प्रश्नोपनिषत् प्रथमः प्रश्नः

प्रश्नोपनिषत्

प्रथमः प्रश्नः

[ब्रह्मविद्यामधिगन्तुं सुकेशादीनां पिप्पलादाचार्यसमीपगमनम् ]

हरिः ओम् ।

सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्य: कौसल्यश्चाश्वलायन: भार्गवो वैदर्भिः कबन्धी कात्यायन: ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परंब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ।।१ ।।

प्रकाशिका

श्रीरङ्गरामानुजमुनिविरचिता

[मङ्गलाचरणम् ]

अतसीगुच्छसच्छायमंचितोर:स्थलं श्रिया ।

अंजनाचलशृङ्गारमंजलिर्मम गाहताम् ।।

 व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि ।

क्रमात् प्रश्नोपनिषदं व्याकरिष्ये यथामति ।।

सुकेशा च भारद्वाजः इति । भरद्वाजस्य अपत्यं पुमान् भारद्वाजः, नामतः सुकेशा; शिबेरपत्यं शैब्यः, नामतः सत्यकामः, सूर्यायणस्य अपत्यं ‘सौर्यायणी’, ईकार: छान्दसः, गोत्रतो गार्ग्यः; कौसल्यो नामतः, आश्वलस्यापत्यम् आश्वलायनः, भार्गवो गोत्रतः, विदर्भस्य अपत्यं वैदर्भिः; कबन्धी नामतः, कात्यायनो गोत्रतः ।

ते हैते ब्रह्मपरा इत्यादि । ते ह प्रसिद्धाः । एते – उक्ताः सुकेशसत्यकाम सौर्यायणी’ कौसल्यभार्गवकबन्धिनः षडृषयः । ब्रह्मपराः – वेदपराः ; वेदैकशरणा इत्यर्थः । ब्रह्मनिष्ठाः वेदार्थतात्पर्यवन्तः । यद्वा – ब्रह्मपरा: – ब्रह्मज्ञानतत्पराः ब्रह्मनिष्ठाः – तपोनिष्ठाः । वेदस्तत्त्वं तपो ब्रह्म (अ.को. ३-३-११४) इत्युक्तेः । परं ब्रह्म । परम् – उत्कृष्टं ‘निरुपचितम् ब्रह्म – स्वरूपतो गुणतश्च बृहद्भूतं वस्तु अन्वेषमाणाः – जिज्ञासमाना इत्यर्थः । ह शब्दः प्रसिद्धौ । वै शब्दोऽवधारणे । एषः – अस्मद्बुद्धौ विपरिवर्तमानः परब्रह्मवित्त्वेन प्रसिद्धः पिप्पलाद एव षण्णामस्माकं जिज्ञासितान् अर्थान् वक्तुं प्रभवतीति पर्यालोच्य समिद्भाराद्युपायनपाणयः शास्त्रदृष्टेन विधिना पूज्यं पिप्पलादम् उपगता इत्यर्थः ।।

[आचार्येण शिष्येभ्यः ब्रह्मचर्यादिविधानम् ]

तान् ह स ऋषिरुवाच, भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ ।

यथाकामं प्रश्नान् पृच्छत (थ) । यदि विज्ञास्यामः, सर्वं ह वो वक्ष्याम इति ।।२।।

तान् ह स ऋषिरुवाचेति स्पष्टोऽर्थः । भूय एवेति । यद्यपि पूर्वमेव भवन्तः तपोब्रह्मचर्यादिसम्पन्नाः तथाऽपि ब्रह्मविद्याग्रहणार्थं पुनरपि शरीरशोषणादिलक्षणतपसा, योषित्स्मरणकीर्तनकेलिप्रेक्षणगुह्यभाषणसंकल्पाध्यवसायक्रियानिर्वृतिलक्षणाष्टविधमैथुनवर्जन रूपब्रह्मचर्येण आस्तिक्यबुद्धिलक्षणया श्रद्धया ‘युक्तास्सन्तः संवत्सरमात्रं वासं करिष्यथ; वासं कुर्वन्तु इति यावत् । ततः स्वेच्छानुरोधेन प्रष्टव्यान् अर्थान् पृच्छत । यदि तानर्थान् वयं ज्ञास्यामः तदा वंचन मन्तरेण सर्वं वक्ष्यामः । यद्यस्मासुज्ञातृत्व’ निश्चयाभावेन संवत्सरब्रह्मचर्यतप आदौ बहुक्लेशसाध्ये प्रवृत्तिर्न युष्मभ्यं रोचते, तदा सुखेन गन्तव्यम् इति भावः ।

