माण्डूक्योपनिषत्कारिकाः

गौडपादीयाः माण्डूक्योपनिषत्कारिकाः

ओमित्यारभ्य एवं वेद, एवं वेद इति पर्यन्तं द्वादशमन्त्रात्मिका इयं उपनिषत् सर्वत्र दरीदृश्यते अनया साकं केचन एकोनत्रिंशत् श्लोकाः पठ्यन्ते शांकरसिद्धान्ते एते श्लोकाः गौडपादीयकारिकाः इति प्रसिद्धाः रङ्गरामानुजेस्तु एते गौडपादीयाः इति मत्त्वा व्याख्याताः, परन्तु कूरनारायणमुनिभिः एते उपनिषद्विवरणरूपाः श्रुत्यन्तर्गताः इत्येव अङ्गीकृत्य व्याख्याताः, तथा भारद्वाजरामानुजाचार्यैरपि मध्वाचार्यास्तु एता: कारिका: ब्रह्मदृष्टाः मन्त्राः इत्येव स्पष्ट अभिदधुः व्याचख्युश्च परन्तु एताः गौडपादीयाः कारिकाः इत्येव प्रसिद्धिवर्तते

अत्रैते श्लोकाः भवन्ति ।

बहिः प्रज्ञो विभुर्विश्वो ह्यन्तः प्रज्ञस्तु तैजसः ।

घनप्रज्ञस्तथा प्राज्ञ एकएव त्रिधा स्मृतः ।। १ ।।

प्र.दी. – पूर्वोक्तमन्त्रार्थदाढ्यार्य श्लोकरूपमन्त्रानुदाहरति इयं श्रुतिः – अत्रेति । अत्र उक्तार्थे, एते – वक्ष्यमाणाः बहिःप्रज्ञ इत्यादिश्लोकाः, भवन्ति उक्तार्थदाढ्यार्य भवन्तीत्यर्थः । विभुः – समर्थः, विश्वः – विश्वनामकः परमात्मा, बहिः प्रज्ञ: – बहिः रूपादौ प्रज्ञा यस्य सः, सर्वस्य पूर्ववदर्थो बोध्यः । जाग्रद्दशानिर्वाहक इत्यर्थः । अन्तः प्रज्ञस्तु तैजसः – तैजसनामकः परमात्मा, स्वप्नदशानिर्वाहकः । प्राज्ञः – प्राज्ञनामकः परमात्मा, घनप्रज्ञः – प्रज्ञानस्वरूपः, सुषुप्त्यवस्थानिर्वाहकः । एकएव त्रिधास्मृतः ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् (.गी. १३) एको वै नारायण आसीत् (महो. ) इत्युक्तप्रणवशब्दवाच्यैको नारायण एव अवस्थात्रयनिर्वाहकत्वेन त्रिप्रकारतया स्थित इत्यर्थः ।। १ ।।

कू.भा. – उपनिषत् स्वयंप्रमाणत्वेऽपि स्वोक्तार्थदार्ढ्याय स्वोक्तार्थे मन्त्रानुदाहरति – अत्रेति । अत्र उक्तेष्वर्थेषु । संवादिन इति शेषः । वैश्वानरो बहि:प्रज्ञः, तैजसोऽन्तःप्रज्ञः, प्राज्ञः प्रज्ञानघनः ; इत्युक्तेऽर्थ मन्त्रमाह बहिरिति । विश्व: वैश्वानरः । पदानामर्थः पूर्वत्रेव ध्येय: एक एव त्रिधा स्मृत इति । मन्त्रद्रष्ट्रा ब्रह्मणा भगवद्रूपाणामेतेषां एकत्वं स्मृतमित्यर्थः ।। १ ।।

दक्षिणाक्षिमुखे विश्वो मनस्यन्तश्च तैजसः ।

आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ।। २ ।।

प्र.दी. – प्रणवशब्दवाच्य: एक: परमात्मा अस्मिन्  देहे नामभेदेन स्थानत्रयेष्वस्तीत्याह दक्षिणाक्षिमुखे इति । जीवस्य दक्षिणनेत्राग्रभागे, विश्व: – विश्वनामकः परमात्मा अस्ति । मनस्यन्तस्तु तैजसः तैजसनामका परमात्मा अन्तर्मनसि स्थित ‘इत्यर्थः । त्रिधा देहे व्यवस्थित: – अयं परमात्मा अस्मिन् जीवशरीेरे त्रिप्रकारेण व्यवस्थित इत्यर्थः ।। २ ।।

कू.भा. – जागरितस्थानः स्वप्रस्थानस्सुषुप्तस्थान इत्युक्तार्थे मन्त्रमाह- दक्षिणाक्षीति । मुखे . अग्रभागे । अन्तरित्यस्य विवरण – मनसीति । आकाशे च हृदि – हृदयाकाशे हृत्कर्णिकाग्रस्थान इत्यर्थः । त्रिधा देहे व्यवस्थित इति । स भगवानेक एवास्मिन् देहे त्रिधा स्थित इत्यर्थः ।। २ ।।

विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।

आनन्दभुक्तथा प्राज्ञस्त्रिधा भोग निबोधत ।। ३ ।।

प्र.दी. – जीवदेहस्थितविश्वतैजसप्राज्ञानां जीवाधिष्ठितद्वारा भोगमाह – विश्वो हि स्थूलभुक् इति । विश्व: नित्यं सदा स्थूलभुक् – स्थूलं रूपादिकं भुनक्तीति । तैजसः नित्यं प्रविविक्तभुक् . स्वाप्नानर्थान् तत्तत्पुरुषमात्रानुभाव्यतया विविच्य भोजयिता । तथा प्राज्ञोऽपि नित्यम् आनन्दभुक् – विषयव्यतिरिक्तविलक्षणानन्दभुक् । त्रिधा भोगं निबोधत – एवं त्रिप्रकारेण भोगं – जीवाधिष्ठितद्वारा अनुभवं निबोधत – जानीयादित्यर्थः ।। ३ ।।

कू.भा. – स्थूलभुक् प्रविविक्तभुगानन्दभुगित्युक्तेऽर्थ मन्त्रमाह – विश्व इति । निबोधतेति मन्त्रद्रष्ट्रा ब्रह्मणा स्वोपदेश्यान् प्रत्युच्यते । एवं विजानथेत्यपि ध्येयम् ।। ३ ।।

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।

आनन्दश्च तथा प्राज्ञं त्रिधा तृप्ति निबोधत ।। ४ ।।

प्र.दी: – जीवदेहस्थितविश्वतैजसप्राज्ञानां जीवद्वारा तृप्तिमाह – स्थूलं तर्पयते विश्वमिति । स्थूलं रूपादिभोग्यभूतं वस्तु कर्तृ, विश्वं – विश्वनामकं कर्म, तर्पयते – तृप्तिं करोति । नित्यतृप्तस्य परमात्मनः तृप्तिः क्रीडारूपेति विज्ञेया । प्रविविक्तं तु स्वाप्रपदार्थ तु तैजसं तर्पयते । आनन्द: – सुषुप्त्यानन्दः प्राज्ञं तर्पयते । एवं त्रिप्रकारेण तृप्तिं निबोधत – विजानीथ ।। ४ ।।

कू.भा. – उक्त एवार्थे मन्त्रान्तरं पठति – स्थूलमिति । स्थूलं – भोग्य वस्तु कर्तृ । विश्वं कर्म । एवमग्रेऽपि । नित्यतृप्तस्य स्थूलादिना तृप्तिः क्रीडारूपा ध्येया । आनन्दं – आनन्दः । लिङ्गव्यत्ययात् । विजानथ – विजानीथ । विकरणव्यत्ययात् ।। ४ ।।

त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः ।

वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ।। ५ ।।

प्र.दी. – भोक्तभोज्यस्वरूपं विजानन् जीवः विषयानुभवजन्यविकारं न प्राप्नोतीत्याह – त्रिषु धामस्विति । त्रिषु – नेत्रमनोहृदयाकाशरूपेषु स्थानेषु यद्भोज्यं – स्थूल प्रविविक्तानन्दात्मकं, यच्च भोज्यस्वरूपमुक्तं, यश्च – विश्वतैजसप्राज्ञरूप: परमात्मा भोक्ता – जीवाधिष्ठातृतया भोक्तृत्वेन प्रकीर्तितः – उक्तः । यस्तु – जीवः एतत्पूर्वोक्तमुभयं भोक्तृभोग्यलक्षणं उभयं वेद – जानाति स: – एतादृशज्ञानी भुञ्जानोऽपि – ज्ञानविषयाननुभवन्नपि न लिप्यते तत्फलैर्न लिप्यते । तत्कृतोञ्चनीचादिविकारं न प्राप्नोतीत्यर्थः ।। ५ ।।

