प्रश्नोपनिषत् पञ्चमः प्रश्नः

प्रश्नोपनिषत्

 पञ्चमः प्रश्नः

[प्रणवोपासना]

अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोंकारमभिध्यायीत, कतमं वाव स तेन लोकं जयतीति ।।१।।

अथ हैनं शैब्यः इत्यादि । ह वै इति प्रसिद्ध्यतिशये । सः इति । अधिकारिसामान्यपरम् । ‘पूजार्ह ! यः अधिकारी मनुष्याणां मध्ये मरणान्तमोंकारम् अभिध्यायति, स कतमं लोकम् – तेन ओंकारेण प्राप्नोति इत्यर्थः । वावशब्दः अवधारणे, प्रसिद्धौ वा ।।

तस्मै स होवाच एतद्वै सत्यकाम ! परं चापरं च ब्रह्म यदोंकारः तस्माद्विद्वान् एतेनैवायतनेन एकतरमन्वेति ।।२।।

तस्मै स होवाच इति । स्पष्टोऽर्थः । हे सत्यकाम ! एतदेव, परं च अपरं च ब्रह्म । उभयवाचकम् इत्यर्थः । वाच्यवाचकभावनिबन्धनं सामानाधिकरण्यम् । तथैव व्यासार्यै: ईक्षतिकर्माधिकरणे व्याख्यातत्वात् । किं तदित्यत्राह – ‘यदोंकारः इति । तस्मादुपासकः । एतेनैव – ओंकाररूपेण मार्गेण एकतरम् – परम् अपरं वा ब्रह्म अन्वेति – उपास्त इत्यर्थः ।।

स यद्येकमात्रम् अभिध्यायीत स तेनैव संवेदितः तूर्णमेव जगत्यामभिसम्पद्यते। तमचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥३॥

स यद्येकमात्रम् इति । सः – उपासकः, यद्येकमात्रम् – ह्रस्वं प्रणवम् अपरब्रह्मवाचकम् , अभिध्यायीत – अपरब्रह्मवाचकेन ह्रस्वेन प्रणवेन यः अपरं ब्रह्मोपास्ते, स तेनैव – एकमात्रोंकारकरणकापरब्रह्मध्यानेनैव, संवेदितः – लब्धसत्ताकः, जगत्याम् – भवि, ‘अभि अभ्यर्हितः श्रेष्ठः सम्पद्यते। तम् ऋङ्मन्त्रा: मनुष्यलोकं प्रापयन्ति । सः – मनुष्यलोकं नीतः, तपसा – अनशनादिना, ब्रह्मचर्येण – मैथुनवर्जनेन, श्रद्धया – आस्तिक्यबुद्ध्या, यदि सम्पन्नो भवति, तदा महिमानम् – श्रेयस्साधकं ब्रह्मोपासनम् अनुतिष्ठति इत्यर्थः । न च एचो ह्रस्वाभावात् कथमोंकारस्य ह्रस्वत्वम् इति शंकनीयम् ; लोके ह्रस्वस्य ओंकारस्य दर्शनात् ।।

अथ यदि द्विमात्रेण मनसि सम्पद्यते, सोऽन्तरिक्षं यजुर्भि: उन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ।। ४ ।।

अथ यदि द्विमात्रेण इत्यादि । द्विमात्रेण – अपरब्रह्मवाचकेन प्रणवेन यस्य मनसि अपरब्रह्मध्यानं सम्पद्यते सः – अन्तरिक्षाश्रितं सोमलोकं द्विमात्रोपासकः पुमान् यजुर्मन्त्रैः उन्नीयते । अत्र अन्तरिक्षसोमलोकशब्दः ऊर्ध्वमात्रोपलक्षक आमुष्मिकमात्रपर इति ईक्षतिकर्माधिकरणभाष्ये ‘समर्थितम् । अमुष्मिन्नैश्वर्यमनुभूय तत्पुण्यावसाने पुनरावर्तते ।।

यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत, स तेजसि सूर्ये सम्पन्नः यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम् । स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ।। ५ ।।

