प्रकृत्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥

  प्रकृत्यधिकरणम् ॥ ७

      एवम् निरीश्वरसाङ्ख्ये निरस्ते ईश्वरः केवलम् निमित्तभूतः प्रधानमेव पारिणामिजगदुपादानमिति वदतः सेश्वरसाङ्ख्यस्य मतम् निराक्रियत इति सङ्गतिः।

छान्दोग्ये – श्वेतकेतुः *सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय*(छान्.६-१-२)। सः श्वेतकेतुः सर्वान्वेदानधीत्य प्रौढमतिः आत्मानम् साङ्गवेदाध्यायिनम् मन्यमानः परिपूर्ण इव तृणीकृत-जगन्त्रयः प्रत्यागतः। *तम् ह पितोवाच*(छान्.६-१-२) स्पष्टोऽर्थः। *उत तमादेशमप्राक्ष्यो येनाश्रुतम् श्रुतम् भवत्यमतम् मतमविज्ञातम् विज्ञात- मिति*(छान्.६-१-२)। अस्यार्थः – आदिशतीत्यादेशः। *कृत्यल्युटो बहुळ* (अष्टा.३-३-११३)मिति कर्तरि घञ्। *उपदेशेऽजनुनासिक इत्*(अष्टा.३-३-२) इति सूत्रे *करणाधिकरणयोश्चे*(अष्टा.३-३-११७)ति कृत्यल्युटा बाधितस्य घञः *अकर्तरि च कारक*(अष्टा.३-३-१९)इत्यनेन प्रसङ्गमाशङ्क्य *कृत्यल्युटो बहुळमि*(अष्टा.३-३-११३) इति घञः भाष्यकृता समर्थितत्वात् तथा च आदेष्टारम् *प्रशासितारम् सर्वेषामि*(मनु स्मृतिः.१२-१२२) त्यादिश्रुतिस्मृतिप्रतिपन्नम् परमात्मधर्मभूतम् प्रशासितृत्वमिह आदेशशब्दार्थः। प्रशासनेन च धारकत्वलक्षणमात्मत्वम् फलितम्। ततश्च आदेशशब्द आत्मपर्यन्तः। *येनाश्रुतम् श्रुतम् भवती*(छान्.६-१-३)त्यस्य वाक्यस्य *कस्मिन्नु भगवो विज्ञाते सर्वमिदम् विज्ञातम् भवति* (मुण्ड.१-१-३), *आत्मनि खल्वरे द्रष्टे श्रुते मते विज्ञाते इदम् सर्वम् विदितम् भवती*(बृह.६-५-६)ति मुण्डकबृहदारण्यकवाक्यानुसारेण येन श्रुतेन मतेन विज्ञातेनाश्रुतममतमविज्ञातम् श्रुतम् मतम् विज्ञातम् भवतीति वाक्यपर्यवसितोऽर्थः। एतेन ब्रह्मस्वरूपसत्तामात्रस्य अश्रुतश्रुत-त्वापादकत्वाभावात् अत्राश्रुतामतादिशब्दानाम् *इदम् सर्वम् विदितम् भवती*(बृह.६-५-६)ति श्रुत्यन्तरानुसारात् सर्वार्थकत्वम् युक्तम्। ततश्च येन श्रुतेन सर्वम् श्रुतम् भवतीत्यर्थः। एवमुत्तरत्रापि योजनीयम्। अत्र विज्ञानशब्दो निदिध्यासनपरः, *श्रोतव्यो मन्तव्यो निदिध्यासितव्य* (बृह.६-५-६) इति क्रमप्रत्यभिज्ञानादिति द्रष्टव्यम्। अत्र *येनाश्रुतम् श्रुत* (छान्.६-१-३)मित्यनेन किमुपादानमिति पृष्टम् भवति। प्रशासितृत्वार्थ-केनादेशशब्देनात्मस्वरूपम् पृष्टम् भवति। ततश्च आत्मभूतमुपादानम् किमिति प्रश्नस्य फलितार्थः। अत एव श्रीविष्णुपुराणे – *यन्मयञ्च जगद्ब्रह्मन् यतश्चैतच्चराचरमि*(वि.पु.१-१-६)ति श्लोके *यन्मयमि*(वि.पु. १-१-६)त्यात्मस्वरूपम् *यतश्चैतच्चराचरमि*(वि.पु.१-१-६)ति उपादानञ्च पृष्टम् । अत एव च *सन्मूलास्सोम्ये*(छान्.६-८-४,६)त्यादिप्रतिवचने *सदायतना*(छान्.६-८-४,६) इति सत आत्मत्वम् *सन्मूलास्सत्प्रतिष्ठा* (छान्.६-८-४,६)इति सत उपादानत्वञ्च प्रतिपाद्यते । अत एव *अथातो-ऽहङ्कारादेशः*(छान्.७-२५-१), *अथात आत्मादेश*(छान्.७-२५-२) इत्या-दाविव आदेशशब्दस्य उपदेशार्थकत्वमेवास्तु न प्रशासनार्थत्वमिति शङ्का पराकृता। अतो जगदुपादानभूतम् जगदात्मानम् किम् पृष्टवा-नसीत्यर्थः। अन्यज्ञानेन अन्यज्ञानासम्भवात् एकविज्ञानेन सर्वविज्ञाना-सम्भवम् मन्वानश्चोदयति – *कथम् नु भगवस्स आदेशो भवतीति*(छान्. ६-१-३)। हे भगवः ईदृशः आदेशः कथम् भवेदित्यर्थः। उपादानोपादे-ययोस्तत्सम्भवतीत्यभिप्रायेण उत्तरमाह – *यथा सोम्यैकेन मृत्पिण्डेन सर्वम् मृण्मयम् विज्ञातम् स्यात्*(छान्. ६-१-४)। यथा उपादानभूते मृत्पिण्डे ज्ञाते तदुपादेयघटशरावादिकम् ज्ञातम् भवति तद्वदित्यर्थः।