कू.भा. – विश्वादिरूपत्रयस्वरूपं तत्तत्स्थानेषु तद्भोज्यस्वरूपञ्च जानतः फलमाह – त्रिष्विति । त्रिषु धामसु – अक्षिमनोहृदयाकाशरूपेषु यद्भोज्यं स्थूलप्रविविक्तानन्दात्मकं, यश्च भोक्ता विश्वतैजसप्राज्ञरूपात्मा एतदुभयं – भोक्तृभोज्यलक्षणमुभयं यस्तु – योऽधिकारी वेद – जानाति स: ज्ञानविषयान् भुञ्जान: – अनुभवन्नपि तत्फललेपं न प्राप्नोति । तत्कृतोच्चनीचादिविकारं न प्राप्नोतीत्यर्थः । तत्तत्स्थानेषु तत्तत्फलभोजयिता स्वस्य स्वेतरस्य च जीवस्य कर्मफलप्रदस्सर्वेश्वर एव । न ममात्रभोगे इतरजीवानां वा स्वातन्त्र्यमिति मत्वा न विकरोतीति भावः ।। ५ ।।

प्रभवस्सर्वभावानां सतामिति विनिश्चयः ।

सर्वं जनयति प्राणश्चेतोंऽशून्पुरुषः पृथक् ।। ६ ।।

प्र.दी. – विश्वतैजसप्राज्ञतुरीयापरनामधेयकः परमात्मा सर्वजगत्कर्तेति सतामभिप्राय इत्याह – प्रभवस्सर्वभूतानामिति । पुरुषः – सहस्त्र शीर्षा पुरुषः (पु.सू. १) इत्युक्तपुरुषशब्दवाच्यः श्रिय:पतिः सर्वभूतानां प्रभवः – प्रभवन्त्यस्मात्सर्वे इति व्युत्पत्त्या सर्वभूतजनक इति सतां परब्रह्मवेत्तृणां ब्रह्मादिव्यासपराशराणां विनिश्चय: – मुख्याभिप्रायः । एतदेव विवृणोति – सर्वं जनयतीति । प्राण: – सर्वान् प्रलयकाले स्वसमीपं नयतीति प्राणः । कुक्षिस्थाखिलभुवन इत्यर्थः । चेतोंऽशून् – ज्ञानरूपरश्मियुक्तान् जीवान् पृथक् – पृथक्कर्मानुगुणयुक्तदेवमनुष्यादीन् । सर्वं – अचेतनं सर्व च जनयति । अनेन विवर्तोपादानं परमात्मा इत्यसतां वादो निरस्तः ।। ६ ।।

कू.भा. – एष योनिस्सर्वस्येत्युक्तार्थे मन्त्रमाह – प्रभव इति । प्रभवत्युत्पद्यतेऽनेनेति प्रभवः । सर्वभावानां – सर्ववस्तूनां यथायोगमुत्पत्तिहेतुः । चतूरूपात्मेति योज्यम् । इति सतां निश्चय इत्युक्त्या असतां अन्यथा निश्चय इति लभ्यते । तदग्रे विवरिष्यते । सर्वप्रभवत्वं व्यनक्ति सर्वं जनयति प्राण इति । सर्वस्य प्रणेतृत्वहेतुना प्राणनामा । स एव सर्वं जनयतीत्युक्त्या न विवर्तरूपमुपादानत्वं सर्वप्रभवत्वमित्युक्तं भवति । पुरुषः – पूर्णषड्गुणत्वादिना पुरुषनामा प्रागुक्तनामा चतूरूपात्मा हरिः चेतोंऽशून् – ज्ञानाख्यरश्मियुक्तान् जीवानिति यावत् । पृथक् देवदानवमानवादिभेदेन जनयति ।। ६ ।।

विभूतिं प्रसवंत्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।

स्वप्नमायास्वरूपेति सृष्टिरन्यैर्विकल्पिता ।। ७ ।।

प्र.दी. – ब्रह्मविवर्तः प्रपञ्चः इत्यसतामाशयमाह – विभूतिं प्रसवं त्वन्य इति । असृष्टिचिन्तकाः इति छेदः । पूर्वोक्तपरमपुरुषसृष्टजगद्विषयकज्ञानशून्याः । अन्ये तु – असन्तस्तु प्रसवं यतो वा इमानि (तै.भृ. १) इत्यादि श्रुतिसिद्धजगदुत्पत्तिं कर्मपदं; विभूतिं मन्यन्ते । ब्रह्मणः – जीवजडभूतविविधरूपतया भवनमिति मन्यन्ते । तथा च ब्रह्मैव प्रपञ्चरूपेण परिणमत इत्यर्थः ।अन्यै: – पूर्वोक्तब्रह्मविवर्तोपादानवादिभिः सृष्टि: – सर्वशक्तिविशिष्टभगवत्कर्तृकानन्तकोटिब्रह्माण्डसृष्टिः । स्वप्नमायास्वरूपेति – स्वप्नदृष्टपदार्थ- सदृशेति, मायाविनिर्मितगन्धर्वनगरतुल्येति च विकल्पिता – रज्जुसर्पवत् शुक्तिकारजतवत् मरुमरीचिकावत् मिथ्याभूतेति बहुप्रकारेण कल्पिता ।। ७ ।।

कू.भा. – सतामिति विनिश्चय इत्यत्र असतां वैपरीत्येन निश्चय इत्यर्थात्प्राप्तम् । तदुभयं व्यनक्ति – विभूतिम् इत्यादिना । सृष्टिचिन्तकाः – सृष्टिविषयविचारवन्तः अन्ये ब्रह्मस्वरूपपरिणामवादिनोऽसन्तः प्रसवं – सृष्टिं विभूतिं – जीवजडात्मना विविधतया भवनं ब्रह्मणो मन्यन्ते – सृष्टिचिन्तका इत्यनेन यथावत् ब्रह्मस्वरूपानभिज्ञा इति सूचितम् । अन्यैः – ब्रह्मविवर्तः प्रपञ्च इति वादिभिः सृष्टि: विकल्पिता – विविधतया कल्पिता । कथं ? स्वप्नमायास्वरूपेति । स्वाप्नपदार्थसृष्टिः सुप्तात्मविवर्तो यथा मायास्वरूपा, तथा तत्स्वरूपब्रह्मविवर्तरूपा जाग्रत्सृष्टिरपि मायास्वरूपा । मायापदेन मायाविनिर्मितगन्धर्वनगरादिग्रहः । तत्स्वरूपा तत्तुल्यस्वरूपा । मिथ्याभूतेत्येवं विकल्पितेत्यर्थः ।। ७ ।।

इच्छामात्रं प्रभोस्सृष्टितिरिति सृष्टौ विनिश्चिता:।

कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तका: ।। ८ ।।

प्र.दी. – विवर्तपरिणामानङ्गीकारे ब्रह्मणः कथं जगत्पष्टिरित्याह – इच्छामात्रमिति । प्रभो: अखिलजगत्सृष्टिसमर्थस्य भगवतः सृष्टि: अनन्तकोटिब्रह्माण्डसृष्टि: इच्छामात्रं । बहुस्यां प्रजायेयेति संकल्पमात्रं संकल्पमात्रादेव जगत्सृजतीत्यर्थ: । सृष्टौ -सृष्टिविषये सन्त: विनिश्चिता:- एवं निश्चितवन्त: । कालचिन्तका: • काल एव ईश्वर इति वाविन: भूतानां । सर्वभूतानां कालात्प्रसूर्ति – कालादेव उत्पत्तिं मन्यन्ते ।। ८ ।।

कू.भा-  परिणामविवर्तयोरभावे कथं हरेर्जगत्सृष्टिरित्यतस्सतां विनिश्चयप्रकारमाह- इच्छेति । केवलमिच्छामात्रं – अनायासेनाविलम्बेन अविकारित्वेन प्रभो:। अवन्ध्यशक्ते: सृष्टि:- प्रभुकर्तृका विश्वविषयिणी सृष्टिरिति सृष्टौ – विषये विनिश्चिता: विनिश्चयवन्त: औपनिषदा इत्यर्थ: । भागवतस्सत्यसंकल्पत्वात् स सर्वशक्तस्वसंकल्पमात्रादेव स्वशरीरभूतचेतनाचेतनप्रपञ्चमग्रे सूक्ष्मं स्थूलरूपेण परिणाम्य स्वयमविकार एव सर्वात्मकरसर्वोपादानं भवतीति मन्यन्ते इति भाव: । विनिश्चिता इति कतर्रि क्त: ? पुनर्मतान्तराण्याह – कालेति । कालचिन्तका: – कालमेवेश्वरं मन्वाना: भूतानां प्रसूतिं – उत्पत्ति कालान्मन्यन्ते । उपलक्षणमेद्यदृच्छानियतिस्वभावादीनां तेषां निरास: पुरुषप्रभुपदाभ्यामेव ज्ञेय: अत एव इच्छामात्रमिति पक्षस्य मध्ये निवेश: ।। ८ ।।

