प्रश्नोपनिषत् चतुर्थः प्रश्नः

प्रश्नोपनिषत्

चतुर्थः प्रश्नः

[जीवस्य स्वप्नसुषुप्तिविषयकः प्रश्नः]

अथ हैनं सौर्यायणी गार्ग्य: पप्रच्छ । भगवन् ! एतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिन् जाग्रति । कतर एषः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्ति’ इति ।।१।।

अथ हैनं सौर्यायणी इति स्पष्टोऽर्थः । भगवन् । एतस्मिन् पुरुषे कानि स्वपन्ति । पुरुषे सुप्ते सति इति शेषः । शिष्टं स्पष्टम् । कान्यस्मिन् जाग्रति ? अत्रापि, सुप्ते सति इति शेषः । एषः द्योतनादिगुणयोगात् , देवः – जीवः, कतरः – कीदृशः सन् स्वप्नान् रथादीन् पश्यति । कस्य एतत्सुखं भवति ? कस्य हेतोः एतद्वैषयिकं सुखम् इत्यर्थः ।।

तस्मै स होवाच – यथा गार्ग्य ! मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिन् तेजोमण्डले एकी भवन्ति । ता: पुनरुदयतः प्रचरन्ति – एवं ह वै तत् सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति, न पश्यति, न जिघ्रति, न रसयते, न स्पृशते, नाभिवदते, नादत्ते, नानन्दयते, न विसृजते, नेयायते; स्वपिति इति आचक्षते ॥ २ ॥

तस्मै स होवाच इति । यथा सायंकालेऽस्तं गच्छतः सूर्यस्य किरणाः नानादिक्षु प्रसरणं विना आदित्यमण्डले एकीभवन्ति; पुनश्च उद्यत: सूर्यस्य किरणाः नानादिक्षु प्रसरन्त: प्रकाशका भवन्ति । एवम् एतत्सर्वम् इन्द्रियजातम् परे – इतरेभ्य उत्कृष्ट देवे – द्योतनादिगुणयुक्ते मनस्येकीभवति; स्वस्वव्यापाराभिमुख्यविरोधिसंश्लेषविशेषयुक्तं भवति इत्यर्थः । तेन – श्रोत्रादीन्द्रियाणाम् उपरतत्त्वेन ‘इत्यर्थः । आनन्दः उपस्थेन्द्रियकार्यम् । विसर्ग: अपानकार्यम् । नेयायते – न गच्छति इत्यर्थः । स्वपितीत्याचक्षत ‘इत्यन्तेन कानि स्वपन्ति ? इति प्रश्नस्य बाह्यज्ञानेन्द्रियकर्मेन्द्रियादिः स्वपत इत्युक्तम् । प्रत्येकम् एकत्वाभिप्रायेण स्वपिति इत्येकवचनम्।

प्राणाग्नय एव एतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानः व्यानोऽन्वाहार्यपचन: यत् गार्हपत्यात् प्रणीयते, प्रणयनादाहवनीयः प्राणः ।। ३ ।।

यदुच्छ्वासनिश्वासौ एतावाहुती समं नयति इति समानः । मनो ह वाव यजमानः । इष्यफलमेव उदानः । स एवं यजमानमहरहर्ब्रह्म गमयति ।। ४ ।।