ननु असदेव घ़टशरावादिकम् मृत्पिण्डेनोत्पद्यते । अतश्च उपादानो-पादेययोर्भेदात् मृत्पिण्डे ज्ञाते सर्वमृण्मयानाम् ज्ञातत्वम् न सम्भवतीति मन्वानम् प्रत्याह – *वाचारम्भणम् विकारो नामधेयम् मृत्तिकेत्येव सत्यम्*(छान्.६-१-४) । घटत्वादिलक्षणविकारो घटशरावादिनामधेयम् च, आरभ्यते स्पृश्यत इत्यारम्भणम् कर्मणि ल्युट्। तेनैव मृद्द्रव्येण घटश-रावादिलक्षणो विकारो घटशरावादिनामधेयम् च स्पृश्यत इत्यर्थः। आरम्भणशब्दस्य पुन्नपुम्सकलिङ्गान्तविकारनामधेयविशेषेणत्वेऽपि नपुम्सकैकशेषैकवद्भावाभ्याम् वा लिङ्गसामान्यादिविवक्षया वा आरम्भ-णमिति नपुम्सकैकवचननिर्देशः। मृद्द्रव्येण विकारनामधेये कस्मै प्रयो-जनाय स्पृश्येते इत्यत्राह *वाचेति*(छान्.६-१-४) । प्रयोजनस्य हेतुत्व-विवक्षया तृतीया । वाक्छब्दश्च अजहल्लक्षणया वागादिव्यवहारपरः। ततश्च वाक्पूर्वकहानादिव्यवहारार्थम् मृत्पिण्डेन नामरूपे स्पृश्येते। मृत्पिण्ड एव नामरूपभाग्भवतीत्यर्थः। अत्र यद्यपि मृत्पिण्डमृण्मयाभेद-प्रतिपादनम् *वाचारम्भणम् विकार*(छान्.६-१-४) इत्येतावन्मात्रेणापि सिध्यतीति न नामधेयस्यापि स्पृश्यत्वम् वक्तव्यम्, तथाऽपि सञ्ज्ञाभेदे उपादानोपादेययोर्भेदशङ्काव्युदासाय नामापि मृद्द्रव्येण स्पृश्यत इत्युक्ति- रपेक्षितेति द्रष्टव्यम् । कार्यकारणयोरेकद्रव्यत्वे प्रमाणमाह – *मृत्तिकेत्येव सत्यम्*(छान्.६-१-४) । मृण्मयम् घटादिकम् मृत्तिकेत्येव प्रमाण प्रति-पन्नम् न तु तद्भिन्नत्वेनेत्यर्थः यद्वा मृण्मयम् मृत्तिकेति वाक्यमेव सत्यम् । अबाधितार्थकमित्यर्थः। ततश्च उपादानोपादेययोर्भेदात् उपादाने ज्ञाते उपादेयस्य ज्ञातता भवतीत्यर्थः।