भोगार्थं सृष्टिरित्यन्ये क्रीडार्थेमिति चापरे ।

देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ।। ५ ।। इति ।

प्र.दी.- अवाप्तसमस्तकामस्य श्रिय: पते: इयं सृष्टिलीलारूपेति स्वाभिप्रायपाह श्रुतिः । भोगार्थमिति । अन्ये – केचन भगवत: इयं सृष्टि: अतृप्तस्येव भोगार्थमिति मन्यन्ते । अपरे क्रीडार्थं · राज्ञां कन्दुकादिक्रीडावत् भगवत: सृष्टिं मन्यन्ते । मतान्तराण्युपपाद्य स्वसिद्धान्तमाह- देवस्यैष स्वभाव इति । आप्तकायस्य – अवाप्तसमस्तकामस्य, देवस्य क्रीडाशीलस्य श्रिय: पते: एष: – सृष्ट्यादिव्यापार: स्वभाव एव – नैज एव नान्यत्प्रयोजनमस्ति – लोकवत्तु लीलाकैवल्यम् (ब्र.सू. २-१-३३) इत्ययमर्थ एव व्यासार्यस्सूत्रितः । इतिशब्दो विश्वतैजसादि रूपत्रयनिरूपण- समाप्तिबोधक: ।। १ ।।

कू.भा. – तर्हि परिपूर्णस्य पुरुषस्य सृष्टि: किमर्थेत्यतो लोकानुग्रहार्थं स्वभाव इति वक्तुं मतान्तराण्याह भोगार्थमिति । हरेरतृप्तस्यैव भोगार्थं सृष्टिरित्यन्ये मन्यन्ते । अपरे तु महाराजस्य कन्दुकादिविहार इव क्रीडारूपप्रयोजनसिद्ध्यर्थं विश्वसृष्टिरीश्वरस्येति मन्यन्त इत्यर्थः । स्वमतमाह श्रुति: – देवस्येति । देवस्य – क्रीडाशीलस्य अयं – लीलारूपः एषः – सृष्ट्यादिविषयः स्वभाव एव । नान्यत्प्रयोजनमिति भावः । लोकवत्तु लीलाकैवल्यम् (ब्र.सू. २-१-३३) इति सूत्रम् । कुतः ? आप्तकामस्य का स्पृहा – प्रयोजनस्पृहा न कापीत्यर्थः । इति शब्दो रूपत्रयनिरूपणसमाप्तौ ।। ९ ।।

निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ।

अद्वैतस्सर्वभावानां देवस्तुर्यो विभुस्स्मृतः ।। १० ।।

प्र.दी. उक्तस्वरूपस्य तुरीयापरनामधेयस्य वासुदेवस्य महिमानमाह – अत्रेति । तुरीयविषयकोक्तार्थे एते – वक्ष्यमाणाः श्लोका भवन्ति । तान् श्लोकानाह – निवृत्तेरिति । सर्वदुःखानां – आश्रितसर्वदुःखानां आध्यात्मिकादीनां निवृत्तेः – निवारणस्य कारणमिति शेषः । आश्रितसर्वानिष्टनिवारणकारणभूत इत्यर्थः । ईशान: – सर्वनियामकः । अत एव प्रभुः – समर्थः । अव्यय: नाशरहितः । सदैकरूप इत्यर्थः । अद्वैतः सजातीया द्वितीयवस्तुरहितः । विभुः सर्वव्यापकः । तुरीय: – तुरीयापरनामधेयकः श्रीवासुदेवः सर्वभावानां – भू सत्तायां (धा.पा. १) इति धातुः । भवन्तीति भावाः, सत्तारूपाणां सर्वजीवानां देवः – उपास्यभूत इति स्मृतः । ब्रह्मविद्भिरिति शेषः ।। १० ।।

कू.भा. – चतुर्थरूपस्योक्तं माहात्म्यं संवादयितुमाह – अत्रेति । तुरीयस्योक्तार्थे एते वक्ष्यमाणाश्श्लोकाः संवादिनो भवन्तीत्यर्थः । प्रपञ्चोपशमम् इत्यादिनोक्ते सर्वानिष्टनिवर्तकत्वादिरूपेऽर्थे श्लोकानाह – निवृत्तेरिति । सर्वदुःखानां निवृत्तेः कारणमिति शेषः । ईशान् ब्रह्मादीन् अनिति प्रेरयतीति ईशानः, प्रभुः – स्वामी । अव्ययः – शश्वदेकरूपः । अद्वैतः – मिथ्याज्ञाननिवर्तकः । सर्वभावानां – भवन्तीति भावाः । भू सत्तायाम् (धा.पा. १) भगवज्ज्ञानेन लब्धसत्ताका इत्यर्थः । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः (तै.आन. ३०) इति श्रुतेः । सर्वेषां भावानां अधिकृतात्मनां देवः – उपास्यः विभुः – समर्थः स्मृतः । मन्त्रदृग्भिरिति शेषः ।। १० ।।

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।

प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्रे न सिद्ध्यतः ।। ११ ।।

प्र.दी. – तुरीयवासुदेवस्वरूपं विश्वादित्रयविलक्षणमित्याह – कार्यकारणबद्धाविति । तौ पूर्वोक्तौ विश्वतैजसौ – जाग्रत्स्वप्नदशानिर्वाहकविश्वतैजसौ कार्यकारणबद्धौ इष्येते। विश्व: जीवद्वारा अज्ञानकार्यभूताहंकारममतादि भ्रमरूपकार्यबन्धविशिष्टः न तु सृतः । तैजसस्तु तत्कारणभूताविद्यारूपबन्धविशिष्टः इति इष्येते । प्राज्ञस्तु कारणबद्ध इति इष्यते । जीवद्वार कारणभूताज्ञानरूपसुषुप्तिबन्धविशिष्टः । तुर्ये- चतुर्थे वासुदेवे तौ – पूर्वोक्तौ द्वौ – कार्यकारण- बन्धनियमनव्यापारः कारणमात्रबन्धनियमनव्यापारश्च न सिद्ध्यतः – न स्त इत्यर्थः ।। ११ ।।

कू.भा. – नान्त: प्रज्ञं न बहिः प्रज्ञम् इत्यादिना तुरीयस्य विश्वादिरूपत्रयवैधर्म्यमुक्तं । तत्र मन्त्रमाह – कार्येति । अज्ञानकार्यभूतोऽहंकारममतादिभ्रमः । तद्रूपः कार्यबन्धः । तत्कारणाविद्याबन्धः कारणबन्धः जीवनिष्ठतादृशजाग्रत्पदार्थभ्रमाविद्यारूपकार्यकारणबन्धस्वामी विश्वः । तैजसस्त्वविद्याकार्यभूतोक्तरूपस्वाप्नपदार्थभ्रमेण तत्कारणाज्ञानेन च बद्धजीवनिष्ठतादृश- बन्धस्वामीत्यर्थः । प्राज्ञस्तु तत्कारणाज्ञानरूपसुषुप्तिबद्धः । सुषुप्ति ‘बन्ध’ स्वामी तुरीये चतुर्थरूपे द्वौ । कार्यकारणबन्धनियमनव्यापारः कारणमात्रबन्धनियमनव्यापारश्च द्वावपि न सिध्द्यत इत्यर्थः ।। ११ ।।

नात्मानं न परांश्चैव न सत्यं नापि चानृतम् ।

प्राज्ञः किञ्चन संवेत्ति तुर्य तत्सर्वदृक्सदा ।। १२ ।।

प्र.दी. – तुरीयस्य प्राज्ञवैलक्षण्यमाह – नात्मानमिति । प्राज्ञः – सुषुप्तिजीवाधिष्ठानभूतः परमात्मा आत्मानं – सुषुप्तजीवस्वरूपं न संवेत्ति – न संवेदयेत् । अपरानन्यान् जीवान्न संवेदयेत् । सत्यं – दृश्यमानं जगत् असत्यं – रज्जुसर्पज्ञानादिकं च न संवेदयेत् । किञ्चन जीवस्वरूपसुखं विना किमपि वस्तु न संवेदयेदिति यावत् । तत् प्रसिद्धं तुरीयं वासुदेवः सदा सर्वदृक् सर्वं दर्शयतीति सर्वदृक् । मुक्तिकाले तत्तद्योग्यं सर्वं सर्वदा अनियमेन प्रदर्शयतीत्यर्थः ।। १२ ।।