यः पुनरेतम् इति । यस्तु एकमात्रद्विमात्रत्वदशायाम् अर्वाचीनफलसाधनेन एतेनैवाक्षरेण परमात्मानम् , अभिध्यायति- आभिमुख्येन ध्यायति-निरन्तरं ध्यायति इत्यर्थः । सः – उपासकः, तेजोमण्डले सूर्ये सङ्गतः सन् उदरमेव पादो यस्य स पादोदरः; सर्प इति यावत् । यथा सर्पः ‘जीर्णत्वचा विनिर्मुक्तो भवति, एवं पाप्मना विनिर्मुक्तः सन् भगवल्लोकं वैकुण्ठम् , सामभिः – गीतिप्रधानैः, मन्त्रैः उन्नीयते । अत्र व्यासार्यै: – स पाप्मना विनिर्मुक्त इति तच्छब्दश्रवणात् स सामभिः इत्यैकपद्यमाश्रित्य, सामगानसहितै: इति वा सान्त्ववचनसहितैः पुरुषः इति वाऽर्थः इति ईक्षतिकर्माधिकरणे व्याख्यातम् । स एतस्मात् इति कर्मनिमित्तदेहिन एव जीवघनशब्दार्थतया ईक्षतिकर्माधिकरणभाष्ये वर्णितत्वात् । जीवघनशब्देन ‘संसार मण्डलमुच्यते मूर्तौ घन: (पा.सू.३-३-७७) इति काठिन्यशब्दितमूर्तौ घनशब्दस्य निपातित्त्वात् , देहद्वारत्वादात्मनि काठिन्यस्य, घनशब्दो देहिपर एव । तस्मात् परः परिशुद्धात्मा । तस्मादपि परभूतम् , पुरिशयम् – पू: प्राणिनः सर्व गुहाशयस्य (आप.ध.सू.१-२२-४) इति सर्वेषु प्राणिषु अन्तरात्मतया शयानम्, भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ।

निरुपाधी च वर्तेते वासुदेवे सनातने।। (पाद्मोत्तर. ६-२५४-६६)

इति निरुपाधिकपुरुषशब्दवाच्यं भगवन्तं वासुदेवम् ईक्षत इत्यर्थः ।

अत एव, स सामभिरुन्नीयते ब्रह्मलोकम् ‘ इति ब्रह्मलोकशब्दस्य सत्य लोक परत्वशंका व्युदस्ता, तद्गतानां परवासुदेवेक्षणासम्भवात् इति द्रष्टव्यम्। तदेतौ इति । तत् – ओंकारध्यानम् अधिकृत्य ‘वक्ष्यमाण श्लोकौ प्रवृत्तौ इत्यर्थः ।।

तिस्रो मात्रा मृत्युमन्त्यः प्रयुक्ताः अन्योन्यसक्ता अनविप्रयुक्ताः । क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः ।।६।।

तिस्रो मात्रेति । अविप्रयुक्ता न भवन्ति इति ‘अनविप्रयुक्ताः । अत्यन्त द्रुतोच्चारणेन अन्योन्यसक्ततया,अतिविप्रकृष्टकालतया, अत्यन्तविप्रयुक्ततया वा प्रयुक्ताः तिस्रो मात्राः मृत्युमन्त्यः – मृत्युप्रदाः अनर्थावहा इति यावत् । मृत्युमत्यः इति पाठोऽपि स एवार्थः । यज्ञादिका बाह्याः क्रियाः, आन्तराः मानसक्रियाः, मध्यमाः वाचिकजपरूपाः । आसु क्रियासु – तिसृषु मात्रासु, सम्यक् – अत्यन्तसंयोगवियोग मन्तरेण प्रयुक्तासु सतीषु, ज्ञः – तस्य योगाभिज्ञः’ पुमान् , न कम्पते – फलात् न च्यवत इत्यर्थः ।।

ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत् कवयो वेदयन्ते । तमोंकारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं चेति ।। ७ ।।

॥ इति पञ्चमः प्रश्नः।।

ऋम्भिरेतम् इति । स विद्वान् एतम् – मनुष्यलोकम् इत्यर्थः । यत्तत् कवयो वेदयन्ते । कवयः – क्रान्तदर्शिनः । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः (सु.उ.६) इत्युक्तरीत्या सूरयो यं लोकं पश्यति, तम् ओंकारेणैवंका मार्गेणान्वेति । गत्वा च, शान्तम् ऊर्मिषट्करहितम् , अजरममृतम् – जरामरणशून्यम् , अभयम् – अकुतोभयम् , परम् – सर्वकारणत्वेन सर्वोत्कृष्टं ब्रह्म च प्राप्नोति इत्यर्थः ।|

अस्य सन्दर्भस्य परमात्मपरत्वम् । ईक्षतिकर्मव्यपदेशात्सः (ब्र.सू.१-३-१२) इति सूत्रकारैः प्रत्यपादि । तदर्थस्तु तद्भाष्ये इत्थमुक्त: आथर्वणिकास्सत्यकामप्रश्नेऽधीयते, यः पुनरेतं त्रिमात्रेणोमित्येवाक्षरेण परमपुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यते । एवं हवै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षत इति । अत्र ध्यायतिईक्षतिशब्दावेकविषयौ ध्यानफलत्वादीक्षणस्य, यथाक्रतुरस्मिल्लोके पुरुषः इति न्यायेन ध्यानविषयत्वस्यैव