ततश्च गुरोर्ज्ञातृत्वपरीक्षामन्तरेणैव शुश्रूषा कार्या इत्ययमर्थः शिक्षितो भवति । तथा गुरोरपि शिष्यसङ्ग्रहे नातीवाऽऽदरः कर्तव्य इत्यर्थश्च सूचितः ।।

[सृष्टिमूलप्रश्नः]

अथ कबन्धी कात्यायन उपेत्य पप्रच्छ, भगवन् !

कुतो ह वा इमाः प्रजाः प्रजायन्ते इति ।।३।।

अथ कबन्धी इति । संवत्सरवासानन्तरम् अन्यैरनुज्ञात: कबन्धी पिप्पलादस्य समीपं यथाविधि उपगम्य पप्रच्छ । किमिति ? भगवन् ! कुतो ह वा इति स्पष्टोऽर्थः ।।

[परमात्मनः सकाशात् जगदुत्पत्त्युपदेशः]

तस्मै स होवाच । प्रजाकामो ह वै प्रजापतिः स तपोऽतप्यत ।

स तपस्तप्त्वा स मिथुनमुत्पादयते रयिं च प्राणं चेति ।

एतौ मे बहुधा प्रजाः करिष्यत इति ।। ४ ।।

तस्मै स होवाच – एवं पृष्टवते कबन्धिने पिप्पलाद उवाच । प्रजाकामो ह वै इति । अत्र प्रजापतिशब्दो ब्रह्मपरः, अस्य कारणवाक्यत्वात् । व्यासार्यैः सर्वव्याख्यानाधिकरणे अत्रत्यप्रजापतिशब्दस्य ब्रह्मपरत्वस्य समर्थितत्वात् । सः – प्रसिद्धः प्रजापतिः – परमात्मा प्रजासृष्टिकामनया स्रष्टव्यालोचनरूपं तपः अतप्यत – कृतवान् । स तपस्स्तप्त्वेति । एवं स्रष्टव्यं पर्यालोच्य, रयिप्राणशब्दितप्रकृतिपुरुषाख्यं मिथुनमुत्पादितवान् इत्यर्थः । केनाभिप्रायेण इत्यत आह – एतौ मे इति । प्रजाकामस्य मम एतौ रयिप्राणौ अनेकप्रकारान् प्राणिन उत्पादयिष्यत इत्यभिप्रायेणेत्यर्थः ।।

[प्राणरयिशब्दार्थनिरूपणम् ]

आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः । रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च । तस्मान्मूर्तिरेव रयिः ।। ५ ।।

रयिप्राणशब्दार्थमाह – आदित्यो ह वै इति । आदत्त इत्यादित्यः – भोक्ता । स एव प्राण इत्यर्थः । तस्य प्राणशब्दितत्वे हेतुः समनन्तरमेव वक्ष्यते । रयिरेव चन्द्रमा इत्यस्याभिप्रेतार्थमाह – रयिर्वा इति । मूर्तशब्देन पृथिव्यप्तेजांसि उच्यन्ते । अमूर्तशब्देन वाय्वन्तरिक्षे उच्यते । सर्वमपि भूतजातं रयिः – अन्नम् , भोग्यमित्यर्थः । तस्मात् ‘मूर्ति शब्दितं पांचभौतिकं शरीरं सर्वं भोग्यमेव इत्यर्थः ।।

[आदित्यस्य प्राणशब्दवाच्यत्वे हेतुः]

