मुण्डकोपनिषत् तृतीयमुण्डके द्वितीयखण्डः

मुण्डकोपनिषत्

तृतीयमुण्डके द्वितीयखण्डः

[आत्मतत्त्वज्ञानात् मोक्षप्राप्तिः]

स वेदैतत् परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् ।

उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ।। १ ।।

आत्मवित्पूजायाः मोक्षफलकत्वमाह – स वेदैतत् इति । यत्र – ब्रह्मणि, विश्वं – जीवजातम् निहितम् , शुभ्रम् – निर्मलं स्वप्रकाशं भाति, एतत् – ईदृशं सवकामास्पदतया धाम – शब्दितं परमं ब्रह्म – नारायणं, सः – पूर्वप्रकृतः आत्मज्ञः वेद इत्यर्थः । अतः ये धीराः – प्रज्ञाशालिनः तादृशमात्मज्ञं पुरुषं – ‘फलान्तर कामनारहिता मुमुक्षवः सन्तः परमात्मानमिव उपासते ते एतच्छुक्रम् – चरमधातुम् , अतिक्रम्य वर्तन्ते – जन्मशून्या भवन्तीत्यर्थः ।।

[आत्मज्ञस्य पर्याप्तकामत्वम् ]

कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ।

पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ।। २ ।।

कामान् यः कामयते इति । यस्तु – देवत्वमनुष्यत्वादीन् कामान् – भोग्यतया मन्यमानः कामयते, सः तत्र तत्र – देवत्वमनुष्यत्वादौ कामभि: – कामैः ‘तत्तत्कामवशादिति’ यावत् । देवमनुष्यादिरूपेण जायते । पर्याप्त – परि पूर्णे ब्रह्मणि कामनावत: कृतात्मनः – विदितात्मतत्त्वस्य तु इहैव – अस्मिन्नेव जन्मनि, सर्वाः आशाः लुप्ताः अत: न जन्मान्तरप्रसक्तिः इत्यर्थः । कृतात्मनः इत्यत्र शब्ददर्दुरं करोति (पा.सू. ४-४-३४) इत्यत्रेव कुञः ज्ञानमर्थः ।

[आत्मप्राप्तिसाधनम् ]

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूँ स्वाम् ।। ३ ।।

नायमात्मा प्रवचनेन इति । प्रवचनशब्देन मननं लक्ष्यते ; तत्साधनत्वात् । मेधाशब्दश्च निदिध्यासनवाची । श्रवणमनननिदिध्यासनैः केवलैः न प्राप्य इत्यर्थः । पुनः केनेत्यत्राह – यमैवेष वृणुते तेन लभ्यः । एषः – परमात्मा, यम् – उपासकम् वृणुते तेन प्राप्यः । वरणीयेन प्राप्य इति यावत् । प्रियतमश्च वरणीयो भवति । प्रियतमत्वं च स्वस्मिन् प्रीतिमत एव । अतश्चायमर्थो लभ्यते ‘यस्तु परमात्मनि निरतिशयप्रीतिमान् , स परमात्मानं प्राप्नोति इति प्रीतिरूपापन्नभगवदुपासनस्य ‘भगवत्प्राप्ति हेतुत्वमित्यर्थः । तस्यैष आत्मा विवृणुते तनूं स्वाम् । तादृशस्य उपासकस्य एष आत्मा स्वात्मानं प्रकाशयति । स्वानुभवमुत्पादयतीत्यर्थः ।।

[ब्रह्मप्राप्त्यै बलादि उपायाः]

नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात् ।

एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा ‘विशते ब्रह्मधाम ।। ४ ।।

नायमात्मा बलहीनेन इति । अयमात्मा अवसन्नमनसा न लभ्यः । अवसादो नाम देशकालवैगुण्यादिजन्यं दैन्यम् । तदभावो हि बलम् । प्रमादः अनवहितचित्तता तपश्शब्दः तपःप्रधानसंन्यासाश्रमपरः । तप एव’ द्वितीय इतिवत् । तस्य च लिङ्गं शिखा-यज्ञोपवीत-शिक्य-जलपवित्रादि । तद्रहितात् संन्यासादपि इत्यर्थः । तपसः इत्येतत् आश्रमान्तरस्याप्युपलक्षणम् । सर्वाश्रमाणामपि ब्रह्मविद्याधिकारसत्त्वादिति द्रष्टव्यम् । लिङ्गशून्यैराश्रमैः न प्राप्य इत्यर्थः । आश्रमलिङ्गानि अपेक्षितानीति यावत् । एतैरुपायैः । इति । उक्तैः बलाप्रमादसलिङ्गाश्रमैः यो विद्वान् ब्रह्मप्राप्तये यतते तस्य एषः – तादृशोपायसंस्कृतः आत्मा – स्वरूपं धाम – प्राप्यं परं ब्रह्म प्राप्नोतीत्यर्थः ।।

[ज्ञानिनां परमात्मना परमसाम्यापत्तिप्राप्तिः]

संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ।

ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ।। ५ ।।

संप्राप्यैनम् इति । ऋषयः – तत्त्वदर्शिनः, एनम् – परमात्मानम् , संप्राप्य – जीवद्दशायामेव अनुभूय तेनानुभवेन संतुष्टाः, कृतात्मानः – लब्धात्मसत्ताकाः, अपगतविषयाशाः, अत एव प्रशान्ताः निगृहीतेन्द्रियाश्च ये सन्तीत्यर्थः । ते सर्वदेशावच्छेदेन अन्तर्बहिश्च सर्ववस्तुगतं परमात्मानं देशविशेषविशिष्टं प्राप्य आविर्भूतब्राह्मरूपविशिष्टात्मानः धर्मभूतज्ञानेन सर्वं वस्तुगत्या प्राप्नुवन्ति ; सर्वमनुभवन्तीत्यर्थः ।।

[ब्रह्मज्ञानेन मुक्तिः]

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।

ते ब्रह्मलोकेषु (तु) परान्तकाले परामृतात् परिमुच्यन्ति सर्वे ।।६।।

वेदान्तविज्ञानेति । ये यतयः – निर्जितेन्द्रियग्रामाः, काम्यकर्मसंन्यासेन शुद्धसत्त्वा: – परिशुद्धान्तःकरणा: वेदान्तश्रवणजन्यज्ञानेन निर्ज्ञात परमात्मतत्त्वाः’ इत्यर्थः । ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे । ब्रह्मैव लोको ब्रह्मलोकः । तत्र वर्तमानाः ब्रह्मनिष्ठाः, परान्तकाले – अन्तकाले च मामेव (भ.गी. ८-५) इत्युक्त चरमदेहावसानसमये परामृतात् – प्रसन्नात् ब्रह्मणो हेतोः सर्वे परिमुच्यन्ते इत्यर्थः इति । विशेषं च दर्शयति (ब्र.सू. ४-३-१५) इति सूत्रे व्यासार्यैरयं मन्त्रखण्डो विवृतः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे इति पाठे, ते चरमशरीरावसाने भगवल्लोकेषु, परम् अमृतशब्दितं ब्रह्म प्राप्यत्वेन येषां ते परामृताः – ब्रह्म प्राप्ता इति यावत् – स्वरूपतिरोधायकाविद्यया सवासनं विमुक्ता भवन्ति । परं ज्योतिरुपसंपद्य – स्वेनरूपेणाभिनिष्पद्यते (छां.उ. ८-१२-२) इति श्रुतेरित्यर्थः । न च भगवल्लोकस्यैकतया कथं बहुत्वम् इति शंकनीयम् परस्य ब्रह्मणः परिपूर्णस्य सर्वगतस्य सत्यसंकल्पस्य स्वेच्छापरिकल्पिता: स्वासाधारणा: अप्राकृताश्च लोका: नात्यन्ताय न सन्ति, श्रतिस्मृतीतिहासपुराणप्रामाण्यात् (४-३-११) इति भगवता भाष्यकृता उक्तत्वात् ।

[मोक्षकाले देहजनकसर्वकलानां परमात्मनि संगतत्त्वम् ]

