माण्डूक्योपनिषत्-श्रीमद्रङ्गरामानुजमुनि

।। श्रीः ।।

माण्डूक्योपनिषत्

(अथर्ववेदीयोपनिषच्छान्तिपाठः)

ओम्

भद्रं कर्णेभिः शृणुयाम देवा: भद्रं पश्येमाक्षभिर्यजत्राः ।

 स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायु: ।।

 स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

 स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।

।।ओं शान्तिः शान्तिः शान्तिः ।।

देवाः – हे देवाः ! भद्रम् – कल्याणम् (वेदाख्यं, साङ्गेतिहासपुराणम्), कर्णेभिः – श्रोत्रैः शृणुयाम – श्रोतुं, समर्था भवेम । यजत्राः – हे यजत्राः ! यजन्तं त्रायन्ते रक्षन्तीति यजत्राः, यजमानपालका: अक्षभिः – नेत्रैः, भद्रम् – कल्याणम्, पश्येम – द्रष्टुं समर्था भवेम । स्थिरैः – दृढै:, अङ्गैः – करचरणाद्यवयवैः, तथा तनूभिः – शरीरैः, युक्ताः, तुष्टुवांसः – भवतः स्तुवन्तः (वयम्), देवहितम् – देवैः स्थापितं देवानां हितं देवोपासनयोग्यं वा, यदायुः – शतप्रमाणमायुः इति शतप्रमाणमायुः, व्यशेम – प्राप्नुयाम ।

 पूर्वत्र प्रत्यक्षेण प्रार्थिता देवाः । अत्र तु परोक्षेण निर्दिश्य एकैकशः प्रार्थ्यन्ते । न: – अस्माकं, वृद्धश्रवाः – वृद्धश्रवणः, सदा श्रोत्रश्रवणात्, यद्वा वृद्धेः महात्मभिः सदा श्रूयते इति वृद्धश्रवाः, इन्द्रः – इन्द्रः, स्वस्ति – कल्याणं दधातु – विदधातु । तथा विश्ववेदाः – विश्वैः विद्यते ज्ञायते लभ्यते वेति विश्ववेदाः – यद्वा विश्वानि ज्ञानानि धनानि वा यस्येति बहुर्व्रीहि:

 पूषा – सूर्यः न: – अस्माकं स्वस्ति – कल्याणं दधातु – विदधातु; एवम् अरिष्टनेमिः – अनुपक्षीणनेमिः प्रथिर्नेमिः, तार्क्ष्यः – तायो नाम छन्दोमयो रथ: यः, विहगराजो वा, न: – अस्माकं, स्वस्ति . कल्याणम्, दधातु – विदधातु । बृहस्पति: – देवगुरुश्च, नः, अस्माकं, स्वस्ति – कल्याणं दधातु – विदधातु’ ।।

माण्डूक्योपनिषत्

प्रथमः खण्डः

[प्रणवशब्दवाच्यः परमात्मा]

 हरिः ओम् । ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानम् । भूतं भवद् भविष्यदिति सर्वमोंकार एव । यञ्चान्यत् त्रिकालातीतं, तदप्योंकार एव ।। १ ।।

प्रकाशिका

श्रीमद्रङ्गरामानुजमुनिविरचिता

[मङ्गलाचरणम् ]

अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया ।

अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।। १ ।।

व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि ।

माण्डूक्योपनिषव्द्याख्यां करिष्ये विदुषां मुदे ।। २ ।।

ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानम् । अकार-उकार-मकारार्धमात्रात्मकपादचतुष्टयवति ओंकारे अनिरुद्ध-प्रद्युम्न-संकर्षण-वासुदेवापरपर्यायविश्व-तैजस-प्राज्ञ-तुरीयाख्यपादचतुष्टययुक्तब्रह्मदृष्टिविधानायेदं प्रकरणमारभ्यते । ओमित्येतदक्षरमिदं सर्वं – चेतनाचेतनात्मकमिदं सर्वं जगदोंकाररूपमेव । तद्यथा शंकुना सर्वाणि पर्णानि सन्तृण्णान्येवमोंकारेण सर्वा वाक्सन्तृण्णा, ओंकार एवेदं सर्वम् (छां.उ.२-२३-३,४) इति श्रुत्यन्तरात् । ‘तस्य उपव्याख्यानं । गुणविभूत्युपासनप्रकारप्रपञ्चनम् , क्रियत इति शेषः । भूतं भवद्भविष्यदिति सर्वमोंकार एव । यञ्चान्यत् त्रिकालातीतं तदप्योंकार एव । कालत्रयपरिच्छिन्नं कालत्रयापरिच्छिन्नं च सर्वमोंकार एवेत्यर्थः । प्रणवोत्पन्नव्याहृतिमूलकवेदसृष्टत्वात् सर्वस्य जगत इति भावः ।। १ ।।