कू.भा. – प्रज्ञानघनं नाप्रज्ञम् इत्युक्तप्राज्ञवैधर्म्ये मन्त्रमाह – नात्मानमिति । आत्मानं सुषुप्तजीवस्वरूपं न संवेदयेत् । तथा नापरान् अन्यान् जीवान् न सत्यं घटादिकं नापि चानृतं शुक्तिरजतादिकं संवेदयेदित्यर्थः । जीवस्वरूपसुखं विना नान्यत्किमपि संवेदयेदिति यावत् । तुरीयं तु सदा सर्वदृक् सर्वं दर्शयतीति सर्वदृक् मुक्तौ तत्तद्योग्यं सर्वं सर्वदा प्रदर्शयतीत्यर्थः ।। १२ ।।

द्वैतस्याग्रहण तुल्यमुभयोः प्राज्ञतुर्ययोः ।

बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ।। १३ ।।

प्र.दी. – तुरीयस्य प्राज्ञवैलक्षण्यान्तरमाह – द्वैतस्याग्रहणमिति । उभयोः प्राज्ञतुर्ययोः – द्वैतस्याग्रहणं देहगेहयोः स्वातन्त्र्यभ्रमराहित्यं तुल्यं – समानमित्यर्थः । प्राज्ञस्तु बीजनिद्रायुतः देहगेहादौ स्वातन्त्र्यबुद्धिबीजभूता मूला विद्या बीजनिद्रा तया युतः युक्त इत्यर्थः । सा च स्वातन्त्र्यबीजभूता मूलाविद्या तुर्ये – वासुदेवे परमात्मनि न विद्यते – नास्तीत्यर्थः ।। १३ ।।

कू.भा. – शिवमद्वैतम् इति तुरीयस्य यन्मिथ्याज्ञाननिवर्तकत्वमुक्तम् तत्प्राज्ञस्यापि सममिति वदन् ततस्तुरीयस्य वैलक्षण्यान्तरमाह – द्वैतस्येति । द्वैतस्य – देहगेहादौ स्वातन्त्र्यस्य अग्रहणं – ग्रहणाहेतुत्वं गेहादौ स्वातन्त्र्यभ्रमाजनकत्वं प्राज्ञतुरीययोस्तुल्यम् । बीजेति । देहगेहादौ स्वातन्त्र्यबुद्धिबीजभूता मूलाविद्या बीजनिद्रा तया युतः तद्युक्तत्वप्रद: प्राज्ञः । सा चेति । चस्त्वर्थे । तुर्ये तु सा बीजनिद्रा तद्युतत्वप्रदत्वमिति यावत् । न विद्यते इत्यर्थः ।। १३ ।।

स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।

न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ।। १४ ।।

प्र.दी. – पुनरपि विश्वादिवैलक्षण्यं तुरीयस्याह – स्वप्ननिद्रायुतावाद्यो इति । आद्यौ विश्वतैजसौ स्वप्रनिद्रायुतौ जागरस्याप्युपलक्षणम् । जीवद्वारा जाग्रदवस्था निद्राजन्यस्वप्नावस्थाविशिष्टौ भवत: । प्राज्ञस्तु अस्वप्ननिद्रया युतः तुर्ये – वासुदेवे । जागरणं निद्रां स्वप्नं, चकारोऽनुक्तसमुच्चयार्थकः ; सुषुप्तिं च निश्चिताः – निश्चितार्थज्ञानवन्तः न पश्यन्तीत्यर्थः ।। १४ ।।

कू.भा. – प्रकारान्तरेण विश्वादेस्साधर्म्यवैधर्म्य आह – स्वप्नेति । स्वप्नेत्युपलक्षणम् । जागरस्यापि जाग्रत्स्वप्नभ्रमाभ्यां तद्धेतु निद्राशब्दिताविद्यया च युतावाद्यौ तदुभयसंबन्धनियामकौ विश्वतैजसौ । प्राज्ञस्तु अस्वप्ननिद्रया द्विविधभ्रमविनाकृत केवलाविद्यया युतः । तन्मात्रबन्धस्वामी इत्यर्थः । निश्चिताः – सम्यक् निश्चयवन्तः सन्तः निद्रां – निद्राकृतबन्धस्वामित्वं स्वप्नम् – द्विविधभ्रमबन्धहेतुत्वं च तुरीये न पश्यन्ति – न जानन्तीत्यर्थः ।। १४ ।।

अन्यथा गृह्णतः स्वप्नो निद्रातत्त्वमजानतः ।

विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ।। १५ ।।

प्र.दी. – एवंविधस्य तुरीयस्य वासुदेवस्य दर्शनप्राप्तिः कदेत्यत्राह – अन्यथागृह्णत इति । भगवदधीनदेहगेहादौ स्वीयमिति ज्ञानवतः, तत्वमजानत: परतत्वमजानतो जीवस्य निद्रा, स्वप्नश्च भवतः । तयोः निद्रास्वप्नयोः विपर्यासे अवर्तन्ते क्षीणे सति तुरीयं पदं – वासुदेवसंबन्धिस्थानम् । यद्वा पद्यते प्राप्यत इति पदम् प्राप्यं तुरीयं वासुदेवं अश्नुते – प्राप्नोति ।। १५ ।।

कू.भा. – एवंविधतुरीयस्य दर्शनप्राप्तिः कदा भवेतामित्यत्राह – अन्यथेति । अन्यथा गृह्णतः: देहगेहादौ भगवदधीने स्वाधीनतां जानतः स्वप्नो भवति । स्वप्नपदेन मिथ्याज्ञानरूपभ्रमपरम्पराग्रह: तत्वं- भगवतस्स्वातन्त्र्यादिरूपं तत्वमजानतो निद्रा मूलाविद्याबन्धो भवति । तयोः निद्राभ्रमयोः विपर्यासे आवर्तने क्षीणे सति तुरीयं पदं – चतुर्थरूपं अश्नुते, साक्षात्कारद्वारा प्राप्नोतीत्यर्थः ।। १५ ।।

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।

अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ।। १६ ।।

प्र.दी.-भगवत्कृपया श्रीवासुदेवं साक्षात्करोतीत्याह – अनादिमायया सुप्तः इति । अनादिमायया – अनादिभूताज्ञानेन सुप्तः – अनादिकालप्राप्तसंसाररूपमायाशयने सुप्तः इत्यर्थः । यद्वा अनादिर्भगवान् श्रियःपतिः । तदधीनमायया सुप्तः स्वस्वरूपपरस्वरूपाद्यनभिज्ञः इत्यर्थः । जीवः यदा प्रबुध्यते – भगवत्कृपया प्रबुध्यते जागरूको भवति स्वस्वरूपाद्यर्थपञ्चकज्ञानवान् भवति । तदा – तत्काले अजं, अजायमानो बहुधा विजायते (तै.आर.३-१३-३) इति श्रुत्यन्तरप्रतिपाद्यं, अनिद्रं – सर्वदा आश्रितरक्षणजागरूकं, अस्वप्नं – स्वप्नाद्यवस्थारहितं अद्वैतं – सजातीयद्वितीयवस्तुरहितं श्रीवासुदेवं बुध्यत बुध अवगमने (धा.पा.८५८) इति धातुः । साक्षात्करोति ।। १६ ।।

कू.भा. – निद्राभ्रमयोरावर्तनक्षयः केन स्यात् ? यस्य क्षये भगवदपरोक्षधीरित्यतो भगवत्प्रसादेनैवेत्याह अनादीति । मायाशब्देन भगवदिच्छा तदधीनाऽविद्या च गृह्येते । अनादीति तन्त्रम् । अनादेर्विष्णोरनादिमायया कर्मरूपाविद्यया सुप्तः – स्वापितः संसारे निवेशितो जीवो यदा अनादिमायया भगवदिच्छया भगवत्प्रसादेन प्रबुध्यते भगवानेव स्वतन्त्रोऽन्यत्सर्वं तदधीनमित्यादितत्त्वज्ञानवान् भवति । तदा अजं – जननादिदोषहीनं अनिद्रमस्वप्नं विश्वादिरूपव्यापाराप्रवर्तकं अद्वैतं – मिथ्याज्ञाननिवर्तकं, इदमुपलक्षणं सर्वानिष्टनिवर्तकं भगवन्तं बुध्यते – साक्षात्करोति ।। १६ ।।