अथाऽऽदित्यः उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्या प्राणान् रश्मिषु सन्निधत्ते । यत् दक्षिणं यत् प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशः, यत्सर्वं प्रकाशयति, तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ।।६।।

अथाऽऽदित्यः । रयिनिरूपणानन्तरमादित्यः वर्ण्यत इति शेषः । आदित्यशब्दितस्य भोक्तुः प्राणशब्दितत्वे हेतुरुच्यत इति यावत् । उदयन् यत् प्राचीं दिशं प्रविशति इति । अयं जीव; सुषुप्तिस्थानात् प्रबुध्यमान एव सन् प्राचीं दक्षिणां प्रतीचीम् उदीचीम् अधश्च  ऊर्ध्वं अन्तरादिशश्च सर्व प्रकाशयन् तत्तद्दिग्वर्ति इन्द्रियाणि धर्मभूतज्ञानाख्यरश्मिद्वारा बिभर्ति । तस्मात् स एव सर्वप्राणशब्दितेन्द्रियनिर्वोढृत्वात् प्राण इत्यर्थः । प्राचीं दिशं पविशति – प्रकाशयति प्राच्यान्  पदार्थान् उपलभत इति यावत् । तेन – तस्माद्धेतो: प्राच्यान्  प्राणान् रश्मिषु सन्निधत्ते – पूर्वदिग्वर्तिपदार्थप्रकाशकान् चक्षुरादीन् प्राणान् धर्मभूतज्ञानाख्यरश्मिमुखेनाधितिष्ठति, प्रेरयति । धर्मभूतज्ञानेन तदधिष्ठातृत्वलक्षणसंनिधानाभावे चाक्षुरादिना करणेन रूपाधुपलम्भो न स्यात् । चेतनानधिष्ठितस्य करणस्य कार्यासमर्थत्वात् इति भावः । यद्दक्षिणां यत्प्रतीचीम् इत्यादौ, यद्दक्षिणां प्रविशति तेन दक्षिणात्यान् प्राणान् रशिषु सन्निधत्ते, यत्प्रतीचीम् प्रविशति तेन प्रतीच्यान् प्राणान् रश्मिषु सन्निधत्ते इत्यादि शेषः पूरणीयः । लाघवार्थं प्रतिपर्यायं तदनुक्तिः । अत्र प्रजाः सिसृक्षुः परमात्मा प्रकृतिं पुरुषं च ससर्जेति वक्तव्ये परोक्षरूपेण रयिप्राणशब्दाभ्यां तदभिलापः, रयिप्राणयोः चन्द्रादित्य शब्दाभ्यामभिलापश्च, परोक्षपिया इव हि देवा: (ऐ.उ. १-३-१४) इति रीत्या रहस्यार्थस्य स्टतरोपदेशानर्हत्वसूचनार्थः ।।

[परमात्मनः वैश्वानरादिशब्दवाच्यत्वम् ]

स एष वैश्वानरो विश्वरूप प्राणोऽग्निरुदयते। तदेतदृचाभ्युक्तम् ।। ७ ।।

आदित्यो ह वै प्राण इति ‘प्राण’ शब्दनिर्दिष्टस्य भोक्तृवर्गस्य उदयमानस्य परमात्मात्माकतामाह – स एष वैश्वानरो विश्वरूपः इति । यः प्राक् प्रस्तुतः प्रजापतिशब्दितो विश्वेषां नराणां नेतृत्वेन वैश्वानरशब्दवाच्यः, सर्वशरीरतया विश्वरूपशब्दितः, अग्रनेतृत्वादिगुणयोगेन अग्निशब्दितः सः एषः – प्राक् प्रजापतिशब्दनिर्दिष्टः परमात्मा आदित्यो ह वै प्राणः इति प्राणशब्दितभोक्तृरूपः सन् उदयत इत्यर्थः ।।

अयं च मन्त्रः वैश्वानराधिकरणे परमात्मपरतया सिद्धवत्कृत्य भगवता भाष्यकृता व्यवहृतः, अतः एवं व्याख्यातमिति द्रष्टव्यम् । तदेतदृचाऽभ्युक्तम् । तदेतत् ब्रह्माभिमुखीकृत्य ऋङ्मन्त्रेणोक्तम् ।।