[नादात्मकः पादचतुष्टययुक्तः परमात्मा]

सर्वं ह्येतद् ब्रह्म; अयमात्मा ब्रह्म।

 सोऽयमात्मा चतुष्पात् ।। २ ।।

इति प्रथमः खण्डः ।।

सर्वं ह्येतद्ब्रह्मेति । कालत्रय परिच्छिन्नात्मकं सर्वमपि वस्तु ब्रह्मैवेत्यर्थः । ततः किमित्यत्राह – अयमात्मा ब्रह्मेति । अयं ओंकारस्सर्वात्मभूतं ब्रह्मैव । ततश्च ओंकारे सर्वात्मभूतब्रह्मदृष्टि: कर्तव्येत्यर्थः । सोऽयमात्मा चतुष्पादिति । ओंकारे अध्यस्यमानोऽयमात्मा पादचतुष्टययुक्त इत्यर्थः ।। २ ।।

द्वितीयः खण्डः

[वैश्वानरात्मकः ओंकारस्य प्रथमपादः]

जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुख: स्थूलभुग्वैश्वानरः प्रथमः पादः ।।१।।

तदेव पादचतुष्टयं प्रपञ्चयति – जागरितस्थानो बहिः प्रज्ञ इति । जागरितं स्थानं – यस्य स जागरितस्थानः, जाग्रद्दशानिर्वाहक इत्यर्थः । जागरिते ब्रह्मा (ब्रह्मो. १) इति ब्रह्मशब्दितस्य अनिरुद्धस्यैव जाग्रद्दशानिर्वाहकत्वात् । बहिःप्रज्ञ: – बहि: रूपादौ प्रज्ञा येन सः बहिःप्रज्ञः । सप्ताङ्गः – एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा सन्देहो बहुल: वस्तिरेव रयिः पृथिव्येव पादौ (छां.उ.५-१८-२) इति वैश्वानरविद्योक्तरीत्या द्युसूर्यवाय्वाकाशवारिपृथिवीरूपैः मूर्धचक्षुःप्राणमध्यकायमूत्राशयपादरूपैः षड्भिरङ्गैर्जाग्रता जीवेन च सप्ताङ्गत्वं द्रष्टव्यम् । एकोनविंशतिमुख: – पञ्चज्ञानेन्द्रियपञ्चकर्मेन्द्रियपञ्चप्राणान्तःकरणचतुष्टयरूपैः मुखैः एकोनविंशतिमुखत्वम् । एषामधिष्ठेयत्वं जाग्रदवस्थजीवद्वारा द्रष्टव्यम् । स्थूलभुक् – स्थूलं – रूपादिकं भुङ्क्ते इति स्थूलभुक् । भोजने प्रयोजककर्तृत्वात् । ऋतं पिबन्तौ (कठ.उ.३-२) इति परमात्मनिर्देशवदुपपत्तिः द्रष्टव्या । वैश्वानरः – विश्वान् नरान्नयतीति वैश्वानरः । स एक: पादः ।। १ ।।

[तैजसरूप: भगवान् प्रणवस्य द्वितीय: पादः]

स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमखः प्रविविक्तभुक्  तैजसो द्वितीयः पादः ।। २ ।।

स्वप्नस्थानोऽन्तःप्रज्ञ: इति । स्वाप्निकवस्तूनां जाग्रद्वदितरानुभाव्यत्वं नास्तीति तद्वस्तूनामनुभावयिता प्रद्युम्न: अन्तःप्रज्ञ उच्यते । सप्ताङ्गत्वैकोनविंशतिमुखत्वे तस्य स्वाप्निकैरीश्वरसृष्टैः द्युसूर्यादिभिः प्राणेन्द्रियैः तदानीम् ‘अप्रलीनान्त:करण’ चतुष्टयेन च पूर्ववद्रष्टव्ये । स्वाप्नार्थानां तत्तत्पुरुषमात्रभोग्यतया स्वप्नदशापन्नस्य जीवस्य प्रविविक्तभुक्त्वात् तदधिष्ठातुस्तैजसशब्दितस्य प्रद्युम्नस्यापि प्रविविक्तभुक्त्वोक्तिर्द्रष्टव्या । इतराविदितानामतिसूक्ष्माणां स्वाप्नपदार्थानां तेजोवद्भासकत्वात्प्रद्युम्नस्य स्वप्नाधिष्ठातुस्तैजसत्वोक्तिः ।। २ ।।

