प्रश्नोपनिषत् द्वितीयः प्रश्नः

प्रश्नोपनिषत्

द्वितीयः प्रश्नः

[प्राणप्रशंसा]

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजां विधारयन्ते; कतर एतत् प्रकाशयन्तेः कः पुनरेषां वरिष्ठः इति ।। १ ।।

देहेन्द्रियमनःप्राणादिविलक्षणप्रत्यगात्मशोधनाय प्रश्नान् अवतारयति । उक्तं च व्यासार्यैः, उत्तरेषु खण्डेषु प्रत्यगात्मा विशाध्यते इति । अथ हैनम् इति । कबन्धिप्रश्नानन्तरं पिप्पलादं भार्गवो वैदभिः पृष्टवान् । किमिति – भगवन् !……इति । हे भगवन् ! किं संख्याकाः देवाः स्थावरजङ्गमात्मिकां प्रजां बिभ्रति । तेष्वेव देवेषु कतरे देवाः एतत् शरीरं तत्कायं प्रकाशयन्ते । कः पुनः एषां श्रेष्ठ इति ।।

तस्मै स होवाच आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रञ्च । ते प्रकाश्याभिवदन्ति, वयमेतत् बाणमवष्टभ्य विधारयामः ।। २ ।।

तस्मै स होवाच । स्पष्टोऽर्थः । मुख्यप्राणस्यैव धारकत्वप्रकाशकत्वश्रेष्ठत्वानि वक्तुम् आख्यायिकामाह – आकाशो ह वा इति । ह वा इति प्रसिद्ध्यतिशये । एषः प्रसिद्धः आकाशः । दीव्यति गच्छति इति देव: गमनशीलः । तादृशो वायुश्च । अग्निरापः पृथिवी वाक्छब्देन’ कर्मेन्द्रियाणि सर्वाणि उपलक्ष्यन्ते; चक्षुश्श्रोत्रशब्देन ज्ञानेन्द्रियाणि । ते प्रकाश्याभिवदन्ति इति । आकाशादयः सर्वे मिलित्वा पुरोवर्तिशरीरं प्रदर्श्य अभितः स्थित्वा वदन्तिस्म । किमिति – वयं बाणवत्सञ्चारशीलम् एतत् पुरोवर्ति शरीरमवलम्ब्य विधारयामः । अवकाशादि विविधकार्यक्षमतया धारयाम इत्यर्थः ।।

तान् वरिष्ठः प्राण उवाच । मा ‘मोहमापद्यथाहमेवैतत् पञ्चधाऽऽत्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामि’ इति ।। ३ ॥

तान् वरिष्ठ: प्राण उवाच । मुख्यः प्राण उवाच इत्यर्थः । किमिति – ‘मा मोहमापद्यथ’ इति । हे आकाशादयः / ईदृशी विपरीतबुद्धिं मा गच्छत । अहमेव आत्मानं प्राणापानव्यानसमानोदानरूपेण पञ्चधा विभज्य धारयामि इति । एवं वदतो मुख्यप्राणस्य अयं भावः – हे आकाशादयः ! भवन्तः अवकाशादिप्रातिस्विककार्य क्षमाः । अहं तु भवतामपि कार्यनिमित्तत्वात् भवत्कार्यक्षमः । मयाऽक्रियमाणे जीवने तु भवत्सु न कोऽपि क्षमः इति ।।

ते अश्रद्दधाना बभूवुः सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एव उत्क्रामन्ते ।तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते। तद्यथा मक्षिका मधुकरराजानम् उत्क्रामन्तं सर्वा एवोत्क्रामन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते एवं वाङ्मनश्चक्षुश्श्रोत्रं च । ते प्रीताः प्राणं स्तुन्वन्ति ।। ४।।