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु ।

कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ।। ७ ।।

गताः कलाः पञ्चदश इति । मुच्यमानजीवोपकारिकाः, स प्राणमसृजत प्राणाच्छ्रद्धाम् (प्र.उ. ६-४) इत्यादिप्रश्नोपनिषदुक्तप्राणादिनामान्तषोडशकलामध्ये कर्मव्यतिरिक्ताः पञ्चदशकलाः स्वस्वप्रकृतिषु संश्लेषविशेषयुक्ता भवन्ति देवाः – वागादीन्द्रियाणि तत्तदधिष्ठात्रादित्यादिदेवतासु, प्रतिष्ठां – संसर्गविशेषं गच्छन्ति, न तु लीयन्ते । इन्द्रियादीनामाकल्पस्थायित्वात् । यत्रास्य पुरुषस्य मृतस्याग्निं वागप्यति वातं प्राणश्चक्षुरादित्यम् (बृ.उ. ५-२-१३) इत्यादिषु वागादीनामग्नयाद्यप्ययश्रवणस्य भाक्तत्वमिति अग्नयादिगतिश्रुतेरिति चेन्न भाक्तत्वात् , (ब्र.सू. ३-१-४) इति सूत्रितत्वात् । कर्माणि विज्ञानमयश्चेति । यानि च कर्माणि अदत्तफलानि दर्शनसमानाकारज्ञानारंभसमये क्षमिष्ये इति संकल्पविषयभूतानि तानि कर्माणि विज्ञानमय आत्मा च अक्षरात्परतः परः (मु.उ. २-१-२) इति सर्वस्मात्परभूते अव्यये – अक्षरे एकीभवन्ति – परमात्मप्रीत्यप्रीतिरूपाणां कर्मणां तत्रैकीभावः तद्धर्मभूतज्ञाने लय एव । जीवस्यैकीभावो नाम नामरूपात्मकभेदकाकारप्रहाणम् । कर्मणां नाशात् कलानां मुच्यमानं प्रति नोपकरणत्वमिति भावः ।।

[ब्रह्मज्ञानिनः परमपुरुषसाम्यप्राप्तिः]

यथा नद्यः स्यन्दमानाः समद्रे अस्तंगच्छन्ति नामरूपे विहाय ।

तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ।। ८ ।।

तदेवोत्तरमन्त्रेण यथा नद्यः स्यन्दमानाः इति – विशदयति – यथा गङ्गायमुनासरस्वत्यादिनद्यः स्वोत्पत्तिस्थानेभ्य: ‘प्रसृताः’ गङ्गायमुनासरस्वत्यादीनि नामानि शुक्लकृष्णलोहितादीनि रूपाणि च विहाय समुद्रे एकतामिव भजन्ते । विद्वान् तद्वदेव भेदकैर्नामरूपादिभिः विमुक्तःसन् , दिव्यो ह्यमूर्तः पुरुषः इति मन्त्रप्रतिपाद्यं पुरुषं प्राप्नोति । यथा नदीसमुद्रजलयोर्वस्तुतो नैक्यम् , अपि तु भेदकाकारप्रहाणमात्रम् , एवमिहापि मुक्तस्य परमात्मना, पूर्वमुक्तात्मभिरपिनैक्यम् । अपि तु परमसाम्यमात्रम् । अत एव कठवल्लयाम् यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति (कठ.उ. २-१-१५) इति सादृश्यमेवोक्तम् । न तु तद्भावः ।