[प्राज्ञात्मकः ओंकारस्य तृतीयः पादः]

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति, तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एव आनन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ।। ३ ।।

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति, तत्सुषुप्तमिति । यत्र स्थाने जीव: सुप्तः सन् रागादिदोषानुपहतः स्वप्नं च न पश्यति तत्स्थानं सुप्तम् । सुप्तमित्यधिकरणे क्त प्रत्यय इति भावः । सुषुप्तस्थान एकीभूतः इति । सुषुप्तस्थाने एकीभूतः – सुषुप्तस्थाने एकत्वं प्राप्तः स्वयं सुषुप्तिस्थानतया स्थित इत्यर्थः । तदभावो नाडीषु तच्छ्रुतेः आत्मनि च (ब्र.सू.३-२-५) इत्यधिकरणोक्तरीत्या ‘सुषुप्तस्थानस्सन’ प्रज्ञानघन: – ज्ञानस्वरूपः, आनन्दमय: आनन्दघन: जीवस्य सौषुप्तिकानन्दानुभावक: चेतोमुखः – विशुद्धचेतोग्राह्यः ज्ञानानन्दमय इति यावत् । आनन्दभुक् – यः प्राज्ञः संकर्षणाभिध: तृतीयः पाद इत्यर्थः ।। ३ ।।

[सृष्टिप्रलयकारक: भगवानेव]

एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिस्सर्वस्य । प्रभवाप्ययौ हि भूतानाम् ।। ४ ।।

एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामी एष योनिस्सर्वस्य प्रभवाप्ययौ हि भूतानामिति । योनि: – स्थानमित्यर्थः, योनिर्द्वयोर्भागे स्थाने (अ.को. २-६-७६) इति कोशात्  । शिष्टं स्पष्टम् । यद्यपि विश्वतैजसप्राज्ञानां त्रयाणां भगवव्द्यूहतया सर्वेश्वरत्वादिकमप्यविशिष्टम् । अथापि व्यवस्थितपूर्वोक्त ‘तत्तद्धर्मवत्तया’ त्रयाणामनुसन्धानं कर्तव्यमिति भावः ।। ४ ।।

[तुरीयस्य वासुदेवस्य निरूपणम्]

उपनिषत् –

नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं नप्रज्ञं नाप्रज्ञं अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा । स विज्ञेयः ।। ५।।