ते अश्रद्दधाना इति । ते – तद्वाक्ये विश्वासं न कृतवन्तः । ततः स प्राण एषां गर्वमवलोक्य अहंकारावेशादष्टोत्तरशतमर्मस्थानानामुपरि स्वसामर्थ्यं प्रकटयितुं स्वस्थानात् किञ्चित् ‘उदचलदिव, इव शब्दो अल्पार्थे । साक्षादुत्क्रमणे अप्रतिसमाधेयः शरीरविनाशः स्यादिति मत्वोत्क्रमणमिव कृतवान् इति भावः । तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते । तस्मिन् मुख्यप्राणे उत्क्रामति इतरे सर्वे प्राणा उदक्रामन् – तस्मिंस्तु प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते । शरीरपातभीत्या पुनः प्रतिष्ठां प्राप्नुवति सति इतरेऽपि प्रतिष्ठिता इत्यर्थः । तत्र दृष्टान्तमाह – तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एव उत्क्रामन्ते, तस्मिंस्तु प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते एवं वाङ्मनश्चक्षुः श्रोत्रं च । यथा मधुकरमक्षिकाः तत्र श्रेष्ठां मक्षिकाम् उत्क्रामन्तीम् अनुत्क्रामन्तिः प्रतिष्ठितायां तस्यां स्वयं प्रतिष्ठिता भवन्ति – एवं बागाद्याः प्राणाः मुख्यप्राणानुविधायिनो भवन्ति’ इत्यर्थः । ते प्रीताः इति । मुख्यप्राणमाहात्म्यदर्शनप्रीता वागाद्याः प्राणा मुख्यप्राणं तुष्टुवुः इत्यर्थः । स्तौतेर्व्यत्ययात् श्रु: ।।

एषोऽग्निः तपत्येष सूर्य एष पर्जन्यो मघवान् एष वायुः एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ।। ५ ।।

स्तुतिमेव आह – एषोऽग्निस्तपति इति । एषः – मुख्यप्राणोऽग्निरूपेण तपति । एष – प्राण एव सूर्यः । सर्वेषां प्राणायत्तस्थितिकत्वात् , यदधीना यस्य सत्ता तत्तदित्येव गण्यते इतिरीतिमनुसृत्य ‘सामानाधिकरण्यव्यपदेशो द्रष्टव्यः रयिर्देव: – अब्भूतो देवः । चन्द्रमा इति यावत् सदसत्शब्दौ वर्तमानावर्तमान परौ’ प्रत्यक्षाप्रत्यक्षपरौ वा स्थूलसूक्ष्मपरौ वा चेतनाचेतनपरौ वा । अमृतशब्दो मोक्षपरः। तस्यापि तदधीनत्वात् इति भावः ।।

अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।

ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च ।। ६ ।।

अरा इव इति । चक्रस्य नाभिनेम्योरन्तरालवर्तीनि काष्ठानि अरशब्देन उच्यन्ते । ‘चक्रमध्य प्रदेश: नाभिशब्देन उच्यते । यथा अरा नाभावर्पिताः, एवमस्मिन् प्राणे सर्वं प्रतिष्ठितम् इत्यर्थः । सर्वशब्दार्थं स्पष्टयति – ऋचो यजूंषि इति । अत्र ब्रह्मक्षत्र शब्द स्थावरजङ्गमात्मकप्राणिमात्रोप लक्षकाः ।।

प्रजापतिक्षरसि गर्भ त्वमेव प्रतिजायसे । तुभ्यं प्राण ! प्रजास्त्विमा: बलिं हरन्ति यः प्राणै: प्रतितिष्ठसि ।। ७ ।।

एवम् एष इति अङ्गल्या निर्दिश्य परस्परं दर्शयित्वा तद्गुणान् संकीर्त्य पश्चात् तमेव मुख्यप्राणमभिमुखीकृत्य स्तुवन्ति – प्रजापतिश्चरसि इति । त्वं प्रजानां रक्षकस्सन् प्राणादिवायुरूपेण गर्भे सञ्चरसि । तथा गर्भोत्पादकतया तत्पोषकतया च पितृरूप एव ‘वर्तमानः त्वम् उत्पादकत्वप्रातिलोम्येन पुत्रादिरूपेण जायसे । हे प्राण ! स्थावरजङ्गमात्मिका इमाः प्रजा: तुभ्यम् – त्वदर्थाः, त्वच्छेषभूताः । यतो बलिम् अन्नादिकं ते उपहरन्ति । यस्त्वं प्राणनादिव्यापारै: सर्वत्र प्राणिषु प्रतिष्ठितोऽसि इत्यर्थः ।।

