मुण्डकोपनिषत् द्वितीयमुण्डके द्वितीय खण्डः

मुण्डकोपनिषत्

द्वितीयमुण्डके द्वितीयखण्डः

[सर्वाधारभूतं ब्रह्म]

आवि: संनिहितं गुहाचरं नाम महत् पदम् अत्रैतत् समर्पितम् ।

एजत् प्राणन्निमिषञ्च यत् एतज्जानथ सदसद्वरेण्यं परं विज्ञानात् यद् वरिष्ठं प्रजानाम् ।।१।।

आविः संनिहितं गुहाचरं नाम महत् पदमिति । आवि: इत्यव्ययम् । योगिनामपरोक्षम् । संनिहितं गुहाचरम् – हृदयगुहावर्तितया सन्निहितम् । नाम – दुर्विज्ञेयस्वरूपतया प्रसिद्धम् । सर्वतो महत् । पदं – प्राप्यभूतमित्यर्थः । अत्रैतत्समर्पितम् एजत् प्राणनिमिषञ्च यत् । एजत् – कम्पमानं जाग्रदिति यावत् । प्राणत् प्राणभृत् । निमिषत् – सुप्तम् । जाग्रत्सुप्तादिभेदभिन्नं प्राणिजातमत्र अक्षरपुरुषे अर्पितमित्यर्थः । एतज्जानथेति । सदसद्वरेण्यम् – स्थूलसूक्ष्मवस्तुभिराधारत्वेन प्रार्थनीयम् । आधारभूतमिति यावत् । तादृशम् एतत् ‘अक्षरम् । परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् । यो विज्ञाने तिष्ठन् (बृ.उ. ५-७-२६) इति श्रुतेः विज्ञानशब्दो जीवपरः । विज्ञानात्परं जीवाधिकं प्रजानामुपायोपेयत्वेनात्यन्तवरणीयम् अत्यन्तप्रार्थनीयम् इत्यर्थः ।।

यदर्चिमत् यदणुभ्योऽणु यस्मिन् लोका – निहिता लोकिनश्च ।

तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सोम्य विद्धि ॥२॥

यदर्चिमत् यदणुभ्योऽणु चेति । ‘यदर्चिमत्’ । अर्चिःशब्दितदीप्तिमत्त्वं विग्रहद्वारा द्रष्टव्यम् । अणुभ्यः – अपि श्यामाकादिभ्यः । अतिसूक्ष्मश्यामाकादिभ्योऽणिष्ठम् सूक्ष्मतया सर्वान्तःप्रवेशयोग्यम् इत्यर्थः । यस्मिंल्लोका निहिता लोकिनश्च । लोकिन: – लोकवासिनः । शिष्टं स्पष्टम् । स प्राणस्तदु वाङ्मनः। उशब्दोऽवधारणे । प्राणादिकमपि तदात्मकमित्यर्थः । तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य । विद्धि । तदेतदक्षरं सत्यम् – अविनाशि अमृतम् – असंसारि । भोग्यमिति वाऽर्थः । तदेव मनसा वेद्धव्यं विद्धि समाहितमनोविषयं विद्धि । तत्र मनःसमाधानं कुर्विति यावत् ।।

[ओंकारपूर्वकध्यानम् ]

