मुण्डकोपनिषत् तृतीयमुण्डके प्रथमखण्डः

मुण्डकोपनिषत्

तृतीयमुण्डके प्रथमखण्डः

[जीवब्रह्मणोः वैलक्षण्यम् |

‘द्वा सुपर्णा सयुजा सखाया समान वृक्षं परिषस्वजाते ।

तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति ।। १ ।।

ननु एकस्यैव ब्रह्मणः सर्वदेहानुप्रवेशे तस्य सुखदुःखभोक्तृत्वप्रसङ्गः ‘इत्यत्राऽऽह – द्वा सुपर्णा इति । युज्यत इति युक् । युक्शब्दो गुणपरः । समानगुणकः सयुक् इति व्यासायैविवृतत्वात् । सयुजौ – समानगुणको अपहतपाप्मत्वादिगुणैः परस्परसमानौ, सखायौ – सहचरौ । द्वौ सुपर्णौ पक्षिसदृशौ, समानम् – एकं, वृक्षम् – वृक्षवत् छेदनार्हं शरीरम् समाश्रितौ इत्यर्थः । तयोरन्यः इति । तयोर्मध्ये अन्यतर: जीवः स्वादु – परिपक्वं पिप्पलं – कर्मफलं, भुङ्क्ते । अन्यस्तु परमात्मा अभुञ्जान एव प्रकाशते । अत्र शरीरतदाश्रयजीवपरादिविषयवाचकशब्दनिगरणेन विषयिवाचकवृक्षसुपर्णादिशब्दैः वृक्षत्वाध्यवसानलक्षणरूपकातिशयोक्तिः विच्छित्तिविशेषायेति द्रष्टव्यम् ।।

[ईश्वरमाहात्म्यज्ञानवतः मुक्तिनिरूपणम् ]

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।

जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।।२।।

समाने वृक्षे इति । अनीशया – भोग्यभूतया प्रकृत्या मुह्यमान: पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययो, (ब्र.सू. ३-२-४) देहयोगाद्वा सोऽपि (ब्र.सू. ३-२-५) इत्युक्तन्यायेन तिरोहित परमात्मशेषत्वज्ञानानन्दलक्षणस्वस्वरूपः। सन् वृक्षे – वृक्षवत् छेदनार्हे एकस्मिन् शरीरे जीवः स्थूलोऽहं कृशोऽहम् इत्यादि तादात्म्यबुद्ध्या पांसूदकवत् तदेकतामापन्नः सन् तत्संसर्गकृतानि दुःखानि अनुभवतीत्यर्थः । जुष्टं यदा पश्यति इति । इतिशब्दो बुद्धिस्थप्रकारवचनः । चशब्दश्च अध्याहर्तव्यः । यदाऽसौ जीवो निमग्नात् स्वस्मात् धारकत्वनियन्तृत्वशेषित्वादिना विलक्षणं जुष्टं – स्वकर्मभिः प्रीतं परमात्मानम् , अखिल जगदीशन लक्षणमस्य महिमानं च यदा पश्यति । तदा वीतशोको भवतीत्यर्थः । केचित्तु – अनीशया – अनीशत्वेन असमर्थत्वेनेत्यर्थः । लौकिकोऽपि हि पंकादौ निमग्नः पंकादिसंबन्धेन मुह्यमानः – स्वयंनिर्गमनासमर्थत्वेन शोचन् स्वोद्धरणसमर्थं स्वयं पंकादावनिमग्नं स्वस्मिन् प्रीतिमत्त्वेन सुहृद्भूतम् , तस्योद्धरणसामर्थ्यं च दृष्ट्वा वीतशोको भवति तत्समाधिरत्रानुसन्धेयः । न च अस्मिन् पक्षे अनीशया भोग्यभूतया प्रकृत्या (१-३-४) इति भाष्यविरोध इति शंकनीयम् । भोग्यभूतयेत्यस्य अनीशयेत्येतद्विवरणरूपत्वाभावात् । तस्य सामर्थ्यलब्धार्थानुवादरूपत्वात् – इति वदन्ति ।