देवनामसि वह्नितमः पितृणां प्रथमा स्वधा ।

ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ।। ८॥

देवानामसि इति । वह्नितमः — हविषां वाहकतमः । पितृणां इति । मुख्यपितृप्रीतिहेतुभूतस्त्वमेव इत्यर्थः । अथर्वाङ्गिरसाम् ऋषीणां सत्यम् – उत्कृष्टम् , चरितम् – नित्यनैमित्तिकादिलक्षणं कर्म च त्वमेव इत्यर्थः ।।

इन्द्रस्त्वं प्राण ! तेजसा रुद्रोऽसि परिरक्षिता ।

त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ।। ९ ।।

इन्द्रस्त्वम् इति । हे प्राण ! त्वम् इन्द्रः – परमेश्वर इत्यर्थः । इदि परमश्चर्ये (धा.पा. ६३) इति हि धातुः । तेजसा – सर्वसंहरणसामर्थ्यलक्षणेन तेजसा त्वं रुद्रः – रोदनहेतुः, स्थितिकाले परिरक्षकञ्च इत्यर्थः । त्वमन्तरिक्षे इति । ज्योतिषाम् – प्रकाशकानाम् पतिः – श्रेष्ठ: सूर्यो भूत्वा अन्तरिक्षे चरसि ।।

यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः ।

आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ।। १० ।।

यदा त्वमभिवर्षसीति । हे प्राण ! त्वम् यदा मेघरूपी अभितो वर्षसि, तदा ते – त्वदीया इमाः प्रजाः – आनन्दिन्यो भवन्ति । कस्य हेतोः ? कामाय – अभिलषितार्थाय पर्याप्तम् अन्नं भविष्यति इति । तत् यदा सुवृष्टिः भवति, आनन्दिनः प्राणा भवन्ति अन्नं बहु भविष्यति इति (छां.उ. ७-१०-१) इति छान्दोग्ये श्रवणात् इति द्रष्टव्यम् ।।

व्रात्यस्त्वं प्राणैक ऋषिरत्ता विश्वस्य सत्पतिः । बयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ।। ११ ।।

व्रात्यस्त्वं प्राणेति । हे प्राण ! संस्कारहीनो ब्राह्मणोऽपि त्वमेव । मुख्यो मन्त्रद्रष्टा ऋषिः अपि त्वमेव । विश्वस्य अत्ता – संहर्ता च त्वमेव । सताम् – साधूनां रक्षकोऽपि त्वमेव । वयम् – ते आद्यस्य – अदनीयस्य भोग्यस्य दातारः – करप्रदाः; किंकरा इति यावत् । हे मातरिश्वन् ! त्वं नः पिता असि, पोषकोऽसि इत्यर्थः । मातरिश्व नः इत्यत्र नकारद्वित्वाश्रवणं छान्दसत्वात् ‘द्रष्टव्यम् ।।

या ते तनर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।

या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ।। १२ ।।

या ते तनूर्वाचि इति । वागादीन्द्रियेषु तत्तदिन्द्रियनियमनानुकूला या शक्तिः सततं प्रतिष्ठिता, तां शिवाम् – शोभनां कुरु उत्क्रमणेनाशिवां मा कुरु – उत्क्रमणं मा कार्षीः इत्यर्थः ।।

प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च धेहि न इति ।। १३ ।।

प्राणस्येदवशे सर्वम् इति । जगदिदं सर्वं प्राणस्य वशे वर्तते । वशः – इच्छा । तदधीनम् इति यावत् । यञ्च त्रिदिवे – स्वर्गादिलोके प्रतिष्ठितम् , तदपि प्राणाधीनम् । तस्मात् , पुत्रान् मातेव अस्मान् रक्षस्व । अस्माकं स्वस्वकार्यनिष्पादनसामर्थ्यलक्षणाः श्रियः, तदनुकूलप्रज्ञां च विधत्स्व ।।

।। इति द्वितीयप्रश्नप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.