।। इति द्वितीयः खण्डः ।।

चतुर्थं पादं निर्दिशति – नान्त: प्रज्ञमिति । नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयत: प्रज्ञमिति – बहिःप्रज्ञान्तःप्रज्ञयोर्विश्वतैजसयोर्व्यावृत्तिः । न प्रज्ञानघनं न प्रज्ञमिति – प्रज्ञानघनस्य सुषुप्तिस्थानस्थस्य व्यावृत्तिः । प्रज्ञशब्दात् प्रज्ञादिभ्यश्च (पा.सू. ५-४-२८) इति स्वार्थे अण् । अतः प्राज्ञशब्दस्य स्वार्थाण्यन्ततया प्रज्ञप्राज्ञयोरेकार्थत्वात् । ननु प्रज्ञभिन्नत्वे अप्रज्ञत्वं स्यात् । एवं चाज्ञत्वप्रसंग इत्यत्राह – नाप्रज्ञमिति । प्रकर्षेण जानातीति प्रज्ञः । ज्ञानादिषड्गुणमध्ये ज्ञानप्रधानत्वेन प्रज्ञशब्दितात् सुषुप्तिस्थानस्थात्संकर्षणाद्भिन्नत्वेऽपि सर्वज्ञतया ‘अप्रज्ञत्वमपि नास्तीति भावः । अदृष्टं – बाह्येन्द्रियज्ञानागोचर अव्यवहार्यमग्राह्यं – वाग्घस्तादिकर्मेन्द्रियागोचरं । अत एव अलक्षणं, लक्ष्यतेऽनेनेति लक्षणं अनुमानं – अनुमानागम्यमित्यर्थः । अत एवाचिन्त्यं अव्यपदेश्यं इदमीदृगिति चिन्ता व्यपदेशानर्हं, एकात्मप्रत्ययसारं – एकात्मप्रत्ययगोचरम् । प्रपञ्चोपशमं . संकर्षणप्रद्युम्नानिरुद्धादिप्रपञ्चस्यापि उपशमो यस्मिन् तत्प्रपञ्चोपशमम् । एतन्नानावताराणां निदानं बीजमव्ययम् (भाग. १-३-५) इति स्मरणात् । शान्तं – ऊर्मिषट्करहितम् । शिवं – कदाचिदुत्पादविनाशाविर्भावतिरोभावगन्धरहिततयाशिवं मङ्गलं, अद्वैतं – सजातीयद्वितीय- रहितं, “एतादृशं वासुदेवं चतुर्थं मन्यन्ते । स आत्मा । आप्नोतीति ह्यात्मा । सर्वदेशकालसर्ववस्तुव्याप्तत्वात् संकर्षणादीनामपि स आत्मा । स विज्ञेयः । तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ (मुं.उ. २-२-५) इति श्रुतेः । तस्यैव विज्ञेयत्वमिति भावः ।। ५ ।।

तृतीयः खण्डः

[पादभूतस्य भगवतः मात्रास्वरूपत्वम् ]

हरिः ओम्  । सोऽयमात्मा अध्यक्षरमोंकारोऽधिमात्रम् । पादा मात्रा: मात्राश्च पादाः अकार उकारो मकार इति ।।१।।

सोऽयमात्माध्यक्षरमोंकारोऽधिमात्रम् । अध्यक्षरं-अक्षरेषु अधिमात्रम् – मात्रासु वर्तमानो य ओंकारो नादात्मकः स एव अयमात्मेत्यर्थः । पादा मात्रा मात्राश्च पादाः । यतो बह्मण: पादभूताः उक्ताः अनिरुद्धप्रद्युम्नसंकर्षणवासुदेवाः मात्राः – प्रणवमात्राभूताकारादिवाच्याः । अतोऽस्य ओंकारस्य या मात्राः – अकार-उकार-मकारात्मिकाः ता एव ब्रह्मणः पादभूता इत्यर्थः समस्तप्रणवे ब्रह्मदृष्टिं कृत्वा प्रणवमात्रासु अकारादिषु चतुर्पु चानिरुद्धादिचतुष्टयदृष्टि: कर्तव्या इत्यर्थः । तदेव दर्शयति – अकार-उकार-मकार इति । इदमुपलक्षणं नादस्यापि ।। १ ।।

[प्रणवाक्षरेषु अकाररूप: परमात्मा वैश्वानरः]

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा । आप्तेरादिमत्त्वाद्वा आप्नोति ह वै सर्वान् कामानादिश्च भवति । य एवं वेद ।। २ ।।

तदेव विविच्य दर्शयति – जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा । प्रथममात्रायां अकारे जागरितस्थानवैश्वानरशब्दितानिरुद्धदृष्टि: कर्तव्येत्यर्थः । वैश्वानरस्याकाररूपत्वे हेतुमाह – आप्तेरादिमत्त्वाद्वा । आप्ति: – व्याप्तिः । सकलशब्दप्रकृतिभूतस्याकारस्य सर्वशब्दव्याप्तत्वं सर्वजगद्व्याप्तस्यानिरुद्धस्येवेत्यवगन्तव्यम् । आदिमत्त्वाद्वा – सर्वशब्दादिभूताकारशब्दवाच्यत्वाद्वा वैश्वानरस्याकाररूपत्वमित्यर्थः । आप्तिमत्त्वादिमत्त्वज्ञानयोः फलमाह – आप्नोति ह वै सर्वान्कामानादिश्च भवति, य एवं वेद । आदिश्च भवति – सर्वप्रधानं भवतीत्यर्थः ।। २ ।।

[उकाररूप: तेजस: प्रणवद्वितीयमात्रा]

स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वा उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ।।३।।

