प्रश्नोपनिषत् षष्ठः प्रश्नः

प्रश्नोपनिषत्

षष्ठः प्रश्नः

[जीवस्य षोडशकलत्वं परमात्मोपासनं ]

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् ! हिरण्यनाभ: कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नम् अपृच्छत षोडशकलं भारद्वाज ! पुरुषं वेत्थ इति । तमहं कुमारम् अब्रुवम् नाहमिमं वेद । यद्यहमिमवेदिषम् कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति, योऽनृतमभिवदति । तस्मानार्हाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि, क्वासौ पुरुष इति ।। १ ।।

अथ हैनं सुकेशा इत्यादि । हे भगवन् ! हिरण्यनाभनामा कोसलदेशाधिपती राजपुत्रो मत्समीपमागत्य इमं वक्ष्यमाणं प्रश्नं कृतवान् । हे भारद्वाज । इति मां ‘सम्बोध्य प्राणाद्याः नामान्ता: षोडशकला यस्य स षोडशकलः, तं पुरुषं वेत्थ – जानासि किमिति इत्यर्थः । तम्-राजकुमारम् अहमेव मुक्तवान् , त्वदुक्तं पुरुषमहं न जानामि । यद्यहं जानीयाम् , केन हेतुना राजकुमाराय योग्याय शिष्याय न कथयिष्यामि इति । योऽनृतं ब्रूते, स मूलेन सह सर्वतः शुष्यति । श्रेयो हेतुभूतं पुण्यं सर्वमेव नश्यति इत्यर्थः । अतो मदुक्ते त्वयाऽनृतशंका न कार्येति भावः । प्रवव्राज – प्रकर्षण गतः । अनेन स्वल्पलज्जा’ सूचिता । रथेन प्रवव्राज इत्यनेन तस्य प्रभुत्वं सूचितम् । तमेव षोडशकलं पुरुषं पृच्छामि त्वाम् कासौ इति । क प्रदेशे तिष्ठति इत्यर्थः । अत्र आधारभूतदेशप्रश्नद्वारा जीवो वा परमात्मा वा इति निर्णयार्थोऽयं प्रश्न इति द्रष्टव्यम् ।।

तस्मै स होवाच । इहैवान्तश्शरीरे सोम्य स पुरुषः, यस्मिन्नेताः षोडशकला: प्रभवन्तीति ।।२।।

तस्मै सहेति । इहैवान्तश्शरीरे सोम्य ! स पुरुषः यस्मिन्नेताष्षोडशकला: प्रभवन्ति । इहैवान्तश्शरीरे वर्तन्त इति शेषः । अनेन शरीरपरिच्छिन्नप्रदेशमात्राधारत्वोक्तया जीव इत्युक्तम् भवति ।

ननु जीवस्यैव कथं षोडशकलत्वम् ? षोडशकलाधारत्वतत्स्रष्टृत्वयोः ‘परमात्मन्येव पुष्कलत्वादित्याशंक्याह – यस्मिन् इति । यस्मिन् – पुरुषे, एताः – वक्ष्यमाणा: प्राणाद्या नामान्ताः षोडशकलाः स्वसंसर्गप्रयुक्तसुखदुःखादिभोगाख्यमुपकारं कर्तुम् , प्रभवन्ति – समर्था भवन्ति इत्यर्थः। ततश्च षोडशकलाभोक्तृत्वमेव षोडशकलत्वम् । तच्च जीवस्यैव इति भावः ।।

स ईक्षांचक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि, कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति ।।३।।

ननु षोडशकलासर्गहेतुत्वे जीवपरमात्मनोरविशिष्टे तद्भोक्तृत्वं जीवस्यैव न परमात्मन इत्यत्र किं नियामकमित्यत्राह – स ईक्षांचक्रे इत्यादि । इदं वाक्यं जीवाभिसन्धिप्रकारप्रदर्शनपरम् सोऽध्यक्षे तदुपगमादिभ्यः (ब्र.सू. ४-२-४) इति भाष्ये तथोक्तत्वात् मदुत्क्रान्तिप्रतिष्ठासहभूतोत्क्रान्तिप्रतिष्ठः को वेति पर्यालोचितवानित्यर्थः । ततश्च स्वोपकाराभिसन्धिपूर्वकं जीवस्य प्राणादिस्रष्टृत्वात्तभोक्तृत्वं सम्भवति परमात्मनस्तु –