[जीवः परमात्मानुवर्ती]

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।

सहस्ररश्मिश्शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ।।८।।

विश्वरूपं हरिणम् इति । विश्वरूपम् – सर्वशरीरम् । जातानि ‘वेदांसि यस्मात् स जातवेदाः, प्रज्ञा तस्मात् प्रसृता पुराणी इति सर्वज्ञानोत्पादकम् , परायणम् – परं प्राप्यम् ज्योतिः – सर्वप्रकाशकदीप्तिमन्तम् , एकम् – अद्वितीयम् , तपन्तम् – जाठराग्नयादिरूपेण तपन्तम् , सन्तापयति स्वं देहमापादतलमस्तकम् (तै.ना. ९९) ।

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ।। (भ.गी. १५-१४)

इति श्रुतिस्मृतिभ्याम् , हरिणम् – हरिम् इत्यर्थः, हरिशब्दस्य नान्तत्वं छान्दसम् । वर्तमान: – अनुवर्तमानः – तद्विधेयतया तच्छरीरभूत इति यावत् । सहस्ररश्मिः – नानाविधविषय विषयक ज्ञानवान् , प्रजानाम् – स्थावरजङ्गमात्मकानां प्राणानाम् , प्राणः – धारकः, सूर्यः – सूर्यवत्प्रकाशकः, एषः – जीवः, शतधा – देवमनुष्यादिनानाविधदेहात्माभिमानशालितया, उदयति – सुषुप्तिस्थानात् “उदयते’, सर्गकाले उदयत इति वा अर्थः ।।

[इष्टापूर्तकारिणां पुनरावृत्तिः]

संवत्सरो वै प्रजापतिः तस्यायने दक्षिणं चोत्तरं च तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते, ते चन्द्रमसमेव लोकमभिजयन्ते त एव पुनरावर्तन्ते । तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयि:यः पितृयाणः ।।९ ॥

एवं सूक्ष्मप्रकृतिजीवशरीरकस्य प्रजापतेः रयिप्राणशब्दित प्रकृतिपुरुष रूपभोग्यभोक्त्रात्मना विभागमुपवर्ण्य तस्यैव परमात्मनः अखण्डकालरूपेण स्थितस्य खण्डकालरूपेण विभागं प्रदर्शयिष्यन् चित्तावतरणाय वा उपासनार्थं वा संवत्सराख्यप्रजापतेः दक्षिणोत्तरायणात्मकं रयिप्राणरूपं विभागम् , तथा मासाख्यप्रजापतेः रयिप्राणशब्दितं कृष्णशुक्लपक्षात्माकं विभागम् , अहोरात्रात्मककालरूपप्रजापतेः रयिप्राणात्मकं रात्र्यहरात्मकं विभागम् , तत्प्रसङ्गेन रयिशब्दार्थदक्षिणायनकृष्णपक्षरात्र्यपेक्षया प्राणशब्दार्थभूतोत्तरायण शुक्लपक्षदिवसानाम् उत्कर्षं च वक्तुमारभते – संवत्सरो वै इति । तस्य – संवत्सराख्यकालरूपस्य प्रजापतेः दक्षिणोत्तरशब्दित अयने – सूर्यगत्याधारभूते द्वे रूपे स्तः । तद्ये ह वै इत्यादिना । ह वा इति प्रसिद्धौः स्मरणे वा । अयमर्थः – तत् – तत्र ये पुरुषाः, इष्टापूर्ते दत्तमिति तत् ‘कर्मोपासत इत्यर्थः । य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते (छा.उ. ५-१०-३) इति श्रुत्यन्तरैकार्थ्यात् । कृतशब्दो दत्तपरः । इष्टम् – यागादि, श्रौतम्, पूर्तम् – खातादि, इतिशब्दः प्रकारवचनः । यागदानवापीकूपादिकं कर्म येऽनुतिष्ठन्ति, ते चन्द्रमस्संबन्धिनं लोकम् अभिजायन्ते – अभिजयन्ति, प्राप्नुवन्ति । त एव पुनरावर्तन्ते । न त्वात्मोपासका उत्तरमार्गेण गता इत्यर्थः ।