कान्यस्मिन् जाग्रति इत्यस्य उत्तरमाह – प्राणाग्नयः इति । प्राणापानादिरूपाः अग्नय एवैतस्मिन् पुरशब्दनिर्दिष्टे शरीरे ‘जागरणं कुर्वन्ति इत्यर्थः । स्वापदशायां जाग्रत्सु प्राणादिपंचकोच्छ्वासनिश्वासमनोरूपेषु उपासनार्थं अग्निहोत्र सम्पत्तिं दिदर्शयिषुः – तत्र व्याप्रियमाणं मन एव यजमानः, अपानो मूलाधारस्थतया गार्हपत्यः, तन्निहितो *व्यानश्चान्वाहार्यपचनशब्दितो दक्षिणाग्निः, अपानवायुमूलकः प्राणो गार्हपत्यात्प्रणीयमानाहवनीयतुल्यतया आहवनीयः, तदाधारकौ उच्छ्वासनिश्वासौ द्वे आहवनीये (तै.ब्रा. २-१-३) इति निर्दिष्टाहुतिद्वयम् , उच्छ्वासनिश्वासहेतुभूतः समानो वायु: आहुती समं नयति इति निर्देशयोग्याध्वर्युः, उदानवायुस्तु यजमानस्य लोकान्तरोन्नयनहेतुत्वात् उदानः इति अग्निहोत्राहुत्यवयवभूतान् यजमानाग्नित्रयाहुतिद्वयाध्वर्युकर्म फलभूतान् ‘अष्टावपि पदार्थान् प्राणादिपंचकोच्छ्वासनिश्वासमनोरूपेष्वष्टासु दर्शयति – गार्हपत्यो ह वा इति । अत्र यद्यपि जीवस्यैव, एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्यः एतं ब्रह्मलोकं न विन्दन्ति (छां.उ. ८-३-२) इति ब्रह्मगमनं श्रूयते; न मनसः – तथाऽपि मनसः पुरीतद्गमनश्रवणात् तद्गतब्रह्मगमयितृत्वोक्तिः उपपद्यत इति द्रष्टव्यम् ।।

अत्रैष देवः स्वप्ने महिमानमनुभवति । यदृष्टं दृष्टमनुपश्यति, श्रुतं श्रुतमेवार्थ मनुशृणोति, देशदिगन्तरैश्च प्रत्युनुभूतं पुन: पुन: प्रत्यनुभवति, दृष्टं चादृष्टं च श्रुतं चाश्रुतं च अनुभूतं चाननुभूतं च सञ्चासञ्च सर्वं पश्यति; सर्वः पश्यति ।।५।।

कतर एष देवः स्वप्नान् पश्यति इत्यस्य उत्तरमाह – अत्रैष देवः इति । अत्र – अस्मिन् अवसरे एष देवः – जीवः, स्वप्ने – करितुरगादिलक्षणं महिमानमनुभवति – पश्यति । जागरे प्राक् यद्दृष्टम् , तमेवार्थमनुपश्यति । अनु – पश्चात्, पश्यति – अनुभवति । दृष्टं दृष्टं भूयो दृष्टम् इत्यर्थः । श्रुतमेवार्थमनुशृणोति। ‘देशान्तरेषु’ प्रत्यहमनुभूतमर्थं पुनः पुनः अनभवति । दृष्टं श्रुतमेव अनुभवति इति अयमपि नियमो नास्ति ; कदाचित् पूर्वानुभूतमपि शरीर-च्छेदनादिकम् अनुभवति । विद्यमानं च अनुभवति ; अविद्यमानं च अनुभवति। सर्वः पश्यति – सर्वः सन् पश्यति । द्रष्टा, श्रोता, घ्राता, गन्ता वक्ता च इत्यादिसर्वरूपःसन् पश्यति इत्यर्थः । तदानीं जागरीयबाह्यज्ञानकर्मेन्द्रियाणाम् उपरतव्यापारत्वेऽपि स्वाप्निकैः ईश्वरसृष्टैः शरीरेन्द्रियैः द्रष्टृत्वादिमान् सन् अनुभवति इति भावः ।।

स यदा तेजसाऽभिभूतो भवति, अत्रैष देवः स्वप्नान्न पश्यति । अथ तदेतस्मिन् शरीरे एतत् सुखं भवति ।। ६ ।।

एतस्मिन्नन्तरे, सता सोम्य तदा सम्पन्नो भवति (छां.उ.६-८-१), तेजसा हि तदा म्पन्नो भवति (छां.उ.८-६-३) इति श्रुत्युक्तरीत्या परप्रकाशकतया तेजः शब्दितेन परमात्मना अभिभूतो भवति – सम्पन्नो भवति – सम्परिष्वक्तो भवति इति यावत् । तदा स्वप्नान् पदार्थान् न पश्यति इत्यर्थः । ततश्च कतर एष स्वप्नान् पश्यतिप्रश्नस्य ब्रह्मसम्पत्तिविरहदशायां मनोमात्रपरिशेषसमये स्वाप्नान् पदार्थान् पश्यतीति उक्तं भवति ।