न च माम् तानि कर्माणि निबध्नन्ति धनञ्जय ।

उदासीनवदासीनमसक्तं तेषु कर्मसु ।।(.गी.९-९)

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । (भ.गी.४-१४)

इत्युक्तरीत्या स्वोपकाराभिसन्धिपूर्वकस्रष्टृत्वाभावान्न तस्य षोडशकलाभोक्तृत्वमिति भावः ।।

स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्योतिरापः पृथिवीन्द्रियम् मनोऽन्नमत्राद्वीर्य तपो मन्त्राः कर्म लोका लोकेषु च नाम च ।। ४ ।।

स प्राणमसृजत इत्यादि । जीवः एवं पर्यालोच्य प्रथमतः स्वोत्क्रान्तिप्रतिष्ठ सहभूतोत्क्रान्तिप्रतिष्ठं मुख्यप्राणं सृष्टवान् । तस्मात् ‘श्रद्धाम् आस्तिक्यबुद्धिम् , पञ्चमहाभूतानि वागादीन्द्रियम् , मनः, व्रीह्यादिरूपम् अन्नम् , तदायत्तं शरीरेन्द्रियसामर्थ्यम् शरीरशोषणादिलक्षणम् तपः, ऋग्यजुःसामादीन् मन्त्रान् , ज्योतिष्टोमादीनि कर्माणि, कर्मफलभूतान् स्वर्गादीन् लोकान् , तेषु लोकेषु स्वर्गादि नामानि सृष्टवान् इत्यर्थः । यद्यपि षोडशकलास्रष्टृत्वं परमात्मन एव तथापि तद्धेतुभूतादृष्टारम्भककर्मकर्तृत्वेन अयं स्रष्टृत्ववाद इति द्रष्टव्यम् । ततश्च स्वभोगोपकारिकाः षोडशापि कलाः तद्धेतुभूतादृष्टारम्भककर्माणि कृत्वा सृष्टवान्। अतः तद्भोक्तृतया षोडशकलत्वं जीवस्य इति यावत् ।।

स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे, समुद्र इत्येवं प्रोच्यते – एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति ; भिद्येते तासां नामरूपे, पुरुष इत्येवं प्रोच्यते । स एषोकलोऽमृतो भवति । तदेष श्लोकः ।। ५ ।।

अथ परमात्मनः ईदृक्त्वाभावादकलत्वम् , तद्द्वारा मुमुक्षुवेद्यत्वं च उपपादयति – स यथेमा नद्यः इति । यथा – प्रस्रवन्त्यो गङ्गाद्याः, नद्यः समुद्रायणा: – ‘अयन शब्देन आधारत्वमुखेन आत्मत्वमुच्येत – समुद्रापृथक्स्थितिप्रतिपत्तियोग्या भूत्वा, समुद्रं प्राप्य अस्तं गच्छन्ति – अदर्शनं यान्ति, न तु समुद्रे वृद्धयादिलक्षणं विकारम् उत्पादयितुं प्रभवन्ति । तासां च गङ्गा यमुनादि नामानि यानि, यानि च शुक्लकृष्णादिरूपाणि प्राक्तनानि विभिद्यन्ते तत्प्रवेशानन्तरं नामान्तरं रूपान्तरं च भवति इत्यर्थः । तदेव दर्शयति – समुद्र इत्येवं प्रोच्यते इति । तत्प्रविष्टं नदीजातं सर्वं समुद्र इत्येव प्रोच्यते न त गङ्गायमुना इति । स यथा । स दृष्टान्तो यथा इत्यर्थः ।