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।। १७ ।।

प्र.दी. – ज्ञानिनोऽपि प्रामादिकभ्रमप्रपञ्चो विद्यत इति । तन्निवृत्तिस्तु सर्वस्वतन्त्रश्रियःपतिज्ञानात् भवतीति भगवदुपास्योपासकभावः पारमार्थिक इति, जीवेश्वरैक्यादिभावस्तु भगवन्मायाविलसित इत्याह – प्रपञ्चो यदि विद्येत इति । प्रपञ्चः ज्ञानिनो हि जीवस्य अनादिकालप्राप्तदेहगेहादिषु स्वातन्त्र्याभिमानरूपभ्रमप्रपञ्चः विद्येत यदि, परमार्थत: पारमार्थिकस्वस्वरूप, परस्वरूपाद्यर्थपञ्चकज्ञानं विनिवर्तेत निवतर्त इत्यर्थः । न संशयः – एतस्मिन्नर्थे संशयो न कर्तव्यः । यद्वा परः – उत्कृष्टः मा – नास्ति यस्मात्सः परमः । यद्वा पर: ब्रह्मादिसर्वदेवताप्रार्थनीयत्वेन उत्कृष्टा मा लक्ष्मी: यस्य परमः लक्ष्मीपतिः । तस्य अर्थतः श्रियःपतिरेव परं तत्वमिति ज्ञानात् स्वातन्त्र्यादिभ्रमप्रपञ्चो निवर्तत इत्यर्थः । यद्वा प्रपञ्चः ब्रह्मरुद्रादयः सर्वे उपास्या इति जीवेश्वरयोरैक्यमित्यादिभ्रमप्रपञ्च विद्येत यदि तदा संशयः एतत्सत्यं वा असत्यं वेति संशयः न निवर्तते वर्तत एवेत्यर्थः । मायामात्रमिदं द्वैतमद्वैतं परमार्थत इति । निष्कृष्टार्थमाह इदं – परिदृश्यमानं द्वैतं – द्वयोर्भाव: द्विता द्वितैव द्वैतम् । उपास्योपासकभावः परमार्थतः प्राप्तमित्यध्याहार्यः । न्यायत: प्राप्तंसर्ववादिमत- सम्मतमित्यर्थः । अद्वैतं – द्वैतं न भवतीत्यद्वैतं जीवेश्वरैक्यभावं मायामात्रं – मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः माययापहतज्ञानाः आसुरं भावमाश्रिताः (भ.गी.७-१५) इत्युक्तौ सुरजनमोहक- भगवन्मायाविलसितमिति ज्ञेयम् । द्वैतं मिथ्याभूतमिति अद्वैतं परमार्थमिति कैश्चिद्व्याख्यातम् । तत्तु विकल्पो विनिवर्तेत इत्यादिपूर्वोक्तोपासनाप्रकरणविरोधादसमञ्जसम् ।। १७ ।।

कू.भा. – ननु देहगेहादौ स्वस्वामिसम्बन्धादिरूपबन्धस्य जीवस्वरूपस्येव स्वाभाविकत्वेन निवृत्त्ययोगात् विपर्यासे तयोः क्षीण इत्युक्तिः कथमित्यतो नायं स्वाभाविक इत्याह – प्रपञ्च इति । देहगेहादौ स्वस्वामिसम्बन्धादिरूपो बन्धः प्रपञ्चः सः स्वातन्त्र्येण नास्त्येव । यदि पराधीनोऽपि विद्यत इत्यङ्गीक्रियते तद्यपि परमार्थतः परमश्चासावर्थश्च परमार्थः – उत्तमोऽर्थः भगवान् । तस्मात्परमार्थतः परमेश्वरप्रसादादिति यावत् । निवर्तेत – निवर्तत एव । न संशयः अनादितोऽनुवृत्तस्य देहादी स्वीयत्त्वज्ञानरूपभ्रमस्य कथं निवृत्तिरित्यत आह – मायेति । अद्वैतं – महद्भिर्यथावत्तया ज्ञातं ब्रह्मादिवस्तुजातमज्ञैः द्वैतं – द्वितीयेन प्रकारेण ज्ञातं तद्वैपरीत्येन ज्ञातं तच्च मिथ्याज्ञानं तेषां मायामात्रम् भगवदिच्छामात्रनिर्मितं जातमित्यर्थः । तथा च तादृशमिथ्याज्ञानस्यानादितोऽनुवृत्तस्यापि ईश्वरेच्छया जातत्वेनास्वाभाविकत्वात्तत्प्रसादेन तन्निवृत्तियुक्तेति भावः । उक्तं हि संसारबन्धस्थितिमोक्षहेतुः, (श्वे.उ.६-१६) दैवी ह्येषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। (भ.गी.७-१४) इत्यादिकम् ।। १७ ।।

विकल्पो विनिवर्तेतँ कल्पितो यदि केनचित् ।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ।। १८ ।। इति ।।

प्र.दी. – सतामुपदेशात् भगवन्मायामोहनजन्यजीवेश्वरैक्यादिरूपवादो न सम्भवतीत्याह – विकल्पो विनिवर्तेत इति । परमात्मजीवयोरैक्यं नैगुण्यं ब्रह्मणस्तथा मयैव वक्ष्यते देविकता ब्राह्मणरूपिणा ।। इत्यादि प्रमाणबोध्येन केनचित्कुमार्गप्रवर्तकेन विकल्पः – ब्रह्मरुद्रादिपरत्ववादरूपः जीवेश्वरैक्यादिरूपः विकल्प: कल्पितो यदि – निर्मितो यदि, उपदेशादयं वाद: – श्रियःपतिरेव परं तत्वमिति सतामुपदेशात् अयं वाद: – पूर्वोक्तविविधविकल्परूपासद्वादः विनिवर्तेत – सवासनया निवर्तत इत्यर्थः । ज्ञाते – परमात्मनि श्रीवासुदेवे स्वरूपे ज्ञाते सति अद्वैतं जीवेश्वरैक्यभावादिकं न विद्यते – न सम्भवति इति विज्ञायत इति यावत् ।। १८ ।।

कू.भा. – उक्तमेव सर्ववाक्यार्थं विशदयन्नुपसंहरति – विकल्प इति । देहगेहादौ स्वीयताभिमानादिनानात्मकबन्धरूपो विकल्पः उक्तरीत्याऽस्वाभाविको यदि केनचिदज्ञानादिना स्वाभाविकत्वेन कल्पितः तर्ह्यप्युपदेशात् महतामुपदेशबलात् विनिवर्तेत – विनिवर्तत एव । न निवर्ततेति पाठे काकुः न निवर्तेत किं? अपि तु निवर्तेतैवेत्यर्थः । कस्सतां वादः? यदुपदेशान्नानाविधस्वातन्त्र्यादिभ्रमनिवृत्तिरित्यत आह – अयमिति । ब्रह्मणि यथावद्ज्ञाते सति द्वैतं – शिवमद्वैतम् इत्यत्रोक्तव्युत्पत्त्या मिथ्याज्ञानं न विद्यते । निवर्तत इत्ययं सतां वाद इत्यर्थः ।इति शब्दस्य इत्येते श्लोका भवन्तीत्यनेनान्वयः।।१८ ।।

विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ।

मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च ।। १९ ।।

प्र.दी. – एवं विश्वादिरूपत्रयं प्रणवावयवाकारादिवर्णत्रयवाच्यत्वेन प्रतिपाद्यचतुर्थवासुदेवरूपं अमात्रश्चतुर्थ इत्यादिना अग्रे विवक्षुः प्रागुक्तरूपत्रयज्ञानिनो फलानि विवृणोति । अत्रेति । रूपत्रयज्ञानिफले विषये, एते वक्ष्यमाणाः श्लोका भवन्ति । तान्मन्त्रान्क्रमेणाह – विश्वस्येति । अत्वविवक्षायां, अत्रत्यविवक्षाशब्देन उपासनमुच्यते । अकारवाच्यविश्वनामधेयकानिरुद्धपरमात्मोपासनायां उपासकस्य उत्कटं – उत्कृष्टं आदिसाम्यं – आदिमत्वसाम्यं भवति । मात्रासंप्रतिपत्तौ मात्राप्रणवांशः अकार: व्याप्तिनिमित्तकप्रणवांशकाकारवाच्यविश्वरूपप्रद्युम्नपरमात्मसंप्रतिपत्तौ ध्याने सति उपासकस्य आप्तिसामान्यमेव च सर्वकामावाप्तिसाम्यं च स्यात् । चकारोऽनुक्तसमुच्चयार्थकः ।। १९ ।।

