माण्डूक्योपनिषत्-कूरनारायणमुनि

माण्डूक्योपनिषत्

कूरनारायणमुनिभाषितम्

।। श्रीः ।।
माण्डूक्योपनिषत्

(अथर्ववेदीयोपनिषच्छान्तिपाठः)
ओम्
भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।
।। ओं शान्तिः शान्तिः शान्तिः ।।

देवा: – हे देवाः ! भद्रम् – कल्याणम् (वेदाख्यं, साङ्गेतिहासपुराणम्), कर्णेभिः – श्रोत्रैः शृणुयाम – श्रोतुं, समर्था भवेम । यजत्राः – हे यजत्राः ! यजन्तं त्रायन्ते रक्षन्तीति यजत्राः, यजमानपालका: अक्षभिः – नेत्रैः, भद्रम् – कल्याणम्, पश्येम – द्रष्टुं समर्था भवेम । स्थिरैः – दृढै:, अङ्गैः – करचरणाद्यवयवैः, तथा तनूभिः – शरीरैः, युक्ताः, तुष्टुवांसः – भवतः स्तुवन्तः (वयम्), देवहितम् – देवैः स्थापितं देवानां हितं देवोपासनयोग्यं वा, यदायुः शतप्रमाणमायुः इति शतप्रमाणमायुः, व्यशेम – प्राप्नुयाम ।

पूर्वत्र प्रत्यक्षेण प्रार्थिता देवाः । अत्र तु परोक्षेण निर्दिश्य एकैकशः प्रार्थ्यन्ते । न: – अस्माकं, वृद्धश्रवाः – वृद्धश्रवणः, सदा श्रोत्रश्रवणात्, यद्वा वृद्धः महात्मभिः सदा श्रूयते इति वृद्धश्रवाः, इन्द्रः – इन्द्रः, स्वस्ति – कल्याणं दधातु – विदधातु । तथा विश्ववेदाः – विश्वैः विद्यते ज्ञायते लभ्यते वेति विश्ववेदाः – यद्वा विश्वानि ज्ञानानि धनानि वा यस्येति बहुव्रीहिः पूषा – सूर्यः

 न: – अस्माकं स्वस्ति – कल्याणं दधातु – विदधातु; एवम् अरिष्टनेमिः – अनुपक्षीणनेमिः, प्रथिनेमिः, तार्क्ष्यः – तार्क्ष्यों नाम छन्दोमयो रथ: यः, विहगराजो वा, न: – अस्माकं, स्वस्ति कल्याणम्, दधातु – विदधातु । बृहस्पतिः – देवगुरुश्च, नः, अस्माकं, स्वस्ति – कल्याण
दधातु – विदधातु’ ।।

प्रथमः खण्डः

[प्रणवशब्दवाच्यः परमात्मा]