एवमेव अस्य परिद्रष्टुः – अनुभवितुर्भोक्तुर्जीवस्य भोगोपकरणभूता, इमाः – षोडशापि कला: निरुपाधिकपुरुषशब्दवाच्यं वासुदेवं प्राप्यास्तं गच्छन्ति – यथा शिलातलं प्राप्य क्षुरधारा: कुण्ठीभवन्ति, तथा भोगाधायिका न भवन्ति इत्यर्थः । तत्र हेतुमाह – पुरुषायणाः इति । पुरुषसंकल्पाधीन स्वरूपस्थितिप्रवृत्तिका इत्यर्थः । आसाम् कलानां जीवविषये भोग्य-भोग्यस्थान भोगोपकरणत्वादिनामरूपभेदवत् परमात्मविषये भोगस्थानत्वादि नामरूपे न स्तः। तदेव दर्शयति- पुरुष इत्येवमिति। पुरुषापृथक्स्थितिप्रतिपत्तिकतया पुरुष इत्येवं प्रोच्यते न तु तभिन्नत्वेन तद्भोग्यभोगस्थानत्वादिना तत्कला प्रोच्यते। स एष इति । तस्मात् परमात्मनः कलाभोक्तृत्वाभावात् अकल इत्येव उच्यते । अत एव अमृतश्च; मरणस्य भोक्तृत्वरूपकला सम्बन्धाधीनत्वादिति भावः । तदेष इति । तत् – परमात्मनस्स्वरूपम् अधिकृत्य वक्ष्यमाणः, श्लोकः प्रवृत्त इत्यर्थः ।।

अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः ।

तं वेद्यं पुरुषं वेद मा वो मृत्युः परिव्यथा इति ।। ६ ।।

अरा इव इति । यस्मिन् प्रतिष्ठिता: यदात्मिका: ‘यदुपादाना’ इत्यर्थः । यथावत् तमेव पुरुषं मुमुक्षुवेद्यम् अवगच्छत । ब्रह्मज्ञानस्य फलमाह – मा वो मृत्युरिति । व: ब्रह्मज्ञानां युष्माकं परितो व्यथा: मृत्युः मा कार्षीत् इत्यर्थः ।।

तान् होवाच – एतावदेवाहमेतत् परं ब्रह्म वेद, नातः परमस्तीति ।। ७ ।।

तान् होवाच इति । तान् – सुकेशादीन् षडपि शिष्यान् प्रति एतत् उवाच अहमेतावदेव परं ब्रह्म जानामि । परब्रह्मविषये ममैतावदेव ज्ञानम् । इतोऽधिकं नास्तीत्यर्थः ।।

ते तमर्चयन्तः त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ।।८।।

।। इति षष्ठः प्रश्नः ।।

।। समाप्ता प्रश्नोपनिषत् ।।

ते तमर्चयन्तः इति । ते ‘षडपि शिष्याः’, तम् – पिप्पलादम् , त्वम् अस्माकम् संसाराकूपार तीरप्रापकतया पिताऽसि । तस्मात् त्वत्तो जन्मैव श्रेष्ठं जन्म; स हि विद्यातस्तं जनयति । तच्छ्रेष्ठं जन्म (आप.ध.सू. १-१६,१७) इति श्रवणात् इति अर्चयन्तः पूजयन्तो बभूवुः । नमः परमऋषिभ्यो नमः परमऋषिभ्यः । उत्तरशान्तिस्थाने नमः परमऋषिभ्यः इति वाक्यम् । अभ्यास: उपनिषत्समाप्त्यर्थः ।

