत्यमस्ति; न चेदिहावेदीत्, महती विनष्टिः’। इहैव जन्मनि, ब्रह्म ज्ञातवांश्चेत्, अथ – समनन्तरमेव अस्ति – सन् भवति । सत्य (अत्र) ज्ञानाभावे आत्मनोऽसत्ता भवति; ‘असन्नेव स भवति असत ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः’ (तै.आ.6) इति श्रुत्यनुरोधात् इति द्रष्टव्यम् । ‘भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति । भूतेषु भूतेषु – सर्वभूतस्थं परमात्मानं प्रज्ञाशालिनः’ स्वेतरसमस्तविलक्षणत्वेन निर्धार्य. अस्माल्लोकात् – अर्चिरादिमार्गेण परमात्मानं प्राप्य मुक्ता भवन्ति इत्यर्थः ।
द्वितीयखण्डः समाप्तः
* * * * *
तृतीयखण्डः
ब्रह्म ह देवेभ्यो विजिग्ये। तस्य ह ब्रह्मणो विजये देवा अमहीयन्त।
त ऐक्षन्त, अस्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।१।।
सुरविजय आख्यायिका
आत्मना विन्दते वीर्यम् – इत्युक्तार्थे आख्यायिकामाह -‘ब्रह्म ह देवेभ्यो विजिग्ये’ । परमात्मा देवानामनुग्रहार्थमसुरादीन्, शत्रून् विजितवान् । ‘तस्य ह ब्रह्मणो’ विजये देवा अमहीयन्त’ । ब्रह्मकर्तृकविजये सति देवाः पूजिता अभवन् । ‘त ऐक्षन्त अस्माकमेवायं विजयोऽस्माकमेवायं महिमेति’। देवाः, अयमसुरविजयोऽस्मकर्तृक एव, तदनुकूलसामर्यादिकमपि अस्मदीयमेव इत्यमन्यन्त ।।
तद्धेषां विजज्ञौ । तेभ्यो ह प्रादुर्बभूव ।
तन्न व्यजानत(न्त) किमिदं यक्षमिति ।२।।
यक्षावतारः
‘तद्वेषां विजज्ञौ । तादृशं तेषाम् अभिमानं परमात्मा ज्ञातवान् इत्यर्थः । ‘तेभ्यो ह प्रादुर्बभूव’-तेषां देवानाम् अनुग्रहार्थं तत् ब्रह्म यक्षरूपं प्रादुर्भूतम् । तन्न व्यजानत किमिदं यक्षमिति – एतत् यक्षस्वरूपं किमिति ते देवा न व्यजानत – न ज्ञातवन्त इत्यर्थः’ ।।
तेऽग्निमब्रुवन्, जातवेदः! एतद्विजानीहि किमेतद्यक्षमिति! तथेति । तदेभ्यद्रवत् ।
तमभ्यवदत् कोऽसीति । अग्निर्वा अहमस्मीत्यब्रवीत्, जातवेदा वा अहमस्मीति।।३,४।।
अग्नेः ब्रह्मणा समागमः
‘तेऽग्निमब्रुवन्………किमेतद्यक्षमिति’ । जातवेदः एतद्विजानीहि किमेतद्यक्षमितीत्युक्तवन्तः । तथेति । तदभ्यद्रवत्………….. जातवेदा वा अहमस्मीति’ । तथेति स यक्षसमीपं गतः तेन कोऽसीति पृष्टः, अग्निः, जातवेदाः इति प्रसिद्धं नामद्वयमुक्तवान् इत्यर्थः ।।
तस्मिंस्त्वयि किं वीर्यमिति । अपीदं सर्वं दहेयम्, यदिदं पृथिव्यामिति । तस्मै तृणं निदधौ, एतद्दहेति। तदुपप्रेयाय सर्वजवेन । तन्न शशाक दग्धुम् । स तत एव निववृते, नैत (नैन) दशकं विज्ञातुम्, यदेतद्यक्षमिति ।।५,६।।
तृणदहनासामर्थ्यम् अग्नेः
‘तस्मिंस्त्वयि किं वीर्यमिति । अपीदं सर्वं दहेयं यदिदं पृथिव्यामिति’। तव क्व। सामर्थ्यमस्तीति यक्षेण पृष्टोऽग्निः पृथिव्यन्तर्वर्तिसकलदाहसामर्थ्यम् अस्तीति उक्तवान् ।।