हरिः ओम् । ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानम् । भूतं भवद्

भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं, तदप्योंङ्कार एव ।। १ ।।

मुमुक्षोरधिकारिणो निखिलक्लेशनिवृत्तिपूर्वकं परमानन्दावाप्तये समस्तव्यस्त-प्रणवप्रतिपाद्यभगवदुपासनं वक्तुं प्रवृत्तेयं आदौ समस्तप्रणवप्रतिपाद्यं तावदाह – ओमित्येतदिति ।  एतदिति श्रवणाद्यदित्यन्वेति । ओमिति, उक्तमिति शेषः । ओतं जगदस्मिन्निति व्युत्पत्त्या ओमित्युक्तं यद् ब्रह्म तदक्षरं सत्यं इदंशब्दवाच्यस्य सर्वस्य चिदचिदात्मकप्रपञ्चस्याक्षरे ओतत्वात्सर्वम् । केन निमित्तेनोंङ्कारवाच्यं ब्रह्माक्षर- मुच्यत इत्यतो न क्षरतीत्यक्षरमिति व्युत्पत्त्या कालत्रयेप्येकप्रकारतया नित्यत्वेनेति भावेन प्रतिज्ञापूर्वकं प्रवृत्तिनिमित्तमाह- तस्येति । विशिष्य आख्यायतेऽनेनेति व्याख्यानं प्रवृत्तिनिमित्तं तस्य ओमित्येतत्प्रतिपाद्यस्याक्षरशब्दार्थत्वे उपपन्नं व्याख्यानमुच्यत इत्यर्थः । तत्किमित्यत आह – भूतमिति । ओमित्युक्तं ब्रह्म भूतं – अतीतकालेऽपि विद्यमानं, भवत् – वर्तमानकालेऽपि सत्, भविष्यत् – आगामिकालेऽपि सत् । शश्वदेकप्रकारमिति यावत् । अतोऽक्षरमुच्यत इत्यर्थः । इति शब्दस्योपव्याख्यानमित्यन्वयः । यदक्षरस्य सर्वत्वमुक्तं तदन्यस्याऽप्यस्ति किमित्यतो नेत्याह – सर्वमिति । ओमित्याक्रियते प्रतिपाद्यत इत्योङ्कारः । कृत् कर्मणि घञ् । अचो ञ्णिति (पा,सू. 7-2-25) इति वृद्धिः । घञन्ताः पुँसि (लिङ्गान्) इति पुल्लिङ्गता । ओमित्युच्यमानमक्षरमेव सर्वं ; न त्वन्यदित्यर्थः। भूतमित्यादिनोक्तं शश्वदेकप्रकारत्वरूपं कालत्रयातीतत्वमक्षरपदप्रवृत्तिनिमित्तमपि नान्यस्येत्याह – यच्चान्यदिति। कालत्रयकृतविकारातीतं यदन्यद्वस्त्वस्ति तदप्योंङ्कार एव ओमित्युच्यमानमक्षराख्यं ब्रह्मैव । न ततोऽन्यत्तादृशमित्यर्थः ।। 1 ।।

[नादात्मकः पादचतुष्टययुक्तः परमात्मा]

सर्वं ह्येतद् ब्रह्म; अयमात्मा ब्रह्म।

 सोऽयमात्मा चतुष्पात् ।। २ ।।

॥ इति प्रथमः खण्डः ।।

सर्वमोङ्कार एवेत्यत्र ओं पदवाच्यस्य ब्रह्मणः पूर्णत्वमुक्तम् । तत्कुत इत्याशङ्कां प्रमाणसूचनेन निराकृत्याह – सर्वं ह्येतद्ब्रह्मेति । एतत् – ओङ्कारपदवाच्यमक्षराख्यं ब्रह्म सर्वं पूर्णं हि । परमं यो महद्ब्रह्म (स.ना.पू.पी. 8) तदेतद्ब्रह्म परमं कवीनां, पूर्णमदः पूर्णमिदम् (बृ.उ.-7-1-1) इत्यादिषु प्रसिद्धमित्यर्थः। ननु जीवानामपि क्रियासु स्वातन्त्र्यानुभवेन तत्रापि कश्चिदस्ति नियन्तेत्यत आह – अयमिति । ब्रह्मादिष्वादानकर्तृतया स्थितोऽप्यात्मा अयं ब्रह्म प्रागुक्त ओम्पदवाच्यं ब्रह्मैव,  न त्वन्यः कश्चिदित्यर्थः । इति समस्तप्रणवप्रतिपाद्योक्तिः । एवं समस्तप्रणवप्रतिपाद्यमुपासनार्थं निरूप्येदानीं तस्यैकदेशैरकारोकारमकारनादैः प्रतिपाद्यानां विश्वादिभगवद्रूपाणामुपासनं अकारउकारोमकार इत्यादिना तृतीयखण्डे वक्तुं तानि रूपाण्याह – सोऽयमिति । सोऽयं समस्त ओम् पदवाच्योऽक्षरनामा ब्रह्मादिषु नियामकतया स्थित आत्मा चतुष्पात् चत्वारः पादाः अंशा स्वरूपभूता यस्य स चतुष्पात् । पादपदस्य संख्यासुपूर्वस्य (पा.सू. 5-4-140) इत्यन्तलोपः । सर्वजीवनियामकतया तत्तद्देहेषु चतूरूपतया तिष्ठतीत्यर्थः ।। 2 ।।

द्वितीयः खण्डः

[वैश्वानरात्मकः ओंकारस्य प्रथमपादः]

जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुख: स्थूलभुग्वैश्वानरः प्रथमः पादः ।।१।।