ननु अवयवातिरिक्तावयव्यन्तराभाववादिनाम् परस्परसदृशानां घटावयवानां भिन्नानामेव सतामेकत्वावस्थाश्रयत्ववत् , कुण्डलकटकादीनां मूषानिक्षिप्तानाम् अग्नितापद्रुतानां वस्तुतो भिन्नानामपि एकत्वावस्थाश्रयत्ववत् नदीसमुद्रजलयोरपि परस्परमिलितयोः संसगद्रव्ययोः एकत्वावस्थाश्रयत्वमस्ति । ततश्च निर्विशेषब्रह्मैकतापत्तिरेव परममुक्तिरिति चेत् न निर्गुणविद्याश्रेष्ठत्वेन पराभिमतायां प्रजापतिविद्यायामपि स तत्र पर्येति (छां.उ. ८-१२-३) इति मुक्तब्रह्मणोः आधाराधेयभावश्रवणात् । सत्यकामत्वसत्यसंकल्पत्वादिरूपधर्माणां मुक्तावेवाविर्भावस्य निर्गुणविद्याफलत्वेन उत्तराञ्चेदाविर्भूतस्वरूपस्तु (ब्र.सू. १-३-१८) इत्यत्र परैरप्यङ्गीकृतत्वात् । न च सत्यकामत्वं सत्यसंकल्पत्वं च जीवस्य स्वरूपमात्रमिति शक्यते वक्तुम् । कामशब्दोदितानां कामनाविषयसृज्य- पदार्थानाम् , संकल्पशब्दोदितस्य तत्सृष्टिहेतुमायावृत्तिविशेषस्य च “स्वरूप’बहिर्भावावश्यंभावात् । तेषां च मुक्तावाविर्भावे कथं निर्विशेषतापत्तिः । अनाविर्भाव च प्रजापतिविद्यायाम् , य आत्माऽ पहतपाप्मा (छां.उ. ८-७-१) इत्यादिना गुणाष्टकोपदेशवैयर्थ्यम् । न हि प्रजापतिविद्यायां गुणाष्टकोपदेशस्य उपासनार्थत्वं संभवति; परैस्तत्रोपासनाविध्यनङ्गीकारात् । नापि तदवगत्यर्थ उपदेशः । मुक्तत्यर्थावगतेः शुद्धब्रह्मविषयत्वात् तत्त्वमसि (छां.उ. ६-८-७) इत्युपदेशस्थले ब्रह्मणो. जगदुपादानत्वादिवर्णनस्य ‘अध्यारोपापवाद न्यायेन निष्प्रपञ्चत्वबोधनार्थतयेवात्र प्रकारान्तरेण सार्थकत्वोपपादनायोगात् । नापि प्रवर्त्य रुच्युत्पादनार्थः ; गुणकीर्तनस्य निर्गुणविद्यारुच्युत्पादकत्वासंभवात् । अतो निर्गुणविद्याप्रकरणे अपहतपाप्मत्वाद्युक्ते:

आविर्भविष्यत्तया तद्बोधनार्थतयैव साफल्यं वाच्यम् । अतश्च मुक्तौ निर्विशेषब्रह्मभावापत्तिकथनमसंगतम् ।।

[नास्याब्रह्मवित् कुले भवति]

स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति ।

तरति शोकं, तरति पाप्मानं गुहाग्रन्थिम्यो विमुक्तोऽमृतो भवति ।। ९ ।।

स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति इति। वेदनं ध्यानविश्रान्तं ध्यानं श्रान्तं धुवास्मृतौ । सा च दृष्टित्वमभ्येति दृष्टिर्भक्तित्वमृच्छति ।। इत्युक्तरीत्या प्रीतिरूपापन्नदर्शनसमानाकारोपासनयुक्तो भवति, सः ब्रह्मैव भवति – आविर्भूतब्राह्मरूपो भवति इत्यर्थः । आनुषङ्गिकं प्रयोजनमाह – नास्याब्रह्मवित्कुले भवति इति । अस्य कुले अब्रह्मवित् न भवतीत्यर्थः । तरतिशोकं तरति पाप्मानम् इति । स्पष्टोऽर्थः । गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति । त्रिगुणात्मकप्रकृतिकारितरागद्वेषादिभ्य: विमुक्तः सन् आविर्भूतगुणाष्टको भवति ।।

[शिरोव्रतं कुर्वतां आथर्वणिकानां अक्षरब्रह्मविद्योपदेशः]