‘तस्मै………..स तत एव निववृते। तर्हिदं तृणं दहेति यक्षेण उक्तः, सर्वेण जवेन । तत्समीपं गतः, दग्धुमसमर्थों निवृत्त इत्यर्थः । उपप्रेयाय – समीपं गत इत्यर्थः । नैतदशकं विज्ञातुं यदेतद् यक्षमिति’। एवं देवान् प्रति उक्तवानिति शेषः । एवमुत्तरत्रापि ।।
अथ वायुमब्रुवन्, वायवेतद्विजानीहि किमेतद्यक्षमिति! तथेति ।७।।
तदभ्यद्रवत् । तमभ्यवदत्, कोऽसीति? वायुर्वा अहमस्मीत्यब्रवीत्,
मातरिश्वा वा अहमस्मीति । ८।
तस्मिंस्त्वयि किं वीर्यमिति । अपीदं सर्वमाददीयं, यदिदं पृथिव्यामिति ।९।
तस्मै तृणं निदधौ एतदादत्स्वेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाकाऽऽदातुम् । स तत एव निववृते, नैत (नैन) दशकं विज्ञातुं, यदेतद्यक्षमिति ।१०।
अत्र रङ्गरामानुजभाष्यं नास्ति
अथेन्द्रमब्रुवन्, मघवन्नेतद्विजानीहि किमेतद्यक्षमिति । तथेति तदभ्यद्रवत् । तस्मात् तिरोदधे । ११ ।
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम् । तां होवाच किमेतद्यक्षमिति । १२।।
उमाविर्भावः इन्द्रस्य यक्षविषयक प्रश्नश्च
तस्मात्तिरोदधे। तस्मात् मघोनस्सन्निधेः, एतस्य गर्वभङ्गो मा भूदिति तिरोहितम् अभवत्। इत्यर्थः । तस्मिन्नेवाकाशे स्त्रियमाजगाम बहशोभमानाम् उमां’ हैमवतीम्। तां होवाच किमेतद्यक्षमिति । तस्मिन्नेव प्रदेशे हिमवत्पुत्रीं बहुभिराभरणैः शोभमानां पार्वतींसर्वज्ञामिन्द्रानुग्रहाय प्रादुर्भूतां दृष्ट्वा तत्समीपमागत्य, इयं सर्वं जानाति इति मन्यमानः, किमेतत् यक्षमिति पप्रच्छ इत्यर्थः ।
तृतीयखण्डःसमाप्तः
******
चतुर्थखण्डः
सा ब्रह्मेति होवाच, ब्रह्मणो वा एतद्विजये महीयध्वम् इति ।
ततो हैव विदाञ्चकार ब्रह्मेति ।१।।
असुरविजयः परमात्माधीनः
‘ब्रह्मेति होवाच, ब्रह्मणो वा एतद्विजये महीयध्वम्’ इति । ब्रह्मैव यक्षरूपेण युष्मन्मोहशमनाये प्रादुर्भूतम् । अतो ब्रह्मसम्बन्धिनि विजये निमित्ते पूजां प्राप्नुत । अस्माभिरेव विजयः कृत इति दुरभिमानः त्यक्तव्यः इत्यर्थः । ततो हैव विदाञ्चकार ब्रह्मेति । तदुपदेशादेव ब्रह्मेति ज्ञातवान् इत्यर्थः ।।
तस्माद्वा एते देवा अतितरामिवान्यान् देवान्। यदग्निर्वायुरिन्द्रः । ते ह्येनन्नेदिष्ठं पस्पृशुः । ते (स) ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ।२।।
अग्निवाय्विन्द्राणाम् अतिशायित्वम्