ननु कथं द्वा सुपर्णेति मन्त्रस्य जीवपरमात्मपरत्वम् । अन्त:करणजीवपरो ह्ययं मन्त्रः । पैङ्गिरहस्यब्राह्मणेऽस्य मन्त्रस्य तथा व्याख्यातत्वात् । तथा हि तयारन्य: पिप्पलं स्वाद्वत्तीति सत्त्वम् । अनश्नन्नन्यो अभिचाकशीति इति ज्ञः तावेतौ सत्त्वक्षेत्रज्ञौ इत्यत्र स्वाद्वत्तीत्येतदन्तस्य वाक्यस्य सत्त्वपरत्वम् , अनश्नन्नित्यादेः क्षेत्रज्ञपरत्वं च प्रतीयते । न च सत्त्वक्षेत्रज्ञशब्दौ जीवपरमात्मपरौ इति वाच्यम् – तयोः शब्दयोः अन्तःकरणजीवपरतया प्रसिद्धत्वात् । तदेतत् सत्त्वम् । येन स्वप्नं पश्यति अथ योऽयं शारीर उपद्रष्टा, स क्षेत्रज्ञः / तावेतौ सत्त्वक्षेत्रज्ञौ इति सत्त्वक्षेत्रज्ञशब्दयोः अन्तःकरणजीवशब्दाभ्यां पैङ्गिश्रुत्यैव व्याख्यातत्वाञ्च । येन पश्यतीति करणत्वप्रतीतेः सत्त्वं ह्यन्तःकरणम् ; स्वप्नद्रष्टुत्वाञ्च क्षेत्रज्ञो जीवः । अतोऽयं मन्त्रः अन्तःकरणजीवपरः इति चेत् –

‘न तावत् जीवपरमात्मपरत्वमस्य मन्त्रस्य अपवदितुं शक्यते । अनेन मन्त्रेण तुल्यार्थतया प्रत्यभिज्ञायमाने समाने वृक्षे पुरुषो निमग्न: इत्यनन्तरे मन्त्रे जीवपरयोः प्रतिपन्नत्त्वात् । अस्य मन्त्रस्य तदैकार्थ्याञ्च । समानं वृक्षं परिषस्वजाते, समाने वृक्षे पुरुषो निमग्न: इति तयोरैकार्थ्यं हि प्रतीयते । समाने वृक्षे इति मन्त्रे च पुरुषो जीवः । अन्तः करणस्य पुरुषशब्दवाच्यत्वाभावात् । शोचति मुह्यमानः पश्यति वीतशोक: इति पदानामस्वारस्यप्रसङ्गाच्च, अन्यश्च परमात्मा ; ईशशब्दोक्तत्वात्; स्वविषयज्ञानेन वीतशोकत्वहेतुत्वाञ्च । न केवलमनन्तर मन्त्रैकार्थ्यात् द्वा सुपर्णेतिमन्त्रस्य जीवपरमात्मपरत्वम् ; किंतु स्ववाक्ये स्वाद्वत्ति, अनश्नन्नन्यः इति भोक्तृत्वाभोक्तृत्वश्रवणाञ्च तदवसीयते । चक्षुश्श्रेत्रादीनां द्रष्टुत्वश्रोतृत्वादिवत् अन्त:करणस्यापि करणत्वादेव भोक्तृत्वं हि न संभवति । जीवस्य च वृक्षशब्दोक्तदेहपरिष्वङ्गदशायामेव अनश्नत्त्वमपि नोपपद्यते ।।