तस्मादेते इति । तस्मात् हेतोः एते – कर्मठाः प्रजास्वर्गादिलक्षणक्षुद्रफलकामा: ऋषयः – क्षुद्रफलद्रष्टारः दक्षिणं पन्थानं पितृयाणशब्दितं प्रतिपद्यन्ते । एष एव पितृयाण: रयि: अन्नप्रधानो वैषयिकभोगात्मक इति यावत् ।

यद्यपि धूमो रात्रिस्तथा कृष्णः (भ.गी. ८-२५) इत्यादिप्रमाणप्रतिपन्नः पुराणेषु दक्षिणमार्गनिर्दिष्ट: धूमादिः चन्द्रान्तः पितृयाणोऽप्यन्यः । संवत्सरावयवभूतषण्मासात्मा दक्षिणायननिर्दिष्टोऽप्यन्यः । तथाऽपि दक्षिणायनशब्देन द्वयोरपि व्यवह्नियमाणत्वात् कालमार्गयोरेकीकृत्य व्यवहार उपपद्यत इति द्रष्टव्यम् ।।

[ब्रह्मोपासकानां अपुनरावृत्तिः]

अथोत्तरेण, तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्य आदित्यमभि जयन्ते ।

एतद्वै प्राणानामायतनम् एतदमृतमभयम् , एतत्परायणम् । एतस्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेष श्लोकः ।। १० ।।

अथोत्तरेणेति । अथशब्दः वाक्यान्तरोपक्रमे । ये तावत् , किं प्रजया करिष्यामः (बृ.उ. ६-४-२२) इति विरक्ता ऋषयः कायक्लेशादिलक्षणेन तपसा, स्त्रीसङ्गराहित्यलक्षणेन ब्रह्मचर्येण, आस्तिक्यबुद्धिलक्षणया श्रद्धया ; प्रत्यगात्मविद्यया परमात्मानम् उपास्य अर्चिरादिना उत्तरेणायनेन’, आदित्याच्चन्द्रमसं, चन्द्रमसो विद्युतम्, तत्पुरुषोऽमानवः, स एनान् ब्रह्म गमयति (छां.उ. ४-१५-५) इत्युक्तप्रकारेण ब्रह्मप्राप्तिद्वारभूतमादित्यम् अभिजयन्ते – प्राप्नुवन्तीत्यर्थः । ‘अन्वेष्टव्यतया निर्दिष्टमात्मानं स्तुवन् तेषाम् अपुनरावृत्तिं दर्शयति – एतद्वै प्राणानामिति । आयतनशब्दापेक्षया एतत् इति नपुंसकलिङ्गनिर्देशः । प्राणानाम् – प्राणभृताम् , आयतनम् – आधारभूतम् , तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता: एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिता:, प्रज्ञामात्रा: प्राणेऽर्पिता: (कौ.उ. ३-६१) इति परमात्मनः सकलचेतनाधारत्वोक्तेः । एतत् परायणम् परं प्राप्यमित्यर्थः । एतस्मान्न पुनरावर्तन्ते, उपासका इति शेषः । उत्तरेण मार्गेण गताः, मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते (भ.गी. ८-१६) इत्युक्तरीत्या परमात्मानं प्राप्य न निवर्तन्त इत्यर्थः । एष निरोधः । एष:- प्रजाकामो वै प्रजापतिः (प्र.उ.१-४) इति प्राक्प्रजापतिशब्दनिर्दिष्टः परमात्मा स्वं प्राप्तस्य पुनरावृत्तिनिरोधकारी । अतः तं परमात्मानं प्रजापतिशब्दितं प्राप्तस्य तदुपासकस्य अपुनरावत्तिः उपपद्यत इति भावः । अत्र, एष इत्येतच्छब्देन प्रजापतिपरामर्शात् , आत्मानमन्विष्य इत्यात्मशब्दोऽपि प्रजापतिपर एव ।