तदेतदृचासभ्युक्तम् ।

क्रियावन्तः श्रोत्रियाः ब्रह्मनिष्ठा: स्वयं जुह्वते एकर्षि श्रद्धयन्तः ।

तेषामैवेतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ।। १० ।।

तदेतदृचाऽभ्युक्तम् । एतद्विद्यासंप्रदानमभिमुखीकृत्य ऋमन्त्रेण उक्तम् । क्रियावन्तः श्रोत्रिया: इति । नित्यनैमित्तिकक्रियायुक्ताः अधीतवेदाः ब्रह्मबुभुत्सवः एकर्षिशब्दितं अग्निहोत्रं स्वयमेव जुह्वतीत्यर्थः । एकर्त्विङ्मात्रसाध्यत्वादग्निहोत्रस्य एकर्षित्वमित्यर्थः । यद्वा एकश्चासावृषिश्च । मुख्यर्षि:- परमात्मा, तथा प्राणा: (ब्र.सू. २-४-१) इत्यत्र ऋषिशब्दश्च सर्वज्ञे तस्मिन्नेव युज्यते इति भाषितत्वात् । श्रद्धयन्तः – तत्र श्रद्धायुक्ताः इत्यर्थः ।। तेषामेवैतां ब्रह्मविद्यां वदेतेति । अत्र विद्याशब्दो ग्रन्थसंदर्भे वर्तते । तेषामेवैतां ब्रह्मप्रतिपादिकां ‘वेदरूपां प्रब्रूयात्  : यैः शिरसि अङ्गारपात्रधारणलक्षणम् आथर्वणिकानां वेदव्रतत्वेन प्रसिद्धं यथाशास्रमनुष्ठितमित्यर्थः । अयं चार्थः स्वाध्यायस्य तथात्वे हि (ब्र.सू. ३-३-३) इति सूत्रभाष्ये स्पष्टः । इत्थं हि तदधिकरणम् – नानाशाखासु आम्नातानि वैश्वानराक्षरोपासनादीनि अभ्यासप्रकरणान्तराभ्यां भिद्यन्ते । इतरथा पुनश्श्रवणलक्षणाभ्यासस्य प्रकरणान्तरस्य च वैयर्थ्यप्रसङ्गात् इति शाखान्तराधिकरणपूर्वपक्षन्यायेन पूर्वपक्षे प्राप्ते – सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् (ब्र.सू. ३-३-१) । सर्ववेदान्तेषु प्रतीयमानं वैश्वानराद्युपासनमेकमेव चोदविशेषात् चोदना तावत् वैश्वानरम् नाद्य उपासीतेत्यादिकैकरूपैव ब्रह्माप्राप्तिरूपफलसंयोगोऽप्यविशिष्टः । उपास्यरूपमप्यविशिष्टम् । वैश्वानरविद्येति समाख्याऽप्यविशिष्टा । अतः एकं वा संयोगरूपचोदनाख्याऽविशेषात् (पू.मी.सू. २-४-९) इति शाखान्तराधिकरणसिद्धान्तसूत्रोक्तन्यायेन उपासनैक्यमेव स्वीकर्तव्यम् । भेदान्नेति चेत् एकस्यामपि (ब्र.सू. ३-३-२) शाखान्तरे अभ्यासप्रकरणान्तरवशेन विद्याभेदावश्यंभावात् न विद्यैक्यम् , विद्यैक्ये पुनः श्रवणवैयर्थ्यप्रसङ्गात् इति चेन्न – एकस्यामपि विद्यायामध्येतृभेदात् पुनः श्रवणसार्थक्योपपत्तेः न विद्याभेदः । ननु विद्यैक्ये मुण्डकाम्नाताक्षरविद्यायाः ।