तर्हि पैङ्गिश्रुतेः कोऽर्थः । उच्यते, सत्त्वं बद्धजीवः । द्वव्यासु व्यवसायेषु सत्वमस्री तु जन्तुषु (अ.को. ३-३-२१३) इति नामानुशासनात् जन्तुपरत्त्वावगतेः । जन्तुश्च चेतनः । प्राणी तु चेतनो जन्मी जन्तुर्जन्यशरीरिण: (अ.को. १-४-३०) इति नामपाठात् । वन्यान् विनेष्यनिव दुष्टसत्त्वान् (रघु. २-८) इति प्रयोगात् – न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः / सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः ।। (भ.गी. १८-४०) इति दर्शनाच्च । क्षेत्रज्ञशब्दश्चात्र परमात्मपरः । अर्थान्तरप्रसिद्धाकाश प्राणादिशब्दवत् अर्थानुपपत्त्या परमात्मपरत्वोपपत्तेः । विष्णोर्नामसहस्रं मे (महा.भा.शां. १४९-१२) इत्युपक्रम्य, क्षेत्रज्ञोऽक्षर एव च (महा.भा.शां. १४९-१५) इति परमात्मनि प्रयोगात् । क्षेत्रं जानातीति अवयवार्थस्य तस्मिन्नेव पुष्कलत्वाञ्च ।।

मोक्षधर्मे –

ततस्रैगुण्यहीनास्ते परमात्मानमञ्जसा

प्रविशन्ति द्विजश्रेष्ठ ! क्षेत्रज्ञं निर्गुणात्मकम् ।।

सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः /(महा.भा.शां.३३२१६,१७)

इति तत्रैव –

विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः

एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ।।

क्षेत्राणि शरीराणि ज्ञानानि शुभाशुभे।

तानि वेत्ति योगात्मा तत: क्षेत्रज्ञ उच्यते ।।

(महा.भा.शां.३३९-५,६)

इति प्रयोगात् । तत्रैव कपिलासुरिसंवादे – ज्ञानानामासुरे क्षेत्रे’ क्षेत्रज्ञो द्रष्टा शुचिरुपेक्षकः । ज्ञातृको बुद्ध्यमानाप्रतिबुद्धयोः परममृतं विदित्वा निरवयवम् अनामयमस्माद् दुःखात् विमुच्यत एव इति बुद्ध्यमानाप्रतिबुद्धशब्दाभिहितयोः चिदचितोः परस्य क्षेत्रज्ञशब्देनाभिधानात् । तत्रैव पञ्चविंशतितत्त्वानि वर्गशब्देनोक्त्वा, एतस्माद् वर्गादपवृत्तः अपवर्गदः क्षेत्रज्ञः शुचिरुपेक्षको बुद्ध्यमानाप्रतिबुद्धयोः परस्तात् इति । तत्रैव अन्यदुदकम् अन्यत् पुष्करपर्णम् , तथाऽन्यत् क्षेत्रम् अन्यः पुरुषः पञ्चविंशक: अन्यश्चास्मात् क्षेत्रज्ञः इति, पुनश्च तत्रैव – एवमासुरे ! अन्यद्द्रव्यम् अन्यः पुरुषः पञ्चविंशतितत्त्वम् अन्योऽस्मात् क्षेत्रज्ञ: इति पञ्चविंशात् परस्मिन् क्षेत्रज्ञशब्दप्रयोगात् । सनत्कुमारनारदसंवादे च –

पश्यः पश्यति पश्यन्तमपश्यन्तं च पश्यति ।

पश्यन्तं पश्य पश्यत्वात् पश्यापश्ये न पश्यत: ।।

इति श्लोकमुक्त्वा प्रकृति क्षेत्रं क्षेत्रज्ञं च अपरः क्षेत्रज्ञ: षङ्विशकोऽनुपश्यति ; न तु पञ्चविंशक: क्षेत्रज्ञः प्रकृतिर्वा, परं क्षेत्रज्ञं पश्यति इति प्रयोगाच्च । अत्र हि आत्मशब्दवत् क्षेत्रज्ञशब्दस्य जीवपरसाधारणस्य पञ्चविंशक – परशब्दविशेषितस्य जीवपरमात्मविषयत्वदर्शनाच्च ।