अत एवैतत् सर्वमभिप्रेत्य सर्वव्याख्यानाधिकरणे (१-४-८) व्यासार्यैः – तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते, एतस्मान्न पुनरावर्तन्ते इत् अर्चिरादिगत्या अपुनरावृत्तिप्रतिपादनात्, प्रजाकामो ह वै प्रजापतिः इति प्रजापतिशब्दनिर्दिष्टः परं ब्रह्मेति प्रतिपादितमिति द्रष्टव्यम् । ततश्च प्रजापतिमुपासीनस्य अर्चिरादिगत्यप्रतिपादनात् कथं प्रजापतेः ब्रह्मत्वमिति शंका पराकृता ।

तदेष श्लोकः । तत् – तस्मिन् संवत्सरात्मनि प्रजापतौ वक्ष्यमाणः श्लोक इत्यर्थः ।।

[परमात्मनः संवत्सररूपत्वम् ]

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्द्ध पुरीषिणम् । अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ।। ११ ।।

पञ्चपादं पितरम् इति । वत्सर – संवत्सर – परिवत्सरेडावत्सरानुवत्सररूपाः पञ्चपादा यस्य स पञ्चपादः । अथवा, हेमन्तशिशिरयोः एकीकरणात् षडृतवः पञ्चर्तवः सम्पद्यन्ते, ते पादा यस्य सः ‘पंचपादः तम्। पितरम् – सर्वस्य जनकम् , द्वादशाकृतिम् – द्वादशमासाकृतिम् , दिवः स्वर्गात् , परे – परस्मिन् , अर्धे – स्थाने, पुरीषिणम् – पुरीषशब्देन स्वर्णभूमिसन्निहितं ब्रह्माण्डगोलकावरणमुच्यते । तदस्य स्थानत्वेन अस्तीति पुरीषिणमाहु: इत्यन्वयः । अथेमे । अथशब्दः पक्षान्तरपरिग्रहे, उशब्दोऽवधारणे, परशब्दः उत्कृष्टवचनः । पूर्वोक्तेभ्योऽन्ये उत्कृष्टा:, इमे – कालतत्त्वविदः आदित्यादिग्रहसप्तकलक्षणचक्रयुक्ते ऋतुलक्षणारषट्कयुक्ते संवत्सराख्ये रथे जगत्सर्वं विचक्षणम् – कुशलं निश्चलं यथा भवति तथा अर्पितम्  इत्याहुः ।।

[परमात्मन: मासरूपत्वम् ]

मासो वै प्रजापतिः ।तस्य कृष्णपक्ष एव रयिः, शुक्लः प्राणः ।तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति; इतर इतरस्मिन् ॥ १२ ॥

यथा संवत्सरो रयिप्राणात्मना विभक्तः, एवं मासोऽपि विभक्त इति उपासनार्थं प्रदर्शयति – मासो वै प्रजापतिरिति । स्पष्टोऽर्थः ।

तस्मादेते इति । यस्मात् शुक्ल: पक्षः प्राणतयोत्कृष्टः, तस्मात् ऋषयः अतीन्द्रियार्थद्रष्टारः सर्वेऽपि शुक्लपक्ष एव शोभनानि कर्माणि कुर्वन्ति । इतरे – अनृषयः, अज्ञाः पुनः अप्राणतया असारभूते कृष्णपक्षे कुर्वन्ति इत्यर्थः ।।

[परमात्मनः अहोरात्ररूपत्वम् ]

अहोरात्रो वै प्रजापतिः, तस्याहरेव प्राणो रात्रिरेव रयिः। प्राणं वा एते प्रस्कन्दन्ति ; ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तत् , यद्रात्रौ रत्या संयुज्यन्ते ।। १३ ।।