तस्माद्वा एते देवा अतितरामिवान्यान् देवान्, यदग्निर्वायुरिन्द्रः। ते ह्येनन्नेदिष्ठं पस्पृशुः । ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति – तस्मादेव हेतोः एत एवाग्निवाय्विन्द्राः इतरान् देवान् अतिशेरत इव। इव शब्दः एवार्थः। अतिशेरत एव इत्यर्थः । यस्माद्धेतोः नेदिष्ठम्’- समीपे वर्तमानं तत् ब्रह्म, पस्पृशुः – दृष्टवन्तः, यतश्च हेतोः प्रथमो विदाञ्चकार – प्रथमास्सन्तो ब्रह्मेति विदाञ्चक्रुः; अत एवैते देवतान्तरापेक्षया अग्निवाय्विन्द्राः अतिशयितवन्तः इत्यर्थः ।। वचनव्यत्ययः’ छान्दसः ।
तस्माद्वा इन्द्रोऽतितरामिवान्यान् देवान् ।
स ह्येनन्नेदिष्ठं पस्पर्श। स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति । ३।।
अग्निवाय्वपेक्षया इन्द्रस्य अतिशायित्वम्
‘तस्माद्वा इन्द्रोऽतितरामिवान्यान् देवान् । स ह्येनन्नेदिष्ठं पस्पर्श । स ह्येनत् प्रथमो | विदाञ्चकार ब्रह्मेति’ । अग्निवाय्विन्द्राणां मध्ये यस्मादिन्द्रः सन्निहितं ब्रह्म दृष्टवान्, सर्वेभ्यः पुरस्तात् पार्वतीमुखात् इदं ब्रह्मेति ज्ञातवान्, अतः सर्वातिशायीत्यर्थः ।।
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा इति,
इन्न्यमिष (मीमिष)दा इत्यधिदैवतम् ।४।।
विद्युदादिवत् ब्रह्मणः आविर्भावतिरोभावौ क्षणिकौ
तस्यैष आदेशः । तस्य – आविर्भूतस्य’ सद्यस्तिरोभूतस्य ब्रह्मण एष आदेश: वक्ष्यमाण उपमानोपदेश इत्यर्थः । यदेतत् विद्युतो व्यद्युतदा’ इति । यथा विद्युतो विद्योतनं क्षणिकम, तद्वत इत्यर्थः । आ इति प्रसिद्धौ। उपमानान्तरमाह – इन्न्यमि (मीमि)षदा इति अत्रापि आ इत्येतत् पूर्ववत् । इच्छब्दः उपमानान्तरसमुच्चयार्थः। यथा न्यमिषत (न्यमीमिषत्) निमेषः, प्रकाशतिरोभावः क्षणेन, एवं ब्रह्माऽपि तिरोऽभूत् इत्यर्थः । यथा विद्यतस्तिरोहिता भवन्ति इत्यर्थः (र्थ?) न्यममिषत् इति वचनव्यत्ययश्छन्दसः । इत्यधिदैवतम् – अनात्मभूताकाशादिगतविद्युद्विषयं ब्रह्मण उपमानदर्शनमुक्तम् इत्यर्थः ।
अथाध्यात्मम्, यदेत (न)दगच्छतीव च मनो न
(मनोऽनेन) चैन(त) दुपस्मरत्यभीक्ष्णं सङ्कल्पः ।५।।
ब्रह्मध्यानानुवृत्तिरदु:शका
अथाध्यात्मम् – अनन्तरं देहस्थो दृष्टान्त उच्यत इत्यर्थः । यदेतत् गच्छतीव च मनः। – एतत् ब्रह्म मनो गच्छतीव। ब्रह्मविषयकमनोगमनमिवेत्यर्थः। यथा मनसो ब्रह्मविषयीकरणं न चिरस्थायि, एवमेव यक्षस्य ब्रह्मणः प्रकाशोऽपि इत्यर्थः। मनसा ब्रह्मविषयीकरणं क्षणिकमेव; न चिरानुवृत्तमिति दर्शयति – न चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः – न हि मनोजनित सङ्कल्पो ध्यानविशेषः।अभीक्ष्णम् – चिरम् एतद्ब्रह्मोपस्मरति; न विषयीकरोति इत्यर्थः। ततश्च ‘यथा ब्रह्मणो मनसा विषयीकरणं न चिरानुवृत्तम्, एवं यक्षस्य ब्रह्मणः प्रादुर्भावोऽपि न चिरानुवृत्तः । अत्र दृष्टान्तोक्तिव्याजेन ‘ब्रह्मध्यानानुवृत्तिर्दु:शका’ इति दर्शितं भवति ।।