प्राप्यत्वात्परमपुरुषमित्युभयत्र कर्मभूतस्यार्थस्य प्रत्यभिज्ञानाच्च, तत्र संशय्यते – किमिह परमपुरुषमिति निर्दिष्टो जीवः समष्टिरूपोऽण्डाधिपतिः चतुर्मुखः । उत सर्वेश्वरः पुरुषोत्तम इति । किं युक्तम् ? समष्टिक्षेत्रज्ञ इति । कुतः ? स यो हवै तद्भगवन्मनुष्येषु प्रायणान्तम् ओंकारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति प्रक्रम्य एकमात्रं प्रणवमुपासीनस्य मनुष्यलोकप्राप्तिमभिधाय द्विमात्रम् उपासीनस्यान्तरिक्षलोकप्राप्तिमभिधाय त्रिमात्रमुपासीनस्य प्राप्यतयाऽभिधीयमानो ब्रह्मलोकोऽन्तरिक्षात्परो जीवसमष्टिरूपस्य चतुर्मुखस्य लोकः इति विज्ञायते । तद्गतेन वीक्ष्यमाणस्तल्लोकाधिपश्चतुर्मुख एव । एतस्माज्जीवघनात्परात्परमिति च देहेन्द्रियादिभ्यः पराद्देहेन्द्रियादिभिस्सह घनीभूताज्जीवव्यष्टिपुरुषात् ब्रह्मलोकवासिनस्समष्टिपुरुषस्य चतुर्मुखस्य परत्वेनोपपद्यते । अतोऽत्र निर्दिश्यमानः परः पुरुषस्समष्टिपुरुषश्चतुर्मुख एव । एवं चतुर्मुखत्वे निश्चिते अजरत्वादयो यथाकथंचिन्नेया इति प्राप्ते प्रचक्ष्महे – ईक्षतिकर्मव्यपदेशात्सः (ब्र.सू. १-३-१२) इति । ईक्षतिकर्म परमात्मा । कुतः ? व्यपदेशात् । व्यपदिश्यते हि ईक्षतिकर्मपरमात्मत्वेन । तथाहि ईक्षतिकर्मविषयतयोदाहृते श्लोके – तमोंकारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरमभयममृतं परं चेति परं शान्तमजरमभयममृतमिति परमात्मन एवैतद्रूपम् – एतदभयमेतदमृतमेतद्ब्रह्म इत्येवमादि श्रुतिभ्यः । एतस्माज्जीवधनात् परात्परम् इति च परमात्मन एव व्यपदेशः ; न चतुर्मुखस्य तस्यापि जीवघनशब्दगृहीतत्वात् । यस्य हि कर्मनिमित्तं देहित्वम् , स जीवघन इत्युच्यते । चतुर्मुखस्यापि तच्छ्रूयते – यो ब्रह्मणं विदधाति पूर्वम् इत्यादौ । यत्पुनरुक्तमन्तरिक्षलोकस्योपरि निर्दिश्यमानो ब्रह्मलोकश्चतुर्मुखलोक इति प्रतीयत तत्रस्थश्चतुर्मुख इति । तदयुक्तम् – यत्तच्छान्तमजरमभयम् इत्यादिना ईक्षतिकर्मणः परमात्मत्वे निश्चिते सति ईक्षितुः स्थानतया निर्दिष्टो ब्रह्मलोको न क्षयिष्णुः चतुर्मुखलोको भवितुमर्हति । किंच – यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकमिति सर्वपापविनिर्मुक्तस्य प्राप्यतयोच्यमानं न चतुर्मुखस्थानम् । अतएव च उदाहरणश्लोके इममेव ब्रह्मलोकमधिकृत्य श्रूयते – यत्तत्कवयो वेदयन्ते इति । कवयः – सूरयः, सूरिभिः दृश्यं च वैष्णवं पदमेव । तद्विष्णोः परमंपदं सदा पश्यन्ति सूरयः (सु.उ.६) इत्येवमादिभ्यः । न च अन्तरिक्षात्पर श्चतर्मुखलोकः, मध्ये स्वर्गलोकादीनां सद्भावात् । अत: – एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वति इति प्रतिवचने यदपरं कार्यं ब्रह्मनिर्दिष्टम् । तदैहिकामुष्मिकत्वेन द्विधा विभज्य एकमात्रं प्रणवमुपासीनानाम् ऐहिकं मनुष्यलोकावाप्तिरूपं फलमभिधाय द्विमात्रमुपासीनानाम् आमुष्मिकमन्तरिक्षशब्दोपलक्षितं फलं चाभिधाय – त्रिमात्रेण परब्रह्मवाचिना प्रणवेन परमपुरुषं ध्यायतां परमेव ब्रह्म प्राप्यतया उपदिशति इति सर्वं समंजसम्। अत ईक्षतिकर्म ‘परमात्मेति ।।

।। इति पञ्चमप्रश्नप्रकाशिका

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.