शाखान्तराधीताक्षर विद्यैक्येन. तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् । इत्याथर्वणिकमात्रानुष्ठेयशिरोव्रताङ्गकत्वं शाखान्तराधीताक्षरविद्याया अपि स्यात् । न च इष्टापत्तिः । शिरोव्रतशून्यानाम् अनाथर्वणिकानामक्षरविद्यानिष्ठ न स्यात् । अत आथर्वणिकमात्रानुष्ठेयशिरोव्रताङ्गकमुण्डकाम्नाताक्षरविद्यायाः शाखान्तराधीताक्षरविद्या भिद्यत इत्यभ्युपगन्तव्यमिति चेत् – तत्राह – स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववञ्च तन्नियम: (ब्र.सू. ३-३-३) तथात्वे इति निमित्तसप्तमी । स्वाध्यायस्य तथात्वसिदध्यर्थम् अध्ययनजन्यसंस्कारभाक्त्वसिद्ध्यर्थं शिरो’व्रतागाध्ययनेन उपनिषद्रूपस्वाध्यायस्य संस्कारो भवति । उपनिषदध्ययनाङ्गं शिरोव्रतम् न विद्याङ्गम् । नैतदचीर्णव्रतोऽधीते – इति शिरोव्रतस्याध्ययनसंयोगावगमात् , समाचाराख्ये – आथर्वणिकग्रन्थे इदमपि वेदव्रतेन व्याख्यातम् इति शिरोव्रते वेदव्रतशब्दप्रयोगाच्चाध्ययनाङ्गमेव शिरोव्रतम् : न विद्याङ्गम् । सववञ्च तन्नियमः – यथा सप्तसूर्यादयः शतौदनपर्यन्ताः सवहोमा आथर्वणिकैकाग्निसंबन्धात् । तत्रैव ‘नियता’ भवन्ति, एवं शिरोव्रतमपि आर्थर्वणिकाध्ययनसंबन्धात् तत्रैव नियतं भवति । दर्शयति च श्रुतिरुपासनस्य सर्ववेदान्तप्रत्ययत्वम् । तथा हि छान्दोग्ये तस्मिन् । यदन्तस्तदन्वेष्टव्यम् (८-१-१) इत्युक्त्वा , कितदत्र विद्यते, यदन्वेष्टव्यम् (८-१-१) इति प्रश्नपूर्वकम् अपहतपाप्मत्वादिगुणाष्टकविशिष्टः परमात्मा तस्मिन्नुपास्यः इत्युक्तम् । तैत्तिरीयके तु छान्दोग्यस्थं प्रतिनिर्दिष्टमुपजीव्य, तत्रापि दहरं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम (तै.ना. १०-२३) इति गुणाष्टकविशिष्टस्य परमात्मन उपासनमुच्यते । तदेतदुपजीवनं विद्यैक्यं दर्शयति । एवं सिद्धस्य विद्यैक्यस्य प्रयोजनमुच्यते उपसंहारोऽर्थाभेदात् विधिशेषवत्समाने च(ब्र.सू. ३-३-५) एवं सर्ववेदान्तेषु समाने सत्युपासनं वेदान्तान्तराम्नातगुणा: वेदान्तान्तरे उपसंहर्तव्या ; विधिशेषवत् – अर्थाभेदात् । यथैकस्मिन् वेदान्ते श्रुतो वैश्वानरदहरादिविधिशेषो गुणस्तद्विद्यासंबन्धात् तदुपकारायानुष्ठीयते, तथा वेदान्तान्तरोदितोऽपि गुणस्तसंबन्धित्वविशेषात उपसंहर्तव्यः । चशब्दोऽवधारणे । एवं गुणोपसंहारपादाद्ये स्थितम् ।।