कू.भा. – एवं रूपत्रयं प्रणवस्याकारादिवर्णत्रयप्रतिपाद्यमुक्त्वा चतुर्थं रूपं अमात्रश्चतुर्थः इत्यादिनाऽग्रे विवक्षुः प्रागुक्तरूपत्रयज्ञानिनो यानि फलान्युक्तानि तत्र ब्रह्मदृष्टश्लोकान् प्रगणयति अत्रेति । अत्र – रूपत्रयज्ञानिफले एते – वक्ष्यमाणा: श्लोकास्संवादिनो भवन्ति । क्रमेण तान्मन्त्रान् पठति – विश्वस्येति । अत्वविवक्षायामिति विवक्षापदेनोपासनं ग्राह्यम् । आदिमत्त्वाद्वा इत्यत्रोक्तदिशा आदिमत्वनिमित्तेन विश्वस्य प्रणवैकदेशावर्णवाच्यत्वोपासनायां सत्यामुपासकस्य आदिसामान्यं – आदिश्च इत्यत्रोक्तदिशा आदिमत्वसामान्यं आदित्वेन विश्वसाम्यं भवति । उत्कटं – स्पष्टमेतत् । यथा यथोपासते तथैव भवति (मुद्ग.उ. ३) इत्यादेरिति भावः । मात्रासंप्रतिपत्तौ – मात्रा – आत्मनोंऽशो विश्वः । आप्तिनिमित्तकप्रणवांशाकारार्थ इति विश्वरूपांशध्याने ध्यातुराप्तिसामान्यमेव स्यात् । सर्वकामावाप्त्यैव विश्वसाम्यमेव भवेदित्यर्थः ।। १९ ।।

तैजसस्योत्वविज्ञाने उत्कर्षो दृश्यते स्फुटम् ।

मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम् ।। २० ।।

प्र.दी. – उकारवाच्यतैजसापरनामधेयकप्रद्युम्नोपासकफलं विवृणोति – तैजसस्येति । तैजसस्योत्वविज्ञाने – उकारवाच्यतैजसापरनामधेयकप्रद्युम्नोपासनायामित्यर्थः । उपासकस्य स्फुटं उत्कर्षो दृश्यते । मात्रासंप्रतिपत्तौ – मात्रा प्रणवांशः उकारः तद्वाच्यः अनिरुद्धः परमात्मा तस्य सम्प्रतिपत्तौ ध्याने सति तथाविधं उभयत्वं स्यात् । ज्ञानसन्ततिरूपत्वादिकं उत्कृष्टेषु समानत्वं चोभयं स्यादित्यर्थः ।। २० ।।

कू.भा.-तैजसस्येति । तैजसस्य उत्वविज्ञाने – प्रागुक्तरीत्या उत्कर्षनिमित्तेन प्रणवैकदेशोकारवाच्यत्वोपासनायां तस्योपासकस्य उत्कर्षति इत्यत्रोक्तदिशा स्फुटमुत्कर्षो दृश्यते प्रमित इत्यर्थः । मात्रासंप्रतिपत्तौ – प्रागुक्तदिशोभयहेतुत्वनिमित्तेन प्रणवांशोकार- वाच्यत्वेनात्मांशतैजसध्यानेन तस्य ध्यातुस्तथाविधं प्रागुक्तं ज्ञानसन्ततिरूपसर्वज्ञत्वं समानत्वं चेत्युभयवत्वं स्यादित्यर्थः ।। २० ।।

मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।

मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च ।। २१ ।।

प्र.दी. – मकारवाच्यप्राज्ञापरनामधेयकसंकर्षणोपासकफलं विवृणोति – मकारभावे प्राज्ञस्य इति । मकारभाव इति मकारवाच्यप्राज्ञापरनामधेयकसंकर्षणपरमात्मोपासनायामित्यर्थः । उत्कटं – उत्कृष्टं मानसामान्यं – सर्वज्ञत्वरूपमानसाम्यं भवति । मात्रासम्प्रतिपत्तौ – प्रणवांशभूतमकारवाच्यसंकर्षण- परमात्मध्याने सति ध्यातुः लयसामान्यमेव च – सर्वानिष्टलयकृत्परमात्मसाम्यं च भवतीत्यर्थः ।। २१ ।।

कू.भा. मकारेति । प्राज्ञस्य मकारभावे मकारत्वे प्रागुक्तमितिरूपनिमित्तेन प्रणवैकदेशमकारवाच्यत्वे विज्ञाते सति मानसामान्यं – सर्वान्तर्भावरूपप्राज्ञसाम्यम् उत्कटं – स्फुटमित्यर्थः । मात्रासंप्रतिपत्तौ – ऐन्द्रियिकविज्ञानलयकृत्त्वनिमित्तेन प्रणवांश मकारवाच्यत्वेन आत्मांशप्राज्ञध्याने तु ध्यातुः लयसामान्यं – दुःखादिलयकृत्त्वेन प्राज्ञसाम्यमेव स्यादित्यर्थः ।। २१ ।।

त्रिषु धामसु यत्तुल्यं सामान्यं वेत्ति निश्चितः ।

स पूज्यः सर्वभूतानां वन्द्यश्चैष महामुनिः ।। २२ ।।

प्र.दी. – अनिरुद्धाधुपासकफलवेत्तारः सर्वभूतवन्द्या भवन्तीत्याह – त्रिषु धामस्विति । त्रिषु धामसु विश्वतैजसप्राज्ञापरनामधेयकानिरुद्धप्रद्युम्नसंकर्षणेषु ध्यातेषु सत्सु ध्यातुर्यत्तुल्यं ध्येयविश्वादिसामान्यं सादृश्यं भवतीति निश्चित: सन् यः वेत्ति – जानाति – सः – महामुनिः । सर्वभूतानां पूज्यो भवति । वन्द्यश्च – नमस्कारयोग्यश्च भवति ।। २२ ।।

कू.भा. – विश्वादिरूपाणामत्वोत्वमत्वज्ञानिनो यदादिसामान्यादिफलमुक्तं तद्दार्ढ्याय विश्वादेरत्वादिज्ञानिन आदिसामान्यादिकं फलमिति यो जानाति तस्याप्यस्ति फलमित्याह – त्रिष्विति । त्रिषु धामसु – त्रिषु रूपेषु उक्तविधया ध्यातेषु सत्सु ध्यातुः यत्तुल्यं ध्येयविश्वादिसादृश्यं सामान्यं – आदिमत्त्वादिसाम्यं च भवतीति निश्चितः – निश्चयवान् सन् वेत्ति सः – वेदिता महामुनिः – सर्वभूतानां पूज्यो वन्द्यश्च भवतीत्यर्थः ।। २२ ।।

अकारो नयते विश्वं उकारश्चापि तैजसम् ।

मकारश्च पुनःप्राज्ञं नामात्रे विद्यतेऽगतिः ।। २३ ।।

।। इति तृतीयः खण्डः ।।

प्र.दी. – विश्वादिरूपत्रयोपासनात्सर्वकामाप्त्यादिफलमुक्त्वा अद्य विश्वादिप्राप्तिमाह – अकारो नयते विश्वमिति । अकारः – प्रणवावयवभूतोकारः स्वोपासकं विश्वं नयति विश्वापरनामधेयकमनिरुद्धं प्रापयति । उकारश्चापि तैजसं – प्रणवावयवभूतोकारश्चापि तैजसं तैजसापरनामधेयकप्रद्युम्नं प्रापयति । मकारश्च पुनः प्राज्ञं प्रणवावयवभूतमकारः स्वोपासकं पुनरपि प्राज्ञं संकर्षणं नयति – प्रापयति । नयतीति सर्वत्रानुवर्तते । सुषुप्तौ जीवस्य प्राज्ञेन सहानुदिनं सम्बन्धस्य विद्यमानत्वात्पुनरपीत्युक्तिः । नामात्रे विद्यते गतिः अकारोकारयोः मकारेणैकीभूतत्वमस्तीति कृत्वा त्रयाणां मात्रत्वं सिद्धम् । अस्य नादस्याशब्दरूपेण अभावादमात्रत्वम् । तस्मादमात्रे नादामात्रे नादात्मकतुरीयापरनामधेयक श्रीवासुदेवोपासने सतीत्यर्थः । अगति: परमात्मप्राप्यभावः न विद्यते – नास्ति । नञ् द्वयस्य अस्त्यर्थबोधकत्वात् वासुदेवसाम्यमस्त्येवेत्यर्थः । तुरीये अस्ति गतिरिति वक्तव्ये विद्यत इत्युक्ति: विश्वादेरिव यथा बाह्यादिव्यापारकारणत्वं नास्ति । तथा गम्यत्वमपि नास्तीति कुशंकानिवारणार्थं अगतिर्नविद्यत इत्युक्ति: ।। २३ ।।