धनुर्गृहीत्वौपनिषदं महास्त्रं ह्युपासानिशितं ‘सन्दधीत ।

 आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य ! विद्धि ।। ३ ।।

धनुर्गृहीत्वेति । औपनिषदं – उपनिषत्प्रसिद्धं प्रणवाख्यं धनुर्गृहीत्वा भगवदुपासनया स्थूलसूक्ष्मशरीराद्विवेचितात्मलक्षणं महास्त्रसंयोजितं शरं सन्दध्यात् । किं कृत्वा इत्यत्राह आयम्य तद्भागवतेन चेतसा । भगवत्प्रवणेन चेतसा तद्धनुरायम्य । प्रणवाख्यस्य धनुष आयमनं नाम प्रत्यक्परमात्मनोः शेषशेषिभावलक्षणार्थप्रकाशकत्वेन अनुसंहितत्वम् । तद्भावगतेन चेतसा इति पाठे तद्भावः तत्प्राप्तिः । तद्भावगतेन चेतसा तत्प्राप्तीच्छया शरमायम्येत्यर्थः । तस्य चाऽऽयमनं नाम सेन्द्रियान्तःकरणस्य तस्य विषयान्तरविमुखीकरणपूर्वकमक्षराख्यलक्ष्याभिमुखतया अवस्थापनम् । लक्ष्यं तदेवाक्षरं सोम्य । विद्धि । हे सोम्य ! तदेवाक्षरं लक्ष्यं जानीहि इत्यर्थः ।।

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।

अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ।। ४ ।।

उक्तमर्थं विवृणोति प्रणवो धनुरिति । ओमित्यात्मानं युञ्जीत (महाना. १७-१५) इत्यात्मरूपशर’समर्पणे हेतुत्वात् प्रणवस्य धनुष्ट्वेन रूपणम् । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् । अप्रमत्तेन – विषयान्तरविमुरवेन एकाग्रचित्तेन । वेधो हि तदेकशेषत्वेन तद्ध्यानम् । शरवत् तन्मय इति । यथा लक्ष्ये निमग्नस्य शरस्य लक्ष्यापेक्षया भेदकाकारास्फुरणम् , एवं परमात्मनि प्रणवेन समर्पितस्य प्रत्यगात्मनः तत्साम्यलक्षणां मुक्तिमापन्नस्य ज्ञानैकाकारस्य देवत्वमनुष्यत्वादिलक्षणभेदकाकारास्फूतिरेव तन्मयत्वम् इति द्रष्टव्यम् ।।

[सर्वजगदाधारभूतः परमात्मा मोक्षप्रापकः]

यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वै: ।

 तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः ।। ५ ।।

सेतुः – यस्मिन् अक्षरे धुपृथिव्यन्तरिक्षमनःप्राणादिकं समवेतम् , तमेकमेव स्वेतरसमस्तवस्तुनियन्तृत्वेन व्यापकतया आत्मानं जानीत ; अनात्मविषया वाचस्त्यजत । कस्य हेतोः ? अमृतस्यैष सेतुः । नद्यादिषु हि सेतु: कूलस्य प्रतिलम्भकः । संसारार्णवपारभूतस्यामृतस्य एष प्रतिलम्भक इत्यर्थः ।।

[दृष्टान्तपूर्वक ब्रह्मणः सर्वाधारत्वम् ]

अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः ।

 ओमित्येवं ध्यायथात्मानम् , स्वस्ति वः, पाराय तमसः परस्तात् ।। ६ ।।

अरा इव रथनाभौ संहता यत्र नाड्यः इति । सन्ततं सिराभिस्तु लम्बत्याकोशसंनिभम् (महा.ना. १०-९) इत्युक्तरीत्या यत्र – हृदये, रथनाभौ समर्पिता अरा इव, नाड्यः संहताः – संगताः, तत्र मध्ये स एषः – प्रकृत आत्मा, अजायमानो बहुधा विजायते । तस्य धीरा: परिजानन्ति योनिम् (तै.आर. ३-१३-३) इति देवादीनां समाश्रयणीयत्वाय तत्तज्जातीयस्वरूपसंस्थान- गुणकर्मसमन्वितः स्वीयस्वभावमजहदेव स्वेच्छया बहुधा जायमानः सन् चरते वर्तत इत्यर्थः तमसः परस्तात् वर्तमानाय वः पाराय’ पारावारे परार्वाची तीरे (अ.को. १-१०-८) इति नैघण्टुकाः । प्राप्यभूतायेति यावत् । तत्पदप्राप्तये ओमित्येवमात्मानं ध्यायथेत्यन्वयः । एवं ध्यानाय प्रवृत्तेभ्यो युष्मभ्यं स्वस्ति भवतु ।।