तदेतत्सत्यमृषिरङ्गिराः प्रोवाच नैतदचीर्णव्रतोऽधीते ।।

नमः परमऋषिभ्यो नमः परम (मर्षि!) ऋषिभ्यः ।। ११ ।।

।। इति तृतीयमुण्डके द्वितीयः खण्डः ।।

।। समाप्ता मुण्डकोपनिषत् ।।

तदेतत्सत्यमृषिरङ्गिराः प्रोवाच इति। एतत् सत्यम् – अक्षरम् , अङ्गिरा ऋषिः शौनकाय प्रोवाच । नेतदचीर्णव्रतोऽधीते । अचीर्ण – शिरोव्रतेन एतन्नाध्येतव्यमित्यर्थः । तेषामेवैतां ब्रह्मविद्यां वदेत इति पूर्वमन्त्रे अचीर्णशिरोवताय एतदध्यापनं निषिद्धम् । अस्मिंस्तु वाक्ये अचीर्णशिरोव्रतस्य अध्ययनं निषिध्यत इति भेदो द्रष्टव्यः । इयमुपनिषत् सर्वाऽपि भगवत्परा इति भगवता बादरायणेन समन्वयाध्याये द्वाभ्यामधिकरणाभ्यां निर्णीतम् । अदृश्यत्वादिगुणकाधिकरणम् – तथा हि – अदृश्यत्वादिगुणको धर्मोक्तेः (ब्र.सू. १-२-२२) इत्यधिकरणे – अदृश्यमग्राह्यम् – इत्यचेतनधर्माणां दृश्यत्वादीनां निषेधः तत्प्रसक्तिमत्यचेतन एव अवस्थान्तरापन्ने युज्यते । ‘न तु’ तत्प्रसक्तिशून्ये परमात्मनि । अबालः, अतरुणः इत्यादिनिषेधाः तत्प्रसक्तिमति अवस्यान्तरापन्नमनुष्यादावेव दृष्टाः । न तु तत्प्रसक्तिशून्य पाषाणाकाशादौ । किं च अदृश्यत्वादिविशिष्टस्याक्षरस्य परमपुरुषत्वे अक्षरात् परतः परः, इति ततोऽपि परस्य पुरुषस्य श्रवणं नोपपद्यते । अतः अक्षरात्परतः परः इति पुरुषगतपरत्वावधितया अक्षरात् इति निर्दिष्टस्य भूतयोन्यक्षरस्य परमपुरुषत्वा संभवात् , अक्षरशब्दस्य प्रधाने प्रसिद्धेश्च । अदृश्यत्वादिगुणकं भूतयोन्यक्षरं प्रधानमेव । तत्परतया निर्दिश्यमानः पुरुषोऽपि पञ्चविशक एव ; नतु परमपुरुषः । परमपुरुषस्याक्षरपरभूतजीवादपि परत्वेन अव्यवहितपरत्वाभावात् । न च अक्षरात् परत इति पदयोः वैयधिकरण्याश्रयणेन अक्षरादपि परभूतात् जीवात् परत्वमेव पुरुषस्य प्रतिपाद्यते इति वाच्यम् । अक्षरात् परत इति पदयोः स्वकार्यवर्गापेक्षया परभूते अक्षरे सामानाधिकरण्येन वृत्तिसंभवे तयोर्वैयधिकरण्ये प्रमाणाभावात् । अतोऽत्र प्रकृतिजीवावेव प्रतिपाद्येते, न परमात्मा इति पूर्वपक्षे प्राप्ते – अदृश्यत्वादिगुणको धर्मोक्तेः (ब्र.स.१-२-२२) विशेषणभेदेव्यपदेशाभ्यां च नेतरौ (ब्र.सू. १-२-२३) रूपोपन्यासाञ्च (ब्र.सू. १-२-२४) इति त्रिभिः सूत्रै: सिद्धान्तः कृतः । तेषां चायमर्थः – अदृश्यत्वादिगुणक: परमात्मैव ; तद्धर्माणां सर्वज्ञत्वादीनां य: सर्वज्ञः सर्ववित् (मुं.उ. १-१-९) इत्यादिवाक्येन अन्न प्रकरणे उक्तत्वात् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिना सिद्धेन चेतनाचेतनात्मकनिखिलप्रपञ्चोपादानत्वेन भूतयोन्यक्षरस्य विशेषणात् , अक्षरात् परत:परः इति प्रकृतिजीवाभ्यां भेदव्यपदेशाञ्च भूतयोन्यक्षरं परमात्मैव । न च अक्षरात् परत इति पञ्चम्योः सामानाधिकरण्यात् । स्वकार्यवर्गापेक्षया परभूतात् अक्षरशब्दितात् अव्याकृतात् परत्वेन तद्भेद्सिद्धावपि न जीवभेदः सिध्यतीति वाच्यम् – सामानाधिकरण्ये सति परत्वावधिसमर्पकस्वकार्यवर्गवाचिपदान्तराध्याहारप्रसङ्गात् । वैयधिकरण्यपक्षे अध्याहाराभावात् । जीवादपि वैलक्षण्यप्रतिपादकत्वेन सार्थक्यसंभवे परत: पदस्य सामानाधिकण्याश्रयणेन स्वकार्यवर्गपरत्वानुवादस्य निष्प्रयोजनस्य आश्रयणायोगात्  । न च अक्षरात्  परस्य पुरुषस्य परमात्मत्वे भूतयोन्यक्षरस्य कथं परमात्मत्वं सिध्येत्  इति वाच्यम्  – अक्षरात्  परत इति निर्दिष्टस्याक्षरस्य अथ परा यया तदक्षरमधिगम्यते, तथाऽक्षरात् संभवतीह विश्वम् । तथाऽक्षराद्विविधाः सोम्य ! भावा: ; येनाक्षरं परुषं वेद सत्यम्  इति वाक्यनिर्दिष्ट भूतयोन्यक्षरापेक्षया भिन्नत्वात् । न च तत्र प्रमाणाभावः। दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमना: शुभ्रः इति पूर्वसंदर्भप्रतिपादितविशेषणविशिष्टं भूतयोन्यक्षरं स इति पदेन परामृश्य तस्य अक्षरात्परतः परत्वाभिधानात् । न हि तस्यैव तत: परतः परत्वं संभवति । अतः अक्षरात्परतः परः इति वाक्यस्थमक्षरपदम् अव्याकृताभिधायि : न तु भूतयोन्यक्षराभिधायि ।। अग्निमूर्धा चक्षुषी चन्द्रसूर्यौ इति भगवत्संबन्धितया प्रसिद्धस्य रूपस्य भूतयोन्यक्षरसंबन्धितयोपन्यासाञ्च, पुरुषं वेद सत्यम् । दिव्यो ह्यमूर्तः पुरुषः इति । भगवदसाधारणपुरुषशब्दाभ्यासाच्च परमात्मैवात्र प्रतिपाद्यत इति ।