न च – एतावदेवाहं परं ब्रह्म वेद, नातः परमस्ति परम अस्ति इति षोडशकल जीवातिरिक्तपरब्रह्मनिषेधः किं न स्यात् इति वाच्यम् । अधिकं तु भेदनिर्देशात् (ब्र.सू.२-१-२२) इत्यादिभिः विरोधप्रसङ्गात् । तत्र हि जीवाभेदाद्ब्रह्मणो जगत्कारणत्वे हिताकरणादि दोषमाशंक्य जीवभेदाद्दोषाभावस्सिद्धान्तितः । तथा हि तदधिकरणभाष्यं – जगतो ब्रह्मानन्यत्वं प्रतिपादयद्भि: – तत्त्वमसि (छां.उ. ६-८-७), अयमात्मा ब्रह्म (मा.उ. १-२) इत्यादिभिः जीवस्यापि ब्रह्म अनन्यत्वं व्यपदिश्यत इत्युक्तम् । तत्रेदं चोद्यते – यदि इतरस्य जीवस्य ब्रह्मभावोऽमीभिः वाक्यैर्व्यपदिश्यते । तदा ब्रह्मणः सार्वज्ञ्यसत्यसंकल्पत्वादियुक्तस्यात्मनः हितरूपजगदकरणम् अहितरूपजगत्करणमित्यादयो दोषाः प्रसज्येरन् । आध्यात्मिकाधिदैविकाधिभौतिकानन्तदु:खाकरं च इदं जगत् । न चेदृशे स्वानर्थे स्वाधीनो बुद्धिमान्प्रवर्तते । जीवाद्ब्रह्मणो भेदवादिन्यः श्रुतयो जगद्ब्रह्मणोनन्यत्वं वदता त्वयैव परित्यक्ताः । भेदे सति अनन्यत्वासिद्धेः, औपाधिकभेदविषयाः भेदश्रुतयः । स्वाभाविकाभेदविषयाच्च अभेदश्रुतयः इति चेत् । तत्रेदं वक्तव्यम् – स्वभावतः स्वस्मादभिन्नं जीवं किमनुपहितं जगत्कारणम् ब्रह्म जानाति वा न वा । न जानाति चेत्सर्वज्ञत्वहानिः, जानाति चेत् स्वस्मादभिन्नस्य जीवस्य दुःखं स्वदुःखमेव जानतो ब्रह्मणो, हिताकरणाहितकरणादि दोषप्रसक्तिरनिवार्या, जीवब्रह्मणोः अज्ञानकृतो भेदः, तद्विषयाभेदश्रुतिरिति चेत् । तत्रापि जीवाज्ञानपक्षे पूर्वोक्ते विकल्पः तत्फलं च तदवस्थम् । ब्रह्माज्ञानपक्षे स्वप्रकाशस्वरूपस्य ब्रह्मणोऽज्ञानसाक्षित्वं तत्कृतजगत्सृष्टिश्च न सम्भवति । अज्ञानेन प्रकाशस्तिरोहितश्चेत् तिरोधानस्य प्रकाशनिवृत्तिकरत्वेन प्रकाशस्यैव स्वरूपत्वात्स्वरूप निवृत्तिरेवेति स्वरूपनाशादिदोषसहस्रं प्रागेवोदीरितम् । अत इदमसङ्गतम् । ब्रह्मणो जगत्कारणत्वमिति । इतरव्यपदेशाद्धिताकरणादिदोषासक्तिः (ब्र.सू.२-१-२१) इति सूत्रेण पूर्वपक्षं प्रापय्य सिद्धान्तोऽभिधीयते – अधिकं तु भेदनिर्देशात् (ब्र.सू. २-१-२२) इति । तु शब्द: पक्षं व्यावर्तयति। आध्यात्मिकादिदुःखयोगार्हप्रत्यगात्मनोऽधिकमर्थान्तरभूतं ब्रह्म कुत: ? भेदनिर्देशात् प्रत्यगात्मनो हि भेदेन निर्दिश्यते परब्रह्म – य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्ताम्यमृतः (बृ.उ. ५-७-२६), पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्त्वमति, (श्वे.उ.१-६) स कारणं करणाधिपाधिपः (श्वे.उ. ६-९), तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्रन्नन्यो अभिचाकशीति (श्वे.उ. ४-६), ज्ञार्ज्ञा द्वावजावीशनीशा (श्वे.उ. १-९), प्राज्ञेनाऽऽत्मना सम्परिष्वक्त: (ब.उ. ६-३-२१), प्राज्ञेनात्मनाऽन्वारूढ (बृ.उ.