कू.भा. – विश्वादिरूपोपासनात् सर्वकामावाप्त्यादिफलमुक्तं प्राक् । इदानीं विश्वादिप्राप्तिरूपफलं चाह – अकार इति । अकार: अ इत्याक्रियमाणो विश्व: स्वात्मोपासकं विश्वं – स्वात्मानं नयति – प्रापयति । उकारश्चापि तैजसमित्यादौ – नयत इत्यनुकर्षः । प्राग्वद्याख्या । पुन: प्राज्ञमिति – पुनश्शब्द: प्रत्यहं सुप्तौ प्राप्तिसत्त्वेऽपि स्थानविशेषे मुक्तौ तत्प्राप्त्यभिप्रायेणेति ज्ञेयम् । तुरीयोपासकस्य कथमित्यतस्तस्यापि तत्प्राप्तिरस्तीत्याह – नामात्र इति । विश्वतैजसयोः प्राज्ञेन प्रतिदिनमेकीभावोऽस्तीति विश्वादीनां मात्रत्वम् । तुरीयस्य तन्नेत्यमात्र इत्युच्यते तुरीयः । अमात्रे . चतुर्थे अगतिः – तत्प्राप्त्यभावस्तदुपासकस्य न विद्यते । विद्यत एव गतिरित्यर्थः । तुरीयेऽस्ति गतिरिति वक्तव्ये अगतिर्न विद्यत इत्युक्तिः विश्वादेरिव बाह्यादिव्यवहारकारणत्वं यथा नास्ति तथा गम्यत्वमपि नेति शंकावारणार्थमिति ज्ञेयम् ।। २३ ।।

ओंकारं पादशो विद्यात्पादामात्रा न संशयः ।

ओंकारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ।। २४ ।।

प्र.दी. प्रणवे प्रणवावयवाकारादिवाच्यप्रद्युम्नादिव्यूहचतुष्टयध्यानपूर्वक समस्तप्रणव- शब्दवाच्यपरवासुदेवध्याने अन्यस्मरणत्यागःकर्तव्य इत्याह – ओंकारं पादशो विद्यात् इति । ओंकारं – समस्तप्रणवप्रतिपाद्यं परवासुदेवं पादशो विद्यात् – पादभूताकारादिप्रतिपाद्या- निरुद्धप्रद्युम्नसंकर्षणवासुदेवव्यूहचतुष्टयसहितं जानीयादित्यर्थः । पादाः के? इत्यत्राह-मात्रा: अकारादय इति । विद्यात् । न संशयः ओंकारं पादशो ज्ञात्वा – ओंकारवाच्यं परवासुदेवं प्रद्युम्नादिव्यूहचतुष्टयविशिष्टत्वेन ज्ञात्वा न किञ्चिदपि चिन्तयेत् – ध्यानसमये देवतान्तर- साधनान्तरविषयान्तरादिकं न स्मरेदित्यर्थः ।।

कू.भा. – प्रणवावयवाकारादि प्रतिपाद्यभगवद्रूपज्ञानमन्यस्मरणत्यागेन सम्पाद्यमित्यत्र मन्त्रान् ब्रह्मदृष्टानाह अत्रैते’ इति । अत्र उक्तार्थे । ओंकारमिति । ओंकारं – ओमित्याक्रियमाणं समग्रप्रणवप्रतिपाद्यं पादश: – पादैः पद्यन्ते प्राप्यन्ते स्वोपासकैरिति पादैर्विश्वाद्यंशै: विश्वादिचतूरूपात्मना जानीयात् । पादाः किंरूपा इत्यत आह – पादा इति । मात्रा: – प्रणवांशभूताकारादि प्रतिपाद्या इत्यर्थः । ओंकारं – प्रणववाच्यं पादशः – चतूरूपतया ज्ञात्वा किञ्चिदपि न चिन्तयेत् – इतरचिन्तया जायमानफलस्य ततोऽधिकफलस्य चैतद्ज्ञानादेव सिद्धेरिति भावः ।। २४ ।।

युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।

प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ।। २५ ।।

प्र.दी. – समस्तप्रणवशब्दवाच्यपरवासुदेवध्यानयुक्तस्य क्वचिदपि संसारभयं नास्तीत्याह – युञ्जीत प्रणवे चेत इति । प्रणवे – सर्ववेदवेदाद्यन्तेषु हरिशब्दसामानाधिकरण्यतया शिष्टजनप्रयुक्तोंकारवाच्यपरवासुदेवस्वरूपे चेत: – मनः युञ्जीत – संयोजयेत् । ओमित्यात्मानं युञ्जीत (महा.ना.१८) इति श्रुत्यन्तरम् । प्रणवो ब्रह्म निर्भयम् । प्रणववाच्यं वस्तु आश्रितसंसारभयनिवर्तकबृहत्त्वादिगुणयुक्तपरंब्रह्मेत्यर्थः । प्रणवे – नित्ययुक्तस्य प्रणववाच्यपरवासुदेवे नित्यध्यानायुक्तस्य जीवस्य न भयं विद्यते क्वचित् , कालत्रयेऽपि संसारभयं नास्तीत्यर्थः । च पुनरावर्तते (छां.उ. ८-१५-१) इति श्रुत्यन्तरम् ।। २५ ।।

कू.भा. – संसारभयं तितीर्पणा ओंकारो भगवान् सर्वथा ध्येय इत्यत्र श्लोकं पठति युञ्जीतेति । प्रणवे – प्रणववाच्ये हरौ चेतो युञ्जीत – तद्विषयं कार्यम् । स कीदृशः प्रणव इत्यत आह – प्रणवो ब्रह्मेति । गुणैर्ब्रहणात् पूर्णत्वात् ब्रह्म विश्वादिरूपचतुष्टयात्मकः प्रणवः निर्भयं; यतो ब्रह्मगुणपूर्णमिति । विश्वादिचतूरूपो हरिर्जाग्रदाद्यवस्था प्रणयनाद्वा प्रणव इत्युच्यते । प्रपूर्वान्नयतेर च्प्रत्यये धातोर्नुशब्दादेशे गुणावादेशणत्वेषु प्रणव इति सिद्धिः । फलमाह – प्रणव इति । तस्मिन्प्रणवे हरौ नित्ययुक्तस्य – नित्यं तद्ध्यायिन इत्यर्थः । क्वचित् – केनापि निमित्तेनेत्यर्थः । फलसाम्यार्थमेव ब्रह्म निर्भयमिति विशेषणोक्तिः ।। २५ ।।

प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः ।

अपूर्वोऽनन्तरो बाह्यो न परः प्रणवोऽव्ययः ।। २६ ।।

प्र.दी. – प्रणवं – प्रणवशब्दवाचं परवासुदेवं च स्तौति – प्रणव इति । प्रणवो ह्यपरं ब्रह्म – प्रणवः ओँकारः हीति प्रसिद्धौ । अपरं ब्रह्म – शब्दरूपमप्रसिद्धं परं ब्रह्म ओमित्येकाक्षरं ब्रह्म (भ.गी. ८-१३) इति श्रुत्यन्तरप्रसिद्धमित्यर्थः । प्रणवश्च – तादृशप्रणववाच्यः परबासुदेवः परः । परिपूर्णत्वादिगुणविशिष्टः इति स्मृतः । अपूर्वः – न विद्यते पूर्वं कारणं यस्य अपूर्वः । अनन्तरः – अन्तशब्दपर्यायो ह्यन्तरशब्दः । न विद्यते अन्तरं नाशो यस्य अनन्तरः । नित्य इत्यर्थः । यद्वा न विद्यते अन्तरं सजातीयवस्त्वन्तरं यस्मान्नास्तीत्यनन्तरं असदृश इत्यर्थः । अबाह्यः – सर्वगतत्वादस्य बाह्यं नास्तीत्यबाह्यः । न परः, परः उत्कृष्टो यस्मानास्तीति न परः । प्रणवः – प्रकर्षेण स्वाश्रितान् स्वसमीपं नयतीति प्रणवः । प्रपूर्वान्नयतेरच्प्रत्यये धातोः नुशब्दादेशे गुणावादेशणत्वेषु कृतेषु प्रणव इति रूपं भवति । एतादृशः परमात्मा अव्ययः – सदैकरूप इत्यर्थः ।। २६।।

कू.भा. – विश्वादिरूपाणामन्योन्यं मूलरूपेण च न गुणतारतम्यमित्याह – प्रणव इति । अपरं – अपर: पूर्वतनः । मूलरूपपूर्वावतारात्मा प्रणवः – हरिः ब्रह्म – पूर्णः । हि प्रसिद्धमेतत् । सर्वेषु भूतेष्वेतमेव ब्रह्मत्याचक्षत इत्यादाविति भावः । परं – यश्चात्मनो विश्वाद्यवताररूपः प्रणवः हरिश्च ब्रह्म पूर्ण इत्याकर्षः । स्मृतः – श्लोकद्रष्ट्रेति योज्यम् । पूर्वावतारे पश्चिमावतारे च पूर्णतैव । न क्वचिन्न्यूनतेति भावः । प्रणवो ब्रह्मेत्युक्तं पूर्णत्वं व्यनक्ति – अपूर्व इति । न विद्यते पूर्व कारणं यस्य सोऽपूर्व: प्रणवः – नाशाभावादनन्तरः । अन्तशब्दपर्या- योऽत्रान्तरशब्दः । सर्वगतत्वादबाह्यः । पराधीनस्थित्यभावान्नपरः । अव्ययः – शश्वदेकप्रकारः ।। २६ ।।