द्युभ्वाद्यधिकरणम् – तथा यस्मिन् द्यौः इति वाक्ये, ओतं मनः सह प्राणैश्च सर्वै: इति मनः प्राणसंबन्धित्वप्रतिपादनात् , अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः इति जीवलिङ्गाच्च भूतयोन्यक्षरप्रकरणं भङ्क्त्वा जीवपरत्वमेवास्य संदर्भस्याश्रयणीयमिति पूर्वपक्षे प्राप्ते – द्युभ्वाद्यायतनं स्वशब्दात् , (ब्र.सू. १-३-१) मुक्तोपसृप्य व्यपदेशाच्च, (ब्र.सू.१-३-२) नानुमानमतच्छब्दात् प्राणभृच्च , (ब्र.सू. १-३-३) भेदव्यपदेशात्, (ब्र.सू. १-३-४) प्रकरणात् , (ब्र.सू. १-३-३) स्थित्यदनाभ्यां च (ब्र.सू. १-३-६) इति षड्भिः सूत्रै: सिद्धान्तः कृतः ।

___ अयमर्थः – द्युभ्वाद्यायतनं परमात्मा । अमृतस्यैष सेतुः इति मोक्षप्रदत्वलक्षणासाधारणशब्दश्रवणात् । व्यापकत्वार्थस्यात्मशब्दस्य च श्रवणात् । नामरूपाद्विमुक्तः परात् परं पुरुषमुपैति दिव्यम् इति परमात्मासाधारणमुक्तप्राप्यत्वव्यपदेशाञ्च परमात्मैव । न अनुमानम् । आनुमानिकं प्रधानम् अस्मिन् प्रकरणे यथा तत्प्रतिपादकशब्दाभावान्न प्रतिपाद्यम् , एवं प्राणभृत् जीवोऽपि तत्प्रतिपादकशब्दाभावान्न प्रतिपाद्यः । जुष्टं यदा पश्यन्यन्यमीशम् इति प्रकारणप्रतिपाद्यस्य ईसस्य जीवभेदव्यपदेशाच्च । भूतयोनिप्रकरणाच्च । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति इति जीवस्य कर्मफलऽभोक्तृत्वम् परमात्मनस्तु तदन्तरेण शरीरेऽवस्थानम् इति परमात्मन एव प्रकारणतात्पर्यपर्यवसानभूमितया आविष्कृतत्वाञ्च परमात्मैव मुण्डकोपनिषत्प्रतिपाद्य ‘ इति । अतश्च मुण्डकोपनिषत् भगवत्परेतिसिद्धम् । इयं ब्रह्मविद्या येभ्यो ब्रह्मादिभ्यः पारम्पर्येण प्राप्ता, तान् नमस्यति – नमः परमऋषिभ्यो नमः परमऋषिभ्यः इति । द्विवचनमादरार्थं विद्यासमाप्त्यर्थं च ।।

क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदावदतूलवातो ।

रामानुजः स मुनिराद्रियतां मुद्रुक्तिम् ।।

।। इति तृतीयमुण्डके द्वितीयखण्डप्रकाशिका ।।

श्रीरङ्गरामानुजमुनिविरचिता मुण्डकोपनिषत्प्रकाशिका सम्पूर्णा ।।

.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.