यः सर्वज्ञस्सर्ववित् यस्यैष महिमा भुवि ।

दिव्ये ब्रह्मपुरे ह्येष व्योम्नयात्मा प्रतिष्ठितः ।। ७ ।।

यः सर्वज्ञः सर्ववित् इति । उक्तोऽर्थः । यस्यैष महिमा भुवि इति । भूलोके संसारतन्त्र प्रवर्तन रूप एष महिमा यदीयः इत्यर्थः, दिव्ये ब्रह्मपुरे ह्येष व्योम्नयात्मा प्रतिष्ठितः । यस्यैष महिमा भुवीति लीलाविभूत्यन्वय उक्तः । दिव्ये व्योम्नीति त्रिपाद्विभूतिरुक्ता इति व्यासार्यै: उक्तत्वात् वैकुण्ठाख्ये ब्रह्मपुरे परमे व्योम्नि अयमात्मा प्रतिष्ठित इत्यर्थः ।।

मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय ।

तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ।। ८॥

मनोमयः प्राणशरीरनेता इति । मनोमयः – विशुद्धमनोग्राह्यः । प्राणशरीरनेता – प्राणश्च शरीरं च प्राणशरीरम् । तस्य नेता । जीवस्य प्राणशरीरलम्भक इत्यर्थः । यद्वा मनोमयः प्राणशरीरो भारूप: (छां.उ. ३-१४-२) इति श्रुतेः प्राणः शरीरमस्य प्राणशरीरः । स चासौ नेता च । प्रभुरित्यर्थः । अधिभूर्नायको नेता प्रभुः (अ.को. ३-११) इति हि नैघण्टुकाः । अन्ने – अन्नपरिणामे शरीरे प्रतिष्ठितो यः तस्मिन् चित्तं हृदयं संनिधाय तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति । अमृतम् अस्पृष्टसंसारगन्धम् आनन्दरूपं यद्विभाति, तद्ब्रह्म विज्ञानशब्दितेन दर्शनसमानाकारेण उपासनेन धीराः – प्रज्ञाशालिनः परिपश्यन्ति – साक्षात्कुर्वन्ति इत्यर्थः ।।

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।। ९ ।।

तस्य फलमाह – भिद्यते हृदयग्रन्थिः इति । छिद्यन्ते । हृदयस्य अन्तःकरणस्य ग्रन्थयः – ग्रन्थिवद्दुर्मोचा रागद्वेषादयः । हृत्स्थानमयत इति व्युत्पत्त्या हृदयशब्दितो जीवो वा । ब्रह्मज्ञानेन सार्वज्ञ्यसिद्धेः सर्वविषयकाः संशया नश्यन्ति । अस्य च प्रारब्धव्यतिरिक्तानि पूर्वाणि अनेकभवार्जितानि कर्माणि च नश्यन्ति । नाशो नाम कर्मणां फलजननशक्तिविनाशः । तदधिगम उत्तरपूर्वाघयोः (ब्र.सू.४-१-१३) इति सूत्रे अघस्य विनाशकरणमुत्पन्नायाः तच्छक्तेर्विनाशकरणम् । शक्तिर्हि परमपुरुषाप्रीतिरेव इति भाषितम् । एतत् सर्वं कदा इत्यत्राह – तस्मिन् दृष्टे परावरे । परे अवरे यस्मात् सः परावरः । सर्वोत्कृष्टा अपि ब्रह्मादयो यस्मात् निकृष्टा इत्यर्थः । अथवा परावरे परावरशरीरके ; सर्वात्मभूते इत्यर्थः । तादृशे ‘तस्मिन् दर्शनसमानाकारज्ञानविषयीकृते इत्यर्थः ।

न च, अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि (छां.उ. ८-१३-१) इति शरीरवियोगकाल एव पुण्यपापाख्यकर्मविनाशस्य श्रुतत्वात् साम्पराये तर्तव्याभावात् (ब्र.सू. ३-३-२७) इति सूत्रतद्भाष्ययोरपि तथैव प्रतिपादनात् , क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे इति दर्शनसमानाकारज्ञानारम्भसमय एव श्रूयमाणः कर्मक्षयः कथमुपपद्यतामिति वाच्यम् – अस्मिन् वाक्ये श्रूयमाणः कर्मक्षयो दर्शनसमानाकारोपासनारम्भप्रीतस्य परमात्मनः ‘तत्संप्राप्तौ उपासकस्याघं क्षमिष्ये इति संकल्परूपः । देहवियोगसमयभावी कर्मक्षयस्तु, क्षान्तम्  इति संकल्परूप इत्यविरोधो द्रष्टव्यः ।।