योऽस्यात्मन: कारयिता तं क्षेत्रज्ञं प्रचक्षते ।

य: करोति तु कर्माणि स भूतात्मेति चोच्यते ।। (म.स्मृ.१२-१२) इति मानवप्रयोगाच्च ।

येन स्वप्नं पश्यति इत्यत्र ‘येनेति’ इत्थंभावे तृतीया । येन विशिष्टः परमात्मा स्वप्नं पश्यतीत्युच्यते । ततश्च काठिन्यवान् यो बिभर्ति (वि.पु.) इति पृथिवीद्वारा काठिन्यवत् स्वप्नद्रष्टत्वम् । जीवद्वारा परमात्मविशेषणं भवतीति न विरोधः । शारीरशब्दश्च तस्यैष एवशारीर आत्मा(ते.आन. ६) इतिवत् अत्रैव स्वव्यतिरिक्तसमस्तचिदचिच्छरीरके परमात्मन्युपपद्यते । उपद्रष्टेति निरुपाधिकद्रष्टृत्वं च तस्यैव उपपद्यते । एवं शारीर उपद्रष्टेति पदद्वयेन परस्य क्षेत्रज्ञशब्दवाच्यत्त्वमुपपादितं भवति । अतो द्वा सुपर्णेति मन्त्रो जीवपरमात्मपरः ।। ( श्रु.प्र. १-३-६)

किं च इयदामननान् इत्यधिकरणे – द्वासुपर्णा इति मन्त्रे भोकभोक्त्रोः प्रतिपाद्यता ; ऋतं पिबन्तौ (कठ.उ. ३-१) इत्यत्र तु भोक्त्रोरेव प्रतिपाद्यता, पिबन्ताविति श्रवणात् न च पिबन्तावित्येतत् छत्रिन्यायेन पिबदपिबत्समुदायलक्षकमिति वाच्यम् । मुख्यार्थपरित्यागे कारणाभावादिति पूर्वपक्षं कृत्वा ऋतं पिबन्तौ द्वा सुपर्णा इत्यत्र च द्वित्वसंख्याप्रतीतेरैक्यं प्रतीयते । तत्र च द्वा सपणेति मन्त्रे तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नय: इति अशनायाद्यतीतः परमात्मा प्रतीयते । अत एव जुष्टं यदा पश्यत्यन्यमीशम् इति वाक्यशेषे परमात्मन एव प्रतिपादनं दृश्यते । ऋतं पिबन्तौ इति मन्त्रे च अन्यत्र धर्मात् (कठ.उ. २-१४) इत्युपक्रमेण परमात्मनः प्रकृतत्वात् , यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् (कठ.उ. ३-२) इति परमात्मविषयवाक्यशेषाञ्च परमात्मैव प्रतिपाद्यः । अतः ऋतं पिबन्तौ इत्येतत् छत्रिन्यायेन योज्यम् । अतो वेद्याभेदात् विद्याऽभेदः इति तदीयभाष्य एव प्रतिपादिततया तयोर्मन्त्रयोः भिन्नार्थत्वसमर्थनस्य तद्विरुद्धत्वात् ।।

तस्मात् द्वा सुपर्णेति मन्त्रः जीवपरमात्मपर एव । सत्त्वक्षेत्रज्ञशब्दावपि तत्परौ इत्येव युक्तम् । प्रकृतमनुसरामः ।।

[ज्ञानिन: भगवद्दर्शनेन भगवत्सारूप्यप्राप्तिः]

यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्म योनिम् ।

तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ।।३।।

यदा पश्यः पश्यते रुक्मवर्णम् इति । पश्यतीति पश्यः । पाघ्राध्माधेङ्दृश: श: (पा.सू. ३-१-१३५) इति शप्रत्ययः । शित्त्वात् पश्यादेशः । यस्मिन्काले पश्यः – ब्रह्मदर्शी, रुक्मवर्णम् – आदित्यवर्ण तमसः परस्तात् ; (श्वे.उ. ३-८) हिरण्यश्मश्रुर्हिरण्यकेश: (छां.उ. १-६-६) इत्युक्तरीन्या देदीप्यमान दिव्यमङ्गल विग्रहयुक्तम् , ईशं – जगदीशितारम् , तं कर्तारं – ब्रह्मयोनिम् तस्मादेतद्ब्रह्मेति निर्दिष्टाव्याकृतब्रह्मोपादानभूतम् , भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ॥(पाद्मोत्तर.६-२५४-६६) इत्युक्तरीत्या पुरुषशब्दनिर्दिष्टं वासुदेवं यदा पश्यति, तदा पुण्यपापे निरस्य निरञ्जन: – निरस्तप्रकृतिलेपः सन् अपहतपाप्मत्वादिगुणाष्टकलक्षणेन ब्राह्मेण रूपेण परमसाम्यमुपैतीत्यर्थः । व्यासार्यै: ब्रह्मयोनिमित्यत्र षष्ठीतत्पुरुषे लक्षणाप्रसङ्गात् ब्रह्मयोनिशब्दयोः सामानाधिकरण्यमित्युक्तम् । तदतिसुन्दरम् ।।