ननु *सर्वम् मृण्मयम् विज्ञातम् स्यादि*(छान्.६-१-४)त्यत्र विकारार्थ-मयट् प्रत्ययेन घटशरावत्वाद्य वस्थावद्द्रव्यरूपो विकार एवाभिधातव्यः न तु घटत्वशरावत्वाद्यवस्थारूपो विकारः, तस्य मृत्पिण्डापेक्षया भिन्न-त्वेन तज्ज्ञानेन ज्ञातत्वासम्भवात् । ततश्च तदुपपादके *वाचारम्भणम् विकार*(छान्.६-१-४) इति वाक्येऽपि विकारशब्देनावस्थावद्द्रव्यलक्षणस्य विकारस्याभिधानमुचितम्, नत्ववस्थालक्षणविकारस्येति चेत्, सत्यम् । तस्यैवाभिधानमुचितम् तथाऽपि मृद्द्रव्येण घटशरावादिलक्षणस्याव-स्थावतो द्रव्यस्य स्पर्शासम्भवात्। नह्यात्मैवात्मना स्प्रष्टुम् शक्यः। अतो मृण्मयमित्यत्र विकारवाचिमयट्प्रत्ययेनावस्थावतोऽभिधानेऽपि तदुपपादके *वाचारम्भणम् विकार*(छान्.६-१-४) इति वाक्ये विकारशब्देनावस्थाया एव ग्रहणमुचितम् । तथा *मृत्तिकेत्येव सत्यमि*(छान्.६-१-४)त्यत्र विशेष्याकाङ्क्षायाम् *सत्यम्*(छान्.६-१-४)इति नपुम्सकलिङ्गानुरोधात् अवस्थावद्द्रव्यवाचिमृण्मयमित्ये तत् विशेष्यतयाऽनुषज्यते। ततश्च *सर्वम् मृण्मयम् मृत्तिकेत्येव सत्यमि*(छान्.६-१-४)त्यत्र अवस्थाव-द्द्रव्यमेव विकारवाचिना मयट्प्रत्ययेनाभिधीयत इति न कश्चिद्दोष इति द्रष्टव्यम् ।

यत्त्वत्र परैरुक्तम् *विकारो वाचारम्भणम् वागालम्बनमात्रम् नामधेयम् स्वार्थे धेयप्रत्ययः, नामैव केवलम् विकारो नाम न वस्त्वस्ति मृत्तिकैव सत्यमि*ति । तदसम़ञ्जसम् । *वाचारम्भण*(छान्.६-१-४) मित्यस्य वागालम्बनमित्येतदर्थकत्वे प्रमाणाभावात् । *नामधेयमि* (छान्.६-१-४)त्यनेन वागालम्बन मात्रमित्यतोऽतिरिक्तार्थाप्रतिपादना-त्पुनरुक्तिश्च, मृत्तिकासत्यत्वमात्रत्वविवक्षायामितिशब्दवैयर्थ्य़ञ्च । उक्तञ्चाभियुक्तैः – वाचारम्भणमित्युक्तेर्मिथ्येत्यश्रुतकल्पनम्। पुनरुक्तिर्नाम- धेयमितीत्यस्य निरर्थते* ति । किम् च परमते *येनाश्रुतम् श्रुतम् भवती*(छान्.६-१-३)ति सन्दर्भोऽपि न युज्यते । शुक्तितत्वे ज्ञाते तदध्य-स्तरजतादेर्निवृत्तावपि रजतत्वादर्शनेन ब्रह्मणि ज्ञाते तदध्यस्तप्रपञ्च- निवृत्तावपि ज्ञातत्वासम्भवात् । ननु शुक्तौ ज्ञातायाम् रजतस्य तत्वम् ज्ञातमेव शुक्तिव्यतिरिक्त तत्त्वस्याभावात् । एवम् ब्रह्मणि ज्ञाते प्रपञ्चस्य तत्वम् ज्ञातमेवेति चेन्न । परमार्थशुक्तेरपरमार्थरजततत्त्वरूपत्वासम्भवात् । न हि शुक्तौ ज्ञातायाम् रजततत्त्वम् ज्ञातमिति व्यवहारो दृष्टचर इत्या-स्ताम् तावत्।