हिरण्मये परे (पुरे) कोशे विरजं ब्रह्म निष्कलम् ।

तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ।। १० ।।

हिरण्मये परे (परे) कोशे इति । तस्यां हिरण्मयः कोश: (तै.आर. १-२७-११५) इति श्रुत्युक्तरीत्या स्वप्रकाशतया कमनीयतया वा हिरण्मयशब्दाभिलप्ये ‘अप्युत्कृष्ट पदार्थोपलब्धिस्थानतया कोशतुल्ये परे उत्कृष्टे परमपदे । पुरे इति पाठोऽपि स्पष्टोऽर्थः । विरजम् । छान्दसमदन्तत्वम् । सत्त्वरजस्तमोऽतीतम् । निष्कलं – निरवयवमित्यर्थः । तच्छुभ्रं ज्योतिषां ज्योतिः । शुभ्रम् – अनवद्यम् । ज्योतिषां ज्योतिः – प्रकाशकानामपि इन्द्रियाणां प्रकाशकम् । ज्योतिश्शब्दितदीप्तियोगो विग्रह-द्वारको द्रष्टव्यः । तद्यदात्मनिदो विदुः । आत्मविदः तद्विदुः यदात्मतत्त्वमिति यावत्।।

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।। ११ ।।

ज्योतिषां ज्योतिष्ट्वं प्रपञ्चयति – न तत्र…… कुतोऽयमग्नि: इति । तस्मिन् दीप्यमाने नैतेषां सूर्यादीनां दीप्तिरस्तीत्यर्थः । ननु अतिभास्वररूपवति सूर्यादौ प्रत्यक्षेण अनुभूयमाने, तद्भासा च जगति भासमाने, न तत्र सूर्यो भाति इति प्रत्यक्षविरुद्धं कथमभिधीयत इत्यत्र आह – तमेव भान्तमनुभाति सर्वमिति । इदं जगद्भासकमादित्यादीनां परिदृश्यमानं रूपं न नैजम् किन्तु परमात्मदत्तं तदीयमेव तेजः । गीतञ्च भगवता – यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ।। (भ.गी. १५-१२) इति । विवृतं चैतद्भगवता भाष्यकृता – अखिलस्य जगतो भासकमेतेषामादित्यादीनां यत् तेजः, तन्मदीयं तेजः तैस्तैराराधितेन मया तेभ्यो दत्तमिति विद्धि इति । अतो याचितक’मण्डित पुरुषतुल्यानामेतेषां भास्वररूपशालिनामपि अनन्याधीन तेजस्त्वाभावात् , न भाति इति व्यपदेशो युज्यत इति भावः । तस्य भासा सर्वमिदं विभाति । सर्वप्रपञ्चभासकस्यापि सौर्यादितेजसस्तद्दत्तत्वेन स्वकीयत्वाभावादिति भावः । अत्र वक्तव्यं सर्वं कठवल्लीविवरणे (५-१५) उक्तं तत्रैव द्रष्टव्यम् ।।

[सर्वं ब्रह्मात्मकम् ]

ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चात् ब्रह्म दक्षिणतश्चोत्तरेण ।

अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ।। १२ ।।

।। इति द्वितीयमुण्डके द्वितीयखण्डः ।।

उपसंहरति – ब्रह्मैवेदममृतम् इति । सर्वासु दिक्षु यदिदं दृश्यते, तत् सर्वं ब्रह्मैव इत्यर्थः। वरणीयतमं ब्रह्मैव इत्यर्थः । शिष्टं स्पष्टम् ।।

।। इति द्वितीयमुण्डके द्वितीयखण्डप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.