कानि तेषां स्थानानि ? कश्च व्यापारः ? कीदृशानि तानि रूपाणि ? किं तेषां भोग्यम् ? कानि नामानीत्यतस्तत्सर्वं क्रमेणाह – जागरितेति । यत्र स्थित्वा जागर्ति तच्चक्षुर्जागरितम् । अधिकरणे क्तप्रत्ययः । तदेव स्थानं यस्य स जागरितस्थानः । चक्षुःस्थान इत्यर्थः । बहिःप्रज्ञः – बहिश्शब्दोदित- बाह्यार्थान् प्रज्ञापयति जानाति चेति बहिः प्रज्ञः । जानातेरन्तर्णी- तण्यर्थात्। इगुपधज्ञाप्रीकिरः कः (पा.सू. 3-1-135) इति ‘कप्रत्ययः’। आतो लोप इटि च (पा.सू.6-4-64) इत्याकारलोपः । सप्ताङ्गः – चत्वारो हस्ताः, द्वौ पादौ, गजमुखत्वाद्गजहस्त एक इति सप्ताङ्गः । एकोनविंशतिमुखः – मध्यममुखं गजमुखाकारं पार्श्वद्वयेन तु नवनवमुखानि पुरुषमुखाकाराणि इति विवेकः । स्थूलभुक् – स्थूलान् भोगान् भुङक्ते भोजयति चेति स्थूलभुक् । वैश्वानरः – विश्यते गम्यते सर्वैः ज्ञायते इति विशतेः कर्मणि व प्रत्ययः । अनेकार्थत्वाद्धातूनां विशतिरत्र मत्यर्थस्सन् ज्ञानपरः । विश्वं सर्वैर्ज्ञेयं स्थूलं वस्तूच्यते । भोक्तृतया तत्सम्बन्धी वैश्वः। न रीयते न क्षीयत इति नरः । रीङ् क्षये (धा.पा.) ड प्रत्ययः वैश्वश्चासौ नरश्चेति । नरे संज्ञायाम् (पा.सू. 6-3-129) इति सूत्रेण भाष्योक्तनिरुक्तिबलाद्वा दीर्घे वैश्वानरः । प्रथमः पादः  आत्मन इति विपरिणामेनात्रोत्तरत्र चानुषङ्गः । सर्वदेहेष्वादानकर्तृत्वेन स्थितस्यात्मनः प्रथमं रूपमित्यर्थः ।। 1 ।।

[तैजसरूप: भगवान् प्रणवस्य द्वितीय: पादः]

स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमखः प्रविविक्तभुक्  तैजसो द्वितीयः पादः ।। २ ।।

स्वप्नेति । स्वप्नस्थानः – यत्र स्थित्वा जीवः स्वप्नपदार्थान्पश्यति तत्स्वप्नस्थानम् ।  तदेवस्थानं यस्य सः, कण्ठदेशस्थ इत्यर्थः । अन्तःप्रज्ञः – अन्तःशब्दोऽत्र बाह्यार्थज्ञानजन्यवासना प्रयुक्तार्थपरः । तान्वासनाजन्यानर्थान् ज्ञापयति जानाति चेत्यन्तः प्रज्ञः । प्रज्ञ इति जानातेः कः । अत्र स्वाप्निकपदार्थानां जाग्रद्वासनाजन्यत्वोक्तिः प्रायिकत्वाभिप्राया । दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सर्वं पश्यति (प्र.उ. 4-5) इति श्रुतेः । सप्ताङ्ग एकोनविंशतिमुख इति  प्राग्वत् । प्रविविक्तभुक्- वासनाजन्यतया बाह्यार्थेभ्यो विविक्तान् स्वाप्नार्थान् भुङ्क्ते  भोजयति चेति प्रविविक्तभुक् । तेजोमयचित्तस्थतया चित्तसम्बन्धित्वेन तैजसनामा आत्मनो द्वितीयः पादः – द्वितीयं रूपमित्यर्थः ।। 2 ।।

[प्राज्ञात्मकः ओंकारस्य तृतीयः पादः]

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति, तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एव आनन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ।। ३ ।।