६-३-३५), अस्मान् मायी सूजते विश्वमेतत्तस्मिंश्चान्यो मायया सान्निरुद्धः (श्वे.उ. ४-१), प्रधानक्षेत्रज्ञपतिर्गुणश: (श्वे.उ. ६-१६), नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान् (क.उ. ५-१३), योऽव्यक्तमन्तरे सञ्चरन् यस्याव्यक्तं शरीरं यमव्यक्तं न वेद योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः । (सु.उ. ७) इत्यादिभिः। अश्मादिवञ्च तदनुपपत्तिः (ब्र.सू.२-१-२३) इति अश्मकाष्ठलोष्ठतृणादीनामत्यन्तहेयानां सततविकारास्पदानामचिद्विशेषाणां निरवद्य निर्विकारनिखिलहेयप्रत्यनीककल्याणैकतानस्वेतरसमस्तवस्तुविलक्षणानन्दज्ञाननन्दैक स्वरूपनानाविधानन्तमहाविभूति ब्रह्मस्वरूपैक्यं यथा नोपपद्यते, तथा चेतनस्यापि अनन्तदुःखार्हस्य खद्योतकल्पस्य अपपाप्मा(छां.उ.८-१-५) इत्यादिवाक्यावगतसकलहेयप्रत्यनीकानवधिकातिशयसंख्येयकल्याणगुणगणाकरब्रह्मभावानुपपत्तिः । सामानाधिकरण्यनिर्देशः यस्यात्मा शरीरम् (बृ.उ.मा.पा. ५-७-२६) इत्यादि श्रुतेर्जीवस्य ब्रह्मशरीरत्वाद्ब्रह्मणो जीवशरीरतया तदात्मत्वेनावस्थितेः, जीवप्रकारकब्रह्मप्रतिपादनपरश्चैतदविरोधि । प्रत्युतैतस्यार्थस्योपपादकश्चेति – अवस्थितेरिति काशकृत्स्नः (ब्र.सू. १-४-२२) इत्यादिभिरसकृदुपपादितम् । अतः सर्वावस्थं ब्रह्म चिदचिद्वस्तुशरीरं इति सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणं, तदेव ब्रह्म स्थूलचिदचिद्वस्तुशरीरं जगदाख्यं कार्यमिति जगद्ब्रह्मणोः सामानाधिकरण्योपपत्ति: जगतो ब्रह्मकार्यत्वं ब्रह्मणोऽनन्यत्वम् अचिद्वस्तुनो जीवस्य ब्रह्मणश्च परिणामित्वदुःखित्वकल्याणगुणाकरत्वस्वभावासंकरः सर्वश्रुत्यविरोधश्च भवति । सदेव सोम्येदमग्र आसीत् एकमेव(छा.उ. ६-२-१) इत्यविभागावस्थायामपि अचिद्युक्तजीवस्य ब्रह्मशरीरतया सूक्ष्मरूपेणावस्थानमवश्याभ्युपगन्तव्यम् । वैषम्यनैर्घृण्ये न सापेक्षत्वात् (ब्र.सू. २-१-३४), न कर्माविभागात् इति चेन्न अनादित्वादुपपद्यते चाप्युपलभ्यते च (ब्र.सू. २-१-३५) इति सूत्रद्वयोदितत्त्वात्तदानीमपि सूक्ष्मरूपेणावस्थानस्य अविभागस्तु नामरूपविभागाभावादुपपद्यते । अतो ब्रह्मकारणत्वं सम्भवत्येव इति । एवं अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् (ब्र.सू. ३-४-८), भेदव्यपदेशाच्चान्यः (ब्र.सू. १-१-२२), सुषुमप्त्युत्क्रान्त्योर्भेदेन (ब्र.सू. १-३-४३), उभयेऽपि हि भेदेनैनमधीयते (ब्र.सू. १-२-२१) इत्यादि न्यायाः प्रकुप्येयुरित्यलं प्रपञ्चेन ।।

क्षेमाय य: करुणया क्षितिनिर्जराणां

भूमावजृम्भयत भाष्यसुधामुदारः ।

वामागमाध्वगवदावदतूलवातो

रामानुज: स मुनिराद्रियतां मदुक्तिम् ।।

।। इति षष्ठप्रश्नप्रकाशिका ।।

।। इति श्रीरङ्गरामानुजमुनिविरचितप्रश्नोपनिषत्प्रकाशिका समाप्ता ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.