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यम् ।
स य एतदेवं वेद, अभि हैनं सर्वाणि भूतानि संवाञ्छन्ति । ६।
ब्रह्म वननीयम्’ इति उपासनप्रकारः
तद्ध तद्वनं नाम; तद्वनमित्युपासितव्यम् । एतादृशमहिमविशिष्टं तत् ब्रह्म सर्वैरपि जनैः वननीयत्वेन प्रार्थनीयत्वेन वननामकं भवति । तस्मात् तत् ब्रह्म वनम् इत्युपासितव्यम् इत्यर्थः । वनत्वेनोपासनस्य फलमाह – स य एतदेवं वेद, अभि हैनं सर्वाणि भूतानि संवाञ्छन्ति। सर्वैरपि प्रार्थनीयो भवति इत्यर्थः ।।
उपनिषदं भो ब्रूहीति । उक्ता त उपनिषत् ।
ब्राह्मीं वाव त उपनिषदमब्रूमेति ।७।।
एवम् आत्मना विन्दते वीर्यम् इत्यर्थे स्थिते सति, वीर्यावाप्तिहेतुभूतभगवदनुग्रहसाधनप्रतिपादिकाम् उपनिषदं पृच्छति उपनिषदं भो ब्रूहीति’ । इतर आह – उक्ता त उपनिषत्ब्राह्मीं वाव त उपनिषदमब्रुमेति । ब्रह्मप्रतिपादिकां प्रधानोपनिषदमवोचाम। अतः प्रधानोपनिषदुक्तैव। साधनप्रतिपादिकाञ्चोपनिषदं वक्ष्यामि, यदि शुश्रूषसे इति भावः।।
तस्यै तपो दमः कर्मेति प्रतिष्ठा; ।
वेदाः सर्वाङ्गानि सत्यमायतनम् ।८।
तस्यै तपो दमः कर्मेति प्रतिष्ठा । तस्यै – उक्तायै उपनिषदे । साधनभूतानि कायशोषणलक्षणं तपः, इन्द्रियनिग्रहरूप उपशमः, अग्निहोत्रादिलक्षणं कर्म च उपनिषच्छब्दिताया ब्रह्मविद्यायाः प्रतिष्ठा – दाढर्यहेतुः । वेदाः सर्वाङ्गानि सत्यमायतनम् – षडङ्गसहिताश्च वेदाः सत्यवदनञ्च ब्रह्मविद्योत्पत्तिकारणम् इत्यर्थः।।
यो वा एतामेवं वेद, अपहत्य पाप्मानमनन्ते ।
स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ।९।
ब्रह्मविद्याफलम्
यो वा एतामेवं वेद – एतां ब्रह्मविद्यामुक्तविधप्रतिष्ठायतनोपेतां यो वेद, अपहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति स सर्वाणि पापानि विधूय कालपरिच्छेद शून्ये ज्येये – ज्यायसि ज्येष्ठे सर्वोत्तरे स्वर्गे लोके – वैकुण्ठे लोके प्रतिष्ठितो भवति इत्यर्थः । अनन्तज्येयपदसमभिव्याहारात् स्वर्गलोकशब्दो भगवल्लोकपरः ।
क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः।
वामागमाध्वगवदावदतूलवातो रामानुजःस मुनिराद्रियतां मदुक्तिम् ।।
इति श्रीमत्तातयार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपादसेवासमधिगतशारीरकमीमांसाभाष्यहृदयस्य
परकालमुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गामानुजमुनेः कृतिषु केनोपनिषद्भाष्यम् ।
इति चतुर्थखण्डः
श्रीरस्तु
उत्तरशान्तिपाठः
ओम् आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ओं शान्तिः शान्तिः शान्तिः ।
केनोपनिषत् समाप्ता