कस्यैतत्सुखं भवति इत्यस्य उत्तरमाह – अथ तदेतस्मिन् इति । यत् सुखं भवति, तत् एतस्मिन् शरीरे सत्येव भवति इत्यर्थः । शरीरमेव वैषयिकसुखहेतुरित्युक्तं भवति,  अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः (छां.उ. ८-१२-१) इति श्रुतेः इति द्रष्टव्यम् ।।

स यथा सोम्य वयांसि वासोवृक्ष सम्प्रतिष्ठन्ते, एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते ।।७।।

कस्मिन् सर्वे प्रतिष्ठिता भवन्ति इत्यस्य उत्तरमाह – स यथा सोम्य इति । वयांसि – पक्षिण: वासोवृक्षम्-निवासवृक्षं प्रति सम्प्रतिष्ठन्ते । सः दृष्टान्तो यथा, एवं परमात्मनि सर्वं प्रतिष्ठितं भवति इत्यर्थः ।।

पृथिवी च पृथिवीमात्रा च आपश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा च आकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यम् च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ च आदातव्यं च उपस्थश्चाऽऽनन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च अहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ।। ८ ।।

सर्वशब्दार्थ प्रपंचयति – पृथिवी च इत्यादिना । अत्र पृथिवीमात्राशब्देन पुराणेषु गन्धतन्मात्रशब्दाभिलप्या पृथिवीपूर्वावस्था उच्यते । एवमुत्तरेष्वपि मात्राशब्देषु द्रष्टव्यम् ।।

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः। स परेऽक्षरे आत्मनि सम्प्रतिष्ठते ।। ९ ।।

एष हि द्रष्टा इत्यादि । चेतनाचेतनरूप: – कर्तृकरणकर्मरूप: सर्वोऽपि प्रपञ्चः तदाश्रित इति भावः । अत्र बोद्धा कर्ता विज्ञानात्मेति निर्देशात् आत्मनो ज्ञातृत्वमेव, न ज्ञानरूपत्वम् इति वदन्तः तार्किकाः ज्ञानत्वमेव न ज्ञातृत्वम् इति वदन्तो मृषावादिनश्च निरस्ता भवन्ति ।।

परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्त सोम्य ! सर्वज्ञस्सर्वो भवति । तदेष श्लोकः ।। १० ।।

स. यो ह वै तत् इति । छायाशब्देन ज्ञानसंकोचकं कर्मोच्यते । अच्छायम् – अपापम् इत्यर्थः । अत एव अशरीरम् अलोहितम् – रूपादिशून्यम् , शुभ्रम् – स्वप्रकाशम् , अक्षरम् – क्षरणशून्यम् परमात्मानम् , वेदयते – जानाति, सः हे सोम्य ! प्रियदर्शन ! परमेवाक्षरं ब्रह्म वासुदेवं प्रतिपद्य सर्वज्ञो भवति सर्वी भवति – सर्वकामयुक्तो भवति । तदेष श्लोकः । तत् – ब्रह्माभिमुखीकृत्य एषः – वक्ष्यमाणः, श्लोकः ।।

विज्ञानात्मा सह देवैश्च सर्वेः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र । शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाऽऽविवेशेति ।। ११ ।।

विज्ञानात्मा इति । सर्वैः देवैः – वागादीन्द्रियैः सह मुख्यप्राणाः, भूतानि – महाभूतानि च जीवात्मा च यत्र प्रतितिष्ठन्ति, तादृशम् , शुभ्रम् – ‘स्वप्रकाशम्’, अक्षरम् – निर्विकारं परमात्मानं यो जानाति, स सर्वज्ञः सर्वमपि ‘कामजातम्, आविवेश – आविशति । सर्वेषु लोकेषु कामचारो भवति (छां.उ.७-२५-२) इति श्रुत्युक्तरीत्या काम्यमानसर्वलोकसंचारी भवति इत्यर्थः ।।

।। इति चतुर्थप्रश्नप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.