स्वप्नस्थान इति । स्वप्नस्थानस्तैजस उकारो द्वितीयमात्रा । तैजसस्य उकाररूपत्वे हेतुमाह – उत्कर्षादुभयत्त्वाद्वा । विश्वापेक्षया तैजसस्य उत्कृष्टत्वाद्वा तत्समानयोः प्राज्ञतैजसयोर्द्वितीयत्वाद्वा उकाररूपत्वम् इत्यर्थः । अत्र विश्वापेक्षया तैजसस्योत्कृष्टत्वं ततोऽपि सूक्ष्मत्वात् । प्राज्ञतैजसयोर्विश्वापेक्षया साम्यं तु गुणपूर्तिसाम्यादिति द्रष्टव्यम् । एवमुकारस्याप्यकारलयस्थानत्वात्ततः उत्कृष्टत्वम् । उकारमकारयोरकारसाम्यं च वर्णत्वादिनेति ध्येयम् । उत्कृष्टत्वज्ञानस्य फलमाह – उत्कर्षति ह वै ज्ञानसन्ततिमिति । शिष्यप्रशिष्यादिषु ज्ञानसन्तत्या उत्कृष्टो भवतीत्यर्थः । एवंविदस्सन्ताने ब्रह्मविद्या इतरसन्तानापेक्षया अतिरिच्यत इति यावत् । उभयत्वज्ञानस्य फलमाह – समानश्च भवति । उत्कृष्टानां समानश्च भवतीत्यर्थः । नास्याब्रह्मवित्कुले भवति य एवं वेद । स्पष्टोऽर्थः ।। ३ ।।

[तृतीयमात्रायाः मकारस्य निरूपणम् ]

सुषुप्तस्थानो प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा । मिनोति ह वा इदं सर्वं अपीतिश्च भवति, य एवं वेद ।। ४ ।।

सुषुप्तस्थान इति । सुषुप्तस्थानः प्राज्ञो मकारस्तृतीयामात्रा । मकाररूपत्वे युक्तिमाह – मितेरपीतेर्वा । मिनोति ‘प्राज्ञः सर्वमात्मनि तादात्म्येन मकारोऽपि स्वात्मनि अकारोकारौ मिनोति मकारावधिकत्वादकारोकारयोरित्यर्थः । अपीति: – प्रलयः । प्राज्ञे – जगत्प्रलीयते, मकारे हि अकारोकारौ प्रलीयेते । मकारावसानत्वादकारोकारयोरित्यर्थः । तद्ज्ञानद्वयस्य फलं क्रमेणाह – मिनोति ह वा इदं सर्वमपीतिश्च भवतीति । इदं सर्वं जगत् मिनोति – परिच्छिनत्ति जानातीत्यर्थः । अपीतिश्च भवति – परमात्मनि लयश्च तस्य भवति । य एवं वेदेत्यर्थ: ।।४।।

चतुर्थः खण्डः

[प्रणवस्थनादस्य निरूपणम् ]

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोंकार आत्मैव संविशत्यात्मनात्मानम् । य एवं वेद, य एवं वेद ।। १ ।।

।। इति चतुर्थः खण्डः ।।

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमश्शिवोऽद्वैत एवमोंकार आत्मैव । अमात्रः – परिच्छेदशून्यः अव्यवहार्यत्वादि पूर्वोक्तलक्षणोपेतश्चतुर्थ: आत्मैव व्यूहवासुदेव एव । एवमोंकारः । एवम्भूत ओंकार: ओंकारैकदेशनादरूप इति यावत् । अस्य व्यूहवासुदेवस्य परवासुदेवेन समस्तप्रणवरूपेणातिसन्निकृष्टैक्यसूचनार्थमोंकार इति समस्तनिर्देशः । तद्ज्ञानस्य फलमाह – संविशत्यात्मनात्मानं य एवं वेद । एवं – अनिरुद्धप्रद्युम्नसंकर्षणवासुदेवपरवास्तु देवरूपेण व्यस्तसमस्तप्रणवोपासकः आत्मना – परमात्मनानुगृहीतः सन् तेनैवोपायेन क्रमात्तमेव प्राप्नोति इत्यर्थः ।। १ ।।

क्षेमाय य: करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः ।

वामागमाध्वगवदावदतूलवातो रामानुजस्स मुनिराद्रियतां मदुक्तिम् ।।

इति श्रीरङ्गरामानुजमुनिविरचितमाण्डूक्योपनिषत्प्रकाशिका समाप्ता ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.