तृतीयपादस्य स्थानं वक्तुं स्थानस्वरूपं तावदाह – यत्रेति । यत्र देशे सुप्तः –  अज्ञानावृतः सुखरूपं भगवन्तं प्राप्त इति वा । प्राज्ञेनात्मना सम्परिष्वक्त (बृ.उ. 6-3-21) इत्यादेः कञ्चन – कमपि कामं – काम्यमानमर्थं न कामयते – न कञ्चन स्वप्नपदार्थं पश्यति । उपलक्षणमेतत् । स्वात्मानं विना किमपि न पश्यति इत्यर्थः । तत्स्थानं सुषुप्तमित्युच्यते ।  सुषुप्तमेव स्थानं यस्य सः सुषुप्तस्थानः । हृत्कर्णिकाग्रस्थ इति यावत् । एकीभूतः – वैश्वानरतैजसाभ्यां सामान्येन ज्ञानानन्दादिरूपेणैकीभावं प्राप्तः । प्रज्ञानघनः अविद्याकर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिस्सा वेष्टिता ।। (वि.पु. 6-7-61) इत्युक्तकर्मवेष्टनावृतो जीवो घन इत्युच्यते । सुषुप्तिवेलायां घनं तज्जीवस्वरूपं जानाति प्रज्ञापयति च जीवस्येति प्रज्ञानघनः । प्रपूर्वादन्तर्नीतण्यर्थात् ज्ञा अवबोधने (धा.पा. 1508) इति धातोः कृत्यल्युटो बहुलम् (पा.सू. 3-3-113) इति बहुलग्रहणात् कर्मणि ल्युटि अनादेशे प्रज्ञानः । प्रज्ञापितः घनः जीवो येन सः प्रज्ञानघन इति विग्रहः । यद्वा घनप्रज्ञ इति वक्ष्यमाणत्वादिहापि प्रज्ञानघन इत्यस्य घनप्रज्ञान इति विपरीतसमासो ध्येयः। तथात्वे त्वन्तर्नीतण्यर्थात् कर्मणि ल्युट् ।आनन्दमयः – आनन्दप्रचुरः पूर्णानन्द इति यावत् । यतो वाचो निवर्तन्ते (तै.आन. 9-1)इत्यादौ प्रसिद्धमिति हेरर्थः। आनन्दभुक् – विषयभोगान्विनैव आनन्दं भुङ्क्ते भोजयति चेति आनन्दभुक् । अतः स्थूलभुक्त्वं प्रविविक्तभुक्त्वं च नित्यपूर्णानन्दानुभवरूपस्य क्रीडारूपं इति भावः । चेतोमुखः – ज्ञानरूपमुखः । मुख इत्युपलक्षणं ज्ञानरूपसर्वावयव इत्यर्थः । एतदानन्दमयत्व, चेतोमुखत्व- रूपविशेषणद्वयं प्रागुक्तरूपद्वये  नान्तःप्रज्ञं इति वक्ष्यमाणचतुर्थरूपे च ध्येयम् । प्राज्ञः – प्रकर्षेण न ज्ञापयतीति प्राज्ञः । जीवस्वरूपातिरिक्तं बाह्यं स्वाप्नं वा किमपि न ज्ञापयतीति प्राज्ञनामक इत्यर्थः । प्रपूर्वात् नञुपपदात् अन्तर्नीतयर्थात् ज्ञाधातोः आतश्चोपसर्गे (पा,सू. 3-3-106) इति कप्रत्ययः । आत्मनस्तृतीयः पादः तृतीयं रूपम् ।। 3 ।।

[सृष्टिप्रलयकारक: भगवानेव]

एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिस्सर्वस्य । प्रभवाप्ययौ हि भूतानाम् ।। ४ ।।

एवं रूपत्रयं निरूप्य चतुर्थपादं नान्तः प्रज्ञम् इत्यादिना निरूपयिष्यन् वैश्वानरादिरूपाणामुक्तस्थानव्यापाराद्यर्थेषु श्लोकान्विवक्षुः मध्ये वक्ष्यमाणचतुर्थरूपेण सह चतुर्णां रूपाणां महिमानमाह – एष इति । एषः उक्तवक्ष्यमाणचतूरूपात्मा। एष इत्यस्याभ्यासस्तात्पर्यार्थः । तेनैषां गुणानामा- विद्यकत्वपक्षव्युदासः । सर्वेश्वरः – जाग्रदादि चतुष्टयोपलक्षितसर्ववस्तुशेषी। सर्वज्ञः – सर्वमिदं स्वरूपतः प्रकारतश्च वेत्तीत्यर्थः । अन्तर्यामी – अन्तर्नियन्ता । सर्वस्य योनिः- कारणमित्यर्थः । अस्य विवरणं – प्रभवाप्ययौ हि भूतानामिति । हि – यस्मात्  प्रभवाप्यवौ हेतुः अतस्सर्वस्य योनिरित्यर्थः ।। 4 ।।

