सर्वव्याख्यानाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥ सर्वव्याख्यानाधिकरणम् ॥८॥ अतीतपञ्चत्रिम्शदधिकरणन्यायातिदेशरूपत्वात्सङ्गतिः। अतीताधिकरणेषु अनुदाहृतकारणवाक्यविशेषाः किमुक्तलक्षण-ब्रह्मपराः उत नेति तेषाम् उक्तन्यायविषयत्वसम्भवासम्भवाभ्याम् सम्शये अनुदाहृताः कारणवाक्यविशेषाः परमपुरुषैकान्तिका न भवन्ति। *हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्* (हिरण्यगर्भ-सूक्तम्, तै.सम्.का.४। *यदा तमस्तन्न दिवा न रात्रिः न सन्न चासच्छिव एव केवल*(श्वे.४-१८) इत्यादिकारणवाक्यान्तरेषु ब्रह्मशिवादिशब्दोक्तकारणान्तरप्रतीतेरिति प्राप्तेऽभिधीयते- एतेन सर्वे व्याख्याता व्याख्याताः ॥१-४-२९॥ सिद्धान्तस्तु-प्रमिताधिकरणोक्तन्यायैरेव तेऽपि […]

प्रकृत्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥  ॥ प्रकृत्यधिकरणम् ॥ ७ ॥       एवम् निरीश्वरसाङ्ख्ये निरस्ते ईश्वरः केवलम् निमित्तभूतः प्रधानमेव पारिणामिजगदुपादानमिति वदतः सेश्वरसाङ्ख्यस्य मतम् निराक्रियत इति सङ्गतिः। छान्दोग्ये – श्वेतकेतुः *सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय*(छान्.६-१-२)। सः श्वेतकेतुः सर्वान्वेदानधीत्य प्रौढमतिः आत्मानम् साङ्गवेदाध्यायिनम् मन्यमानः परिपूर्ण इव तृणीकृत-जगन्त्रयः प्रत्यागतः। *तम् ह पितोवाच*(छान्.६-१-२) स्पष्टोऽर्थः। […]

वाक्यान्वयाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥ वाक्यान्वयाधिकरणम् ॥६॥ बृहदारण्यगतमैत्रेयब्राह्मणमेव अस्य अधिकरणस्य विषयः। *मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात् स्थानादस्मि हन्त तेऽनया कात्यायन्याऽन्तम् करवाणीती*(बृह.४-४-१)ति । अरे मैत्रेयि अहमस्मात् स्थानात् गार्हस्थ्यलक्षणादाश्रमात् उद्यास्यन्नस्मि – ऊर्ध्वम् गन्तुमिच्छ-न्नस्मि । अन्तम् सपल्या सह कलहशान्तये द्रव्यविभागनिर्णयम् कर-वाणीत्यर्थः । *सा होवाच मैत्रेयी येनाहम् नामृतास्याम् किमहम् तेन कुर्याम् यदेवेह […]

जगद्वाचित्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥ जगद्वाचित्वाधिकरणम् ॥५॥ कौषीतकिनामुपनिषदि – *स होवाच यो वै बालाक एतेषाम् पुरुषाणाम् कर्ता यस्य वैतत्कर्म स वै वेदितव्य*(कौषी.४-१८)इति । वैशब्दोऽवधारणे त्वया ब्रह्मत्वेनोपदिष्टानाम् पुरुषाणाम् यः कर्ता ये यत्कार्य भूताः किम् विशिष्याभिधीयते यस्य प्रत्यक्षादिसन्निधापितम् चिदचिद्रूपम् समस्तम् जगत् कर्म कार्यम् क्रियत इति व्युत्पत्त्या कर्मशब्दः कार्यवचनः स एव […]

कारणत्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥ कारणत्वाधिकरणम् ॥ ४ ॥ मा भूवन् पञ्चपञ्चजनास्साङ्ख्यतत्वानि तथापि ब्रह्मकारणमिति सिद्धान्त्यभिमतम् न सिध्यति । कारणवाक्यानाम् परस्परविरोधेन क्वचिदपि प्रतिष्ठितत्वाभावात्तद्विहाय स्मृत्यनुसारेण प्रधानस्यैव कारण-तया वक्तव्यत्वादिति प्रत्यवस्थानात्सङ्गतिः । बृहदारण्यके – *तद्धेदन्तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियते*(बृह.३-४-७)ति। *यदिदम् किञ्च मिथुनमापिपीलिका- भ्यस्तत् सर्वमसृजते*(बृह.३-४-४)ति सृष्टतया निर्दिष्टस्य मिथुनादि-रूपस्य प्रपञ्चस्य इदम् शब्दनिर्दिष्टस्य आत्मभिन्नत्वेन *आत्मैवेदमग्र आसीदि*(बृह.३-४-१)त्युक्तम् । कथमुक्तमित्याशङ्क्य […]

सङ्ख्योपसङ्ग्रहाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥ सङ्ख्योपसङ्ग्रहाधिकरणम् ॥ ३ ॥ अजाशब्दस्य स्वतन्त्रप्रकृतिपरत्वे विशेषस्याभावात् वाक्यान्तरा-नुरोधेन ब्रह्मात्मकत्वम् साधितम् । तदत्र न प्रसरति ब्रह्मसत्वे सङ्ख्या-धिक्यात्तेन विना सङ्ख्यापूरणेन अब्रह्मात्मिका प्रकृतिरिति निश्चयसम्भ-वादिति शङ्कया सङ्गतिः । वाजसनेयके – *यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेवम् मन्य आत्मानम् विद्वान्-ब्रह्मामृतोऽमृतम्*(बृह.६-४-१७) पञ्च-जनसञ्ज्ञाः पञ्च आकाशश्च यत्र प्रतिष्ठित इत्यर्थः । आकाशशब्दो […]

चमसाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥ चमसाधिकरणम् ॥२॥ पूर्वत्र रूपकवाक्ये शरीरश्रवणात् अव्यक्तम् शरीरम् न तन्त्रसिद्धा प्रकृतिरित्युक्तम् तर्हि तदश्रवणात् अजा तन्त्रसिद्धा प्रकृतिस्स्यादिति प्रत्यवस्थानात्सङ्गतिः । श्वेताश्वतरे – *अजामेकाम् लोहितशुक्लकृष्णाम् बह्वीः प्रजास्सृजमानाम् सरूपाः । अजो होको जुष्माणोऽनुशेते जहात्येनाम् भुक्तभोगामजोऽन्यः ॥*(श्वेत.४-५) अस्यार्थः – तेजो(मुण्ड.३-१-१) बन्नलक्षणविकारगतलोहितशुक्ल-कृष्णरूपयुक्ताम् स्वसमानरूपविविधभूतभौतिकस्रष्ट्रीम् उत्पत्ति-रहिताम् काञ्चन कश्चिदविद्वान् उत्पत्तिराहित्येन तत्समान एव सन् […]

आनुमानिकाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥ आनुमानिकाधिकरणम् ॥ १॥ अस्मिन् पादे साङ्ख्यतत्वप्रतिपादनच्छायापन्नानाम् वाक्यानाम् साङ्ख्याभिमतार्थानिरासेन ब्रह्मणि समन्वयः प्रतिपाद्यत इति पादार्थ-स्सङ्गतिश्च उभयमपि प्रतिपाद्यत इति प्रथमपाद एवोक्तम । कठवल्लयाम् – *आत्मानम् रथिनम् विद्धि शरीरम् रथमेव च । बुद्धिम् तु सारथिम् विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहु-र्विषयाम्स्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तम् भोक्तेत्याहुर्मनीषिणः ॥ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.