[प्राणशब्दोक्त वासुदेवज्ञानी ब्रह्मज्ञानिनां श्रेष्ठः]

प्राणो ह्येष यः सर्वभूतैः विभाति विजानन् विद्वान् भव ते नातिवादी।

आत्मक्रीड आत्मरति: क्रियावानेष ब्रह्मविदां वरिष्ठः ।। ४ ।।

प्राणो ह्येष सर्वभूतैर्विभाति इति । अत्र सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति । (छां.उ. १-११-५) इत्यादाविव प्राणशब्द: परमात्मपरः । एष प्राणः – परमात्मा सर्वभूतैः – अश्रितो विभातीत्यर्थः । विजानन्  विद्वान् भव ते नातिवादीति । भव इति लोण्मध्यमपुरुषैकवचनम् । विजानन्  श्रवणमननाभ्यां जानन्  , विद्वान् तमुपासीनः । तेन – परमात्मना अतिवादी भव – इति शिष्यं प्रति उपदेशः । अतीत्यसर्वान् वदितुं शीलमस्य सोऽतिवादी । यस्तु स्वोपास्यदेवतायाः सर्वातिशायित्वं वदति, सोऽतिवादीत्युच्यते । आत्मक्रीडः आत्मरतिः इति । यस्य क्रीडा आत्मन्येव नोद्यानादिषु, स आत्मक्रीडः । यस्य रतिः आत्मन्येव, न स्रक्चन्दनादिषु, स आत्मरतिः । रतिः स्तक्चन्दनादिजन्या प्रीतिः । क्रीडा उद्यानादिजन्याइति भूमाधिकरणे व्यासार्यैरुक्तत्वात् । क्रियावान् – अननुसंहितफलक्रियानुष्ठानशाली । एवं भूतश्च भव इति योजना । क्रियावत्त्वं किमर्थम् इत्यत्राऽऽह – एष ब्रह्मविदां वरिष्ठः – इति । क्रियया हि अन्तःकरणे परिशुद्धे ब्रह्मविद्यानिष्पत्त्या ब्रह्मविदां वरिष्ठः भवति ।।

[परमात्मप्राप्तिसाधनोक्तिः]

सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।

अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ।।५।।

सत्येन लभ्यः इति । क्षीणदोषाः – रागादिदोषशून्याः । यतयः – जितेन्द्रियाः, यं पश्यन्ति, स शरीरान्तर्वर्ती, ज्योतिर्मयः – ज्ञानमयः शुभ्रः – निर्दोषः आत्मा, मनसश्चेन्द्रियाणां च  ह्यैकाग्र्यं तपः इत्युक्तबाह्याभ्यन्तरेन्द्रियैकाग्र्यलक्षणतपसा, आगमोत्थज्ञानेन च, स्त्रीसंगादिराहित्यलक्षणनित्यब्रह्मचर्येण च, सत्येन – भूतहितवचनेन च, लभ्यः – साक्षात्कर्तव्यः । अथवा लभ्यः – प्राप्तव्य इत्यर्थः । प्राप्तिश्च उपासनाद्वारेति द्रष्टव्यम् ।।

[सत्यस्य स्तुतिः]

सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः ।

येनाक्रमन्ति ऋषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ।। ६ ।।

सत्येन लभ्यः इत्युक्तं सत्यं स्तौति सत्यमेव जयति नानृतम् । लोके सत्यमेव जयति ; नानृतम् । सत्यवादिना हि अनृतवादी पराभूयते अर्चिरादिरूपेण विततः – विस्तीर्णो देवयानाख्यः पन्थाः – सत्येन हि भवति – सत्यवादिनो हि भवतीत्यर्थः । तं मागं विशिनष्टि – येनाऽऽक्रमन्ति ऋषयः ह्याप्तकामाः । आप्तकामा: – विगततृष्णाः । ऋषयः – तत्त्वदर्शिनः, येन मार्गेण तत् प्राप्नुवन्ति हि । किं तदित्यत्राह – यत्र तत् सत्यस्य परमं निधानम् यत्र – स्थाने, सत्यवदनस्य परमप्रयोजनभूतं मूर्तं ब्रह्म आस्ते तत् स्थानमित्यर्थः ।।

[परमात्मनः बृहत्त्वादिविशेषणोक्तिः]

बृहञ्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माञ्च तत् सूक्ष्मतरं विभाति ।

दूरात् सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ।। ७ ।।

अर्चिरादिप्राप्यं विशिनष्टि – बृहञ्च तद्दिव्यम् इति । स्वरूपतो गुणतश्च बृहत् दिव्यं – परमाकाशनिलयम् अचिन्त्यरूपं – वाङ्मनसागोचरकमनीयरूपवत् सूक्षमात् – सर्वाचेतनान्तःप्रवेशनसमर्थात् जीववर्गादपि तदनुप्रवेशसमर्थतया सूक्ष्मतरं दीप्यते तत् । दूरात् सुदूरे प्रकृतेः परस्तात् वर्तमाने परमपदे इहान्तिके – अण्डान्तर्वर्तिनि रविमण्डले, पश्यत्सु – ब्रह्मदर्शिषु इहैव गुहायां – हृदयाकाशे च निहितं – स्थितमित्यर्थः ।।

[भगवत्कृपयैव तदृर्शनम् ]

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।

ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति (ते) निष्कलं ध्यायमानः ।।८।।

न चक्षुषा गृह्यते इति । देवा: – इन्द्रियाणि । शिष्टं स्पष्टं । ज्ञानप्रसादेन इति । ज्ञायते अनेनेति व्युत्पत्त्या प्रज्ञा च तस्मात् प्रसृता पुराणी (श्वे.उ.४-१८) इति श्रुत्युक्तरीत्या ज्ञानप्रसारणहेतुः परमात्मा ज्ञानशब्देनोच्यते । अयमन्वयः निष्कलं परमात्मानं ध्यायन् परमात्मप्रसादेन विशुद्धान्तःकरणो भवति तदनन्तरं तं पश्यति – दर्शनसमानाकारज्ञानेन तं विषयीकरोतीत्यर्थः ।।

[जीवात्मस्वरूपनिरूपणम् ]

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश ।

प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ।। ९ ।।

एषोऽणुः इति । यस्मिन् – आत्मनि प्राणापानादिपञ्चरूपेण विभक्तः प्राण – आश्रितः; प्राणैः – इतरैरिन्द्रियैः सह प्रजानां सर्वमपि मन आश्रितम् । यस्मिंश्च – परमात्मनि विशुद्धे – प्रसन्ने सति एषैः – जीवात्मा, विभवति – अपहतपाप्मत्वादिगुणाष्टकविशिष्टतया आविर्भवति स एषः अणुः – दुर्विज्ञेयः, आत्मा विशुद्धेन मनसा ग्राह्य इत्यर्थः ।।

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ।

तं तं लोकं जयते (ति) तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद् भूतिकामः ।। १० ।।

यं यं लोकम् इति । संविभाति – संकल्पयतीत्यर्थ: कामान् – स्त्र्यादीन् , जयते – जयति वशीकरोतीत्यर्थः । शिष्टं स्पष्टम् । तस्मादात्मज्ञं ह्यर्चयेद् भूतिकामः । यस्मादेवमसौ वशीकृतलोककामतया लोकान् कामांश्च प्राप्तुं च शक्नोति, तस्मादैश्वर्यादिकामः, प्रीतोऽसावात्मज्ञः मह्यमभिलषितं वरं प्रयच्छति इति बुद्धया पूजयेदित्यर्थः ।।

इति तृतीयमुण्डके प्रथमखण्डप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.