[तुरीयस्य वासुदेवस्य निरूपणम्]

उपनिषत्

नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं नप्रज्ञं नाप्रज्ञं अदृष्टमव्यवहार्यमग्राह्यम

लक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं

मन्यन्ते । स आत्मा । स विज्ञेयः ।। ५।।

।। इति द्वितीयः खण्डः ।।

चतुर्थपादमात्मन आह – नान्तरिति । अन्तःप्रज्ञापयतीत्यन्तःप्रज्ञः, स्वप्नार्थप्रदर्शकः । स नेत्यर्थः। न बहिःप्रज्ञं जाग्रदर्थप्रदर्शको न भवति । नोभयतःप्रज्ञं – बाह्यशब्दादिकं जानन् स्वाप्नार्थांश्च यदा पश्यति, साऽपि काचिद्दशा उभयत इत्यनेन गृह्यते । उभयतः बाह्याभ्यन्तररूपार्थान् प्रज्ञापयतीति उभयतःप्रज्ञम् ।स नेति नोभयतःप्रज्ञम् । एतद्दशाव्यापारो विश्वतैजसाख्येश्वररूपद्वयकर्तृको ज्ञेयः । सोऽपि तुर्ये नास्तीत्यर्थः। न प्रज्ञानघनं- प्राग्वद्विपरीतसमासः कर्तव्यः । घनप्रज्ञानमिति घनं अज्ञानावृतं सुप्तजीवस्वरूपं प्रज्ञापयतीति घनप्रज्ञानम् । तन्नभवतीति नप्रज्ञानघनमित्युच्यते । न प्रज्ञम् ; प्रकर्षेण ज्ञापयति मानसवासनामयं ध्येयमिति प्रज्ञम् ; तन्नेति नप्रज्ञम् । अयमपि स्वाप्निकव्यापारतुल्यतया तैजसाख्यभगवद्रूपव्यापारो द्रष्टव्यः । सोऽपि तुर्येनेत्यर्थः । इदमुपलक्षणम् जाग्रत्कालीननिर्विषयकेवलात्मस्फुरणरूपजडी भावाख्यावस्थानस्यापि। इदमपि सुषुप्तिव्यापारतुल्यतया प्राज्ञाख्यभगवद्व्यापारो ज्ञेयः । सोऽपि तुर्ये नास्तीति ध्येयम् । एवं विश्वतैजसप्राज्ञाख्यरूपत्रयव्यापारान् बाह्याभ्यन्तरपदार्थस्वरूपज्ञापन  सुप्तस्वरूपज्ञापनरूपान् , किञ्चिद्वाह्य, किञ्चित्स्वाप्नोभयरूपव्यापारं, समाधि- स्थनिरन्तरज्ञान सन्तत्युत्पादनरूपव्यापारं जडीभावरूपव्यापारं चाकुर्वदित्यर्थः। नोभयतःप्रज्ञमित्यत्र किं स्वरूपकर्तृकं व्यापारद्वयमस्य नेत्युच्यते । तद्विचारणीयं तद्धि किं निर्व्यापारमेव चतुर्थं रूपं ? नेत्याह – नाप्रज्ञमिति । अप्रज्ञापकं नेति नाप्रज्ञम् प्रज्ञापकमेव । मुक्तानां तद्योग्यसर्वज्ञानप्रदानरूपव्यापारकर्तेत्यर्थः। अदृष्टं विश्वादिरूपत्रयं बाह्यान्तरपदार्थज्ञापन तद्व्ययरूपकार्यलिङ्गेनानुमेयम् । न तथा चतुर्थं रूपं दृश्यमित्यदृष्टमिति वा । अमुक्तदृष्ट्यगोचरत्वाद्वा अदृष्टमित्यर्थः । अव्यवहार्यमग्राह्यमिति । मुक्तिं विना तद्रूपविषयकग्रहणव्यवहारयोः अभावाद- व्यवहार्यमग्राह्यमित्युच्यते । अलक्षणं ; लक्षणं अनुमापकम् । जाग्रदादिप्रवृत्तिरूपानुमापक राहित्यादलक्षणम् । अत एवाचिन्त्यम् । अचिन्त्यत्वादेव अव्यपदेश्यम् । व्यपदेष्टुमशक्यम् । ऐकात्म्यप्रत्ययसारं- एकः प्रधानः । आत्मा पूर्णः, एकश्चासावात्माचैकात्मा । एकात्मैव ऐकात्म्यम् । स्वार्थे ष्यञ् प्रत्ययः ज्ञानरूपः । सारः आनन्दरूप इत्यैकात्म्यप्रत्ययसारम् । प्रपञ्चोपशमं पचिविस्तारे (धा.पा. 1652) प्रपञ्चः विस्तृतः व्याप्त इति यावत् । उपशब्दोऽत्र उत्कृष्टवाची । शमः – सुखं उत्कृष्टानन्दरूपम् । प्रपञ्चश्चासावुपशमश्च प्रपञ्चोपशमः, तम् । मुक्तात्मनो देहबन्धाद्यनिष्टप्रपञ्चम् उपशमयतीति प्रपञ्चोपशममिति वा । शान्तं ऊर्मिषट्करहितम्। निर्दुःखसुखरूपत्वाच्छिवम् । अद्वैतं – द्वीति भावप्रधानम् । द्वित्वेन वस्तुतत्वापेक्षया अन्यात्मकत्वरूपद्वितीयप्रकारेण इतं ज्ञातं वस्तु द्वीतं इण् गतौ (धा.पा. 1045) द्वीतस्येदं द्वैतं मिथ्याज्ञानम् ; न विद्यते मिथ्याज्ञानं यस्मात्तदद्वैतम् । मिथ्याज्ञानविरोधिवा । अहं ममतादिमिथ्याध्यवसायनिवर्तकमिति यावत् । एतादृशमात्मानं चतुर्थं पादं मन्यन्ते औपनिषदा इत्यर्थः । सोऽयमात्मा चतुष्पात् इति प्रतिज्ञातं विश्वतैजसप्राज्ञतुरीयाख्यरूपचतुष्टयं सपरिकरं निरूप्य रूपत्रयविषये मन्त्रानुदाहृत्य चतुर्थविषये मन्त्रानुदाहरिष्यन् इदानीं चतूरूपाऽत्मा अवश्यं ज्ञातव्य इति वदन्नुपसंहरति – स आत्मेति । य इति शेषः । चतूरूपो य आत्मा सः विज्ञेयः । विविधतया चतुर्विधतया विशेषेण च मुमुक्षुभिर्ज्ञेय इत्यर्थः ।। 5 ।।