अमुमेव विभागं अहोरात्रेऽप्युपासनाय ‘दर्शयति’ – अहो रात्रो वै प्रजापतिः इति । स्पष्टोऽर्थः । प्राणं वा एते इति । यस्माद्धेतोः अह्नः प्राणरूपत्वम् , अत एव रत्या – रत्यर्थम् । प्रयोजनस्य हेतुत्वविवक्षया तृतीया । प्राणभूतेऽह्नि स्त्रीभिः ये संयुज्यन्ते, त एते प्राणमेव प्रस्कन्दन्ति – प्रकर्षेण शोषयन्ति; प्राणापचारात् प्राणमेव निघ्नन्ति इत्यर्थः ।

ननु तर्हि स्वयोषिद्गमनं गृहस्थैः न कार्यम् इत्याशंक्य रात्रौ कार्यमित्याह – ब्रह्मचर्यमेव तदिति । रत्यर्थं रात्रौ स्रीसंयोग: ब्रह्मचर्यमेव । मैथुनमेव न भवति इत्यर्थः । तन्न दोषाय इति यावत् ।।

[परमात्मनः अन्नरूपत्वम् ]

अन्नं वै प्रजापतिः, ततो ह वै तद्रेतः, तस्मादिमाः प्रजाः प्रजायन्त इति ।। १४ ॥

ननु प्रकृतिपुरुषकालात्मकं ब्रह्म कथं प्रजानामुपादानम् इत्युच्यते; अन्नपरिणामभूतस्य रेतस एव प्रजोपादानत्वदर्शनादित्याशंक्याह – अन्नं वै प्रजापतिरिति । अन्नावस्थं तदुत्पन्नरेतोऽवस्थं च यतः प्रजापतिशब्दितं ब्रह्मैव, अत: प्रकृतिपुरुषसंवत्सरमासादि कालान्नरेतोवस्थारूपाद्ब्रह्मणः सर्वाः प्रजाः प्रजायन्त इति प्रजापतिशब्दितस्य ब्रह्मणः उपादानत्वमुपपद्यत इति भावः ।।

[उक्तसृष्टितत्त्वानुसारिषु अधिकारिभेदेन फलभेदः]

तद्ये ह तत् प्रजापतिव्रतं चरन्ति, ते मिथुनम् उत्पादयन्ते । तेषामेवैष ब्रह्मलोकः । येषां तपो ब्रह्मचर्यम् , येषु सत्यं प्रतिष्ठितम्।। १५ ।।

तेषामसौ विरजो ब्रह्मलोकः, न येषु जिह्ममनृतं न माया चेति ।। १६ ।।

।। इति प्रथमः प्रश्नः ।।

प्रसङ्गात् अमुमुक्षुनिन्दापूर्वकं मुमुक्षून्  स्तौति – तद्ये ह वै प्रजापतिव्रतं चरन्ति इति । तस्मात् ये, अन्नं वै प्रजापतिः इति प्रजापतिशब्दितस्य अन्नस्य व्रतं भक्षणं व्रतत्वेनानुतिष्ठन्ति, ये अन्नभक्षणशीला: ब्रह्मचर्यरहिताः, त एव प्रजा उत्पादयन्ते । एष ब्रह्मलोक: – पुत्र-पश्वादिलक्षण: कार्यभूतब्रह्मरूपः लोकः । तेषामेव न त्वात्मकामानामिति भावः।

येषां तपो ब्रह्मचर्यम् इति । येषां कायशोषणाख्यं तपः, न भक्षणशीलता, मैथुनवर्जम् । येषु च सत्यवचनं प्रतिष्ठितम् – येषु च मनस्यन्यद्वचस्यन्यत् कर्मण्यन्यद्दुरात्मनाम् (हितो. मित्रलाभे – १०२) इत्युक्त कौटिल्यलक्षणजिह्मत्वं नास्ति ; भूताहितं असत्यवचनं नास्ति – तेषामसौ विरजो निर्दोषः ब्रह्मैव लोको ब्रह्मलोकः परब्रह्मरूपं फलम् इत्यर्थः । तथैव व्यासार्यैः सर्वव्याख्यानाधिकरणे विवृतत्वात् इति द्रष्टव्यम् । इति शब्दः प्रतिवचनसमाप्तौ ।।

।। इति प्रथमप्रश्नप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.