सर्वस्य प्रणवो ह्यादिमध्यमन्तस्तथैव च ।

एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ।। २७ ।।

प्र.दी. – एवं प्रणव प्रणवार्थज्ञानिनः फलमाह – सर्वस्येति । प्रणवः सर्वस्य वेदस्य आदिः । मध्यः । तथैव चान्तः । आदिमध्यान्तेषु च प्रयुक्त इत्यर्थः । यद्वा प्रणव: प्रणवशब्दवाच्यः परवासुदेवः सर्वस्य – प्रपञ्चस्य आदिः – सृष्टिकर्ता, मध्यः – पालनकर्ता, तथैव चान्तः – प्रलयकर्ता च । जगज्जन्मादिकारणमित्यर्थः । एवं हि प्रणवं ज्ञात्वा – प्रणवं प्रणवशब्दार्थं च एवं प्रकारेण ज्ञात्वा, अनन्तरं । प्रारब्धकर्मभोगानन्तरं तत् – वासुदेव परब्रह्म व्यश्नुते – विशेषेण प्राप्नोतीत्यर्थः ।। २७।।

कू.भा. – सर्वस्येति । प्रणवः – हरिः सर्वस्य – आदिः – कारणं, मध्यं – स्थितिकर्ता, तथा अन्तः । नाशकर्ता च स एवेति निश्चये तद्ज्ञानिनः फलमाह – एवं हीति । एवं – ब्रह्मवादिना प्रकारेण प्रणवं – हरिं ज्ञात्वा अनन्तरं – प्रारब्धभोगानन्तरं तत् – ब्रह्म व्यश्नुते – विशेषेण प्राप्नोति । सदा सत्त्वेऽपि स्थानादिविशेषाभिप्रायेण वीत्युक्तिः ।। २७ ।।

प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम् ।

सर्वव्यापिर्नमोंकारं मत्वा धीरो न शोचति ।। २८ ।।

प्र.दी, – प्रणवशब्दवाच्यसर्वहृदिस्थित श्रीपरवासुदेवोपासकस्संसारदुःखं न प्राप्नोतीत्याह – प्रणवमिति । प्रणवशब्दवाच्यं परवासुदेवं सर्वस्य हृदि संस्थितं – सर्वस्य हृदि नियमनाथं स्थितं ईश्वरं – ब्रह्मादिनियन्तारं विद्यात् – जानीयादित्यर्थः । धीरः – धिया ब्रह्मविषयकबुद्ध्या रमतीति धीरः ज्ञानी सर्वव्यापिनं अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः (तै.ना. २५) इति श्रुत्यन्तरसिद्ध श्रीमन्नारायणं ओंकारं – ओंकारवाच्यं प्रकृतपरवासुदेवं मत्वा – ज्ञात्वा न शोचति – तत्कृपया संसारदुःखं न प्राप्नोतीत्यर्थः ।। २८ ।।

कू.भा. – उपासने स्थानविशेषं विदधत् प्रणवस्य हरेर्महिमान्तरमाह – प्रणवं हीति । ईश्वरं – सर्वनियामकं प्रणवं हरिं सर्वस्य हृदि संस्थितं विद्यात् – उपासीत ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति तमेव शरणं गच्छ (भ.गी. १८-६१,६२) इति स्मृतेरिति भावः । एवं सर्वव्यापिनं ओंकारं – ओमित्याक्रियमाणं मत्वा उपास्य धीरः – ज्ञानी न शोचति आविर्भूतापहतपाप्मत्वादिगुणाष्टको मुच्यत इत्यर्थः ।। २८ ।।

अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमश्शिवः ।

ओंकारो विदितो येन स मुनिर्नेतरो जनः ।।

स मुनिर्नेतरो जन इति ।। २९।।

।। इति गौडपादीयाः माण्डूक्यकारिकाः।।

प्र.दी – ओंकारवाच्यपरवासुदेवोपासकः मुक्तो भवतीत्याह – अमात्र इति । न विद्यन्ते मात्राः अंशाः विश्वादिसंज्ञिकाः यस्य अमात्रः । मूलरूपपरवासुदेव इत्यर्थः । स एवानन्तमात्रः । अनन्ताः मात्राः रामकृष्णादिरूपाः अंशाः यस्य स अनन्तमात्रः । अनन्तावतारकन्दभूतः द्वैतस्योपशमः द्वैतस्य प्रपञ्चस्य उपशान्तिः प्रलयकाले ह्यस्मिन्निति उपशमः । शिवः – मङ्गलकर: ओंकारः समस्तप्रणववाच्य परवासुदेवः येनोपासकेन विदितः – विज्ञातः सः मुनि: – मुक्तो भवति । इतरः – एतादृश परवासुदेवाविज्ञाता न मुक्तो भवति । किन्तु जनो भवति – जननादिविशिष्टो भवति इत्यर्थः । स मुनिर्नेतरो जन इति द्विरुक्तिरुपनिषत्समाप्तिबोधिका ।। २९ ।।

अस्यामुपनिषदि प्रथमखण्डे प्रणवावयवभूताकारोकारमकारवाच्यविश्वादिषु प्रद्युम्नादिदृष्टिः कर्तव्येत्युक्ता । द्वितीयखण्डे जाग्रत्स्वप्नसुषुत्यधिष्ठानभूतानां विश्वादीनां वैभवमुक्त्वा प्रपञ्चः ब्रह्मविवर्तः इत्यसद्वादिनामभिप्रायं चोक्त्वा, प्रपञ्चसृष्टिर्भगवतस्स्वभाव इत्यन्यदसत्यमिति तुरीयस्वरूपं विश्वादिविलक्षणमित्युपास्योपासकभावस्सत्य इत्यन्यदसत्यमिति सतामुपदेशान्ते तादृशमोहो निवर्तत इत्यादिकं प्रतिपादितम् । तृतीयखण्डे विश्वादयो अकारादिवाच्या: इति तेषु अनिरुद्धादिदृष्टिः कर्तव्येति एतादृशज्ञानिनां फलमुक्त्वा अन्तकाले अकारादयस्स्वोपासकजनान् विश्वादीन्नयतीत्युक्तम् । अथ चतुर्थखण्डे व्यूहवासुदेवस्वरूपं तदुपासकलब्धफलं चोक्त्वा समस्तप्रणवशब्दवाच्यपरवासुदेवोपासक: मुक्तो भवतीत्यन्येषां मुक्तिर्नास्तीत्युक्तम् । ततश्चोपक्रमोपसंहारेषु ब्रह्मणः मायाविद्याभ्यां जीवेश्वरत्वकल्पनं तन्मिथ्यात्वकल्पनं च यत्र कुत्रापि नोक्तम् । किन्तु प्रणवशब्दवाच्यः परवासुदेव इति तदुपासको मुक्तो भवतीत्युक्तम् ।।

।। भारद्वाजरामानुजाचार्यविरचिता गौडपादीयमाण्डूक्यकारिकाप्रतिपदार्थदीपिका समाप्ता ।।

कू.भा. – एवमुक्तां समस्तव्यस्तप्रणवाभिधेय भगवदुपासनामनुवदन् तद्ज्ञानिनः स्तवेनोपसंहरति – अमात्र इति । अमात्र: मात्राः अंशाः । तद्विहीन: अमात्रः – मूलरूपेण स्थित इति यावत् । अनन्तमात्रः – जगद्व्यापारनिर्वहणार्थमिच्छाकृतविश्वाद्यनन्तांशः इच्छागृहीताभिमतोरुदेहः (वि.पु. ६-५-८४) इति स्मृतेः । द्वैतस्योपशमः – स्वोपासकानां सर्वानिष्टनिवर्तकः, शिवः – निर्दुःखसुखरूपः, ओंकारः – ओमित्याक्रियमाण: । एवं रूपो येन विदितः – ज्ञातः मुनिः नेतरः; किन्तु सः जनः जननमरणादिना परिवर्तत इत्यर्थः । मुनिस्तु मुच्यत इति भावः । स मुनिर्नेतरो जनः इति द्विरुक्तिरुक्तसर्वप्रमेयावधारणार्था । उपनिषत्समाप्त्यर्था च ।। २९ ।।

।। श्रीकूरनारायणमुनिविरचितं गौडपादीयमाण्डूक्यकारिकाभाष्यं समाप्तम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.