।। इति द्वितीयखण्डभाष्यं ।।

तृतीयः खण्डः

[पादभूतस्य भगवतः मात्रास्वरूपत्वम् ]

हरिः ओम् सोऽयमात्मा अध्यक्षरमोङ्कारोऽधिमात्रम् ।पादा मात्राः मात्राश्च

पादाः अकार उकारो मकार इति ।। 1 ।।

एवं समस्तोङ्कारप्रतिपाद्यस्यात्मनो विश्वादिरूपचतुष्टयं निरूप्य तेषां रूपाणां अकारादिप्रणवांशप्रतिपाद्यत्वादिमाहात्म्यं वक्तुमुक्तमनुवदति – सोऽयमिति । ओमित्याक्रियमाणतया ओंङ्कारशब्दितस्सोऽयं चतुरात्मकत्वेनोक्त आत्मा अध्यक्षरं- अधि सर्वतोऽधिकं च तदक्षरं अविनाशि चेत्यध्यक्षरम् । अक्षरशब्दस्वाभाव्यान्नपुंसकलिङ्गता । कीदृशमक्षरमित्याह- अधिमात्रमिति । अधि अधिकाः मात्राः अंशा यस्य तदधिमात्रम् । मात्राः क इत्यत आह – पादा मात्रा इति । पद्यन्त इति पादाः । विश्वादिरूपाणि मात्रा इत्युक्ता इत्यर्थः । पादाः कीदृशा इत्यतो अकारादिप्रतिपाद्या विश्वादय इत्याह – मात्राश्च पादा अकार इति । अ इत्याक्रियते प्रतिपाद्यत इत्यकारः विश्वः । एवमुक्तदिशा उकारः तैजसः । मकारः प्राज्ञः । उपलक्षणमिदम् । नादबोध्यस्तुरीयोऽपि वाक्यशेषोक्त्या ग्राह्यः । एते विश्वतैजसप्राज्ञतुरीयाः पादाः मात्राशब्देन अधिमात्रमित्यत्रोक्ता इत्यर्थः ।। 1 ।।

[प्रणवाक्षरेषु अकाररूप: परमात्मा वैश्वानरः]

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा । आप्तेरादिमत्त्वाद्वा आप्नोति ह वै

सर्वान् कामानादिश्च भवति । य एवं वेद ।। २ ।।

तत्रावर्णप्रतिपाद्यं रूपं स्थानोक्त्या निर्दिशति – जागरितेति । अकारः `अ’ इत्याक्रियमाणः प्रथमामात्रा- प्रणवप्रतिपाद्यस्याक्षरस्य प्रथमांश इत्यर्थः । अत्र जागरितस्थानं प्रथममात्रां वैश्वानरमुद्दिश्य अकार इत्यवर्ण- प्रतिपाद्यत्वं विधीयत इत्यपौनरुक्त्यम् । एवमग्रेऽपि । वैश्वानरस्यावर्णवाच्यत्वे निमित्तद्वयमाह- आप्तेरादिमत्त्वाद्वेति । तत्तज्जीवयोग्यभोग्यविषयान् भोगाय आपयति – प्रापयति विश्व इत्युच्यते विश्व इत्यर्थः। आपॢव्याप्तौ (धा.पा. 1261) इति धातोरन्तर्णीतण्यर्थात् ड प्रत्यये टिलोपे च `अ’ इति रूपमिति भावः । प्राज्ञ: तैजसश्चादी अस्येत्यादिमान् । तस्माद्वा `अ’ इत्युच्यत इत्यर्थः । सुषुप्तौ स्वप्ने च प्राज्ञतैजसाभ्यामेकीभूतो विश्वस्सुप्तेरुत्थाने प्राज्ञात् , स्वप्नादुत्थाने च तैजसा- द्विविक्तस्सन् दक्षिणाक्षिस्थानमायातीति तयोरादितया विश्वस्य ताभ्यामादिमत्त्वमिति भावः । एतन्निमित्तद्वययुक्तत्वेन अवर्णवाच्यं जानतः फलमाह – आप्नोति ह वा इति । यः अधिकारी एवं अकारवाच्यत्वं विश्वस्य वेद ; अस्येति शेषः । स वैश्वानरः अस्य वेदितुः सर्वान् कामान् स्वयोग्यसर्वकामान् आप्नोति – प्रापयति । अन्तर्णीतणिच् । आदिश्च – एवं वेदितुः विश्वः आदिश्च भवति । आविर्भूतस्वरूप-तया मुक्तरूपेण तत उत्पद्यते तद्ज्ञानीति तस्यायमादिकारणं भवतीत्यर्थः । यद्वा आदिश्चेत्यत्रैव अस्येति शेषः । आप्नोतीत्यत्र तु स ज्ञानीति शेषो ध्येयः ।। 2 ।।

[उकाररूप: तेजस: प्रणवद्वितीयमात्रा]

स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वा उत्कर्षति ह वै ज्ञानसन्ततिं

समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ।।३।।

अथ द्वितीयपादमाह – स्वप्नेति । द्वितीया मात्रा आत्मनो द्वितीयांशस्तैजसः, उकारः – उरित्याक्रियमाणत्वादुकारः। उवर्णवाच्यत्वे निमित्तमाह – उत्कर्षादुभयत्वाद्वेति । जाग्रद्दशायां विद्यमानदेहाभिमानादत्याज्य- देहाभिमानं त्याजयित्वा स्वप्नमण्डले जीवं कर्षतीत्युत्कर्षणाद्धेतोर्वा बाह्यज्ञप्तिरूपनिद्रां वासनामयविषयानुभवं च प्रयच्छतीत्युभयहेतुत्वाद्वा उरित्युच्यते तैजस इत्यर्थः । तथा वेदितुः फलमाह – उत्कर्षति ह वा इति । योऽधिकारी एवं निमित्तद्वययुक्ततयोकारवाच्यतैजसं वेद स ज्ञानी ज्ञानसन्ततिं – ज्ञानधारां ज्ञाननित्यत्वमिति यावत्। आप्नोतीत्यनुषङ्गः । उत्कर्षति – देहबन्धादात्मानमुत्कर्षति उद्धरति । उत्कृष्य च समानश्च मानमन्तर्गतिः स्मृता इति स्मृत्युक्तेर्मानसहितः समानः – सर्वमोक्षिणामन्तर्गतश्च भवति । दोषाभावात्प्रीत्या चेति भावः। अस्य – ज्ञानिनः कुले अब्रह्मविन्न भवति । ब्रह्मज्ञानसन्ततिरेष भवतीत्यर्थः ।। 3 ।।

[तृतीयमात्रायाः मकारस्य निरूपणम् ]

सुषुप्तस्थानो प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा । मिनोति ह वा इदं सर्वं

अपीतिश्च भवति, य एवं वेद ।। ४ ।।

तृतीयपादमाह – सुषुप्तेति । तृतीया मात्रा – आत्मनस्तृतीयोंशः मकारः म इत्याक्रियमाणः । कुतः ? मितेरपीतेर्वा । स्वात्मनि जीवमन्तर्गमयतीति स्वान्तर्गमनहेतोर्वा । वृत्तिज्ञानस्यापीतेः अप्ययशब्दितलयकारणाद्वा म इत्याक्रियत इत्यर्थः । यः – अधिकारी एवं निमित्तद्वययुक्तत्वेन मकारवाच्यं प्राज्ञं वेद स ज्ञानी इदं सर्वं यथायोग्यं जगत् मिनोति –  स्वान्तर्गमयति जीवानामणुत्वेऽप्यधिकारिणः सूर्यादेरिव प्रकाशतो व्याप्तिरस्तीति तन्मध्येऽन्तर्गमयति मुक्तस्सन्निति भावः । अपीतिश्च भवति – अप्ययकृच्च भवति दुःखाद्यनिष्टस्येत्यर्थः ।। 4 ।।

।। इति तृतीयखण्डभाष्यम् ।।

*******

चतुर्थः खण्डः

[प्रणवस्थनादस्य निरूपणम् ]

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव

संविशत्यात्मनात्मानम् । य एवं वेद, य एवं वेद ।। १ ।।

।। इति चतुर्थः खण्डः ।।

नान्तःप्रज्ञं इत्यादिनोक्ततुरीये गुणानुवादपूर्वकं तुरीयस्य नादप्रतिपाद्यत्वमाह – अमात्र इति। अद्वैतइत्येतदन्तमनुवादः । ओङ्कार इति प्रणवैकदेशनादप्रतिपाद्यत्वं विवक्षितम् । अमात्रादिपदानां पूर्ववद्व्याख्या। तदनुवादस्तु तुरीये पूर्वमुक्तमव्यवहार्यत्वादिकमुपासकस्यापि समं मुक्ताविति प्रदर्शनायेति ज्ञेयम् ।यथा विश्वादीनामकारादिवाच्यत्वं एवमोङ्कारैकदेशनादवाच्यत्वं तुरीयस्येत्यर्थः । नादप्रतिपाद्यत्वेन तुरीयोपासकस्य फलमाह – आत्मेति । यः – अधिकार्येवं – अमात्रत्वाव्यवहार्यत्वादिना ओङ्कारं – ओङ्कारैकदेशनादप्रतिपाद्यं वेद – जानाति सः – आत्मैव सन् शुद्धस्वरूपं एव सन् देहगेहादावन्यत्र ममताद्यभिमानत्यागीभूत्वा इति यावत्। आत्मना – परमात्मना । तत्प्रसादेनेति यावत् । आत्मानं – नादबोध्यं तुरीयात्मानं संविशति – प्रविशति । प्रविश्य बहिरन्तः स्वेच्छया स्वयोग्यभोग्यान्भुञ्जानः सन् सुखमास्त इति भावः । य एवं वेदेति द्विरुक्तिरुक्तविधोपासनोपदेशावधारणार्था ।। 1 ।।

।। श्रीकूरनारायणमुनिविरचितमाण्डूक्योपनिषद्भाष्यं समाप्तम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.