*यथा सौम्येकेन लोहमणिना सर्वम् लोहमयम् विज्ञातम् स्यादि*    (छान्.६-१-५)त्यादि । लोहमणिः सुवर्णपिण्डविशेष । *यथा सोम्यैकेन नखनिकृन्तनेन सर्वम् कार्ष्णायसम् विज्ञातम् स्यादि*(छान्.६-१-६)ति। नखनिकृन्तनशब्देन कृष्णायसपिण्डविशेषो लक्ष्यते। शिष्टम् पूर्ववत् । *एवम् सोम्य स आदेशो भवती*(छान्.६-१-६)ति। मयोक्त आदेशो मृत्पिण्डादितुल्य इत्यर्थः। यद्यप्यधिकरणचिन्तोपयुक्तम् प्रतिज्ञादृष्टान्तद्वयमेव विषयः, तथाऽपि उत्तरवाक्येषु अवश्यम् ज्ञातव्यम् *सदेवे*(छान्.६-२-१)ति वाक्यम् लिख्यते । प्रतिज्ञातस्य एकविज्ञानेन सर्वविज्ञानसमर्थनाय जगतो ब्रह्मैककारणताम् प्रतिपादयितुम् प्रवृत्तः यथा लोके अपराह्णे प्रसारितानाम् घटशरावोदञ्चनादीनाञ्च मृत्पिण्डैकोपादा-नताम् प्रतिपादयति तथा प्रतिपादयति – *सदेव सोम्येदमग्र आसीदेक-मेवाद्वितीयम्*(छान्.६-२-१)। इदम् विभक्तनामरूपम् बहुत्वावस्थम् जगत् अग्रे सृष्टेः प्राक् एकमेव अविभक्तनामरूपतया एकत्वावस्था-पन्नमेव अद्वितीयम् अधिष्ठात्रन्तरशून्यम् सदेवासीदित्यर्थः। अत्र  सच्छब्दो मानसम्बन्धयोग्यत्वलक्षणम् सत्त्वम् प्रवृत्तिनिमित्तीकृत्य परमात्मनि वर्तते । अयम् च सच्छब्दो विशेष्यभूतपरमात्मवाचकोऽपि कारणविषय-त्वसामर्थ्यात् कारणत्वौपयिकगुणविशिष्टप्रकृतिपुरुषकालशरीरकम् परमात्मानमुपस्थापयति। *देवाम् आज्यपाम् आवहे*(आप.श्रौतः.१३.खम्) त्यादौ विशेष्यवाचिन एव आज्यशब्दस्य विकृतिषु पृषदाज्यवाचित्वस्य दाशमिकन्यायसिद्धत्वात् । अत्र*सदेवे*(छान्.६-२-१) त्येवकारेण नैयायिका-भिमतमुत्पत्तेः प्राग्जगतोऽसत्वम् व्यावर्त्यते । *सदेवे*(छान्.६-२-१) त्येवकारस्य नैयायिकमतसिद्धोत्पत्तिप्राक्कालीन- कार्यासत्त्वव्यावर्तकत्वम् *तद्धैक आहुरसदेवेदमग्र आसीदि*(छान्.६-२-१)ति असत्कार्यवादिदर्शन-प्रतिक्षेपपरोत्तरवाक्यसन्दर्भादवसीयते ।*एकमेव*(छान्.६-२-१) त्येवकारेण *बहुस्यामि*(छान्.६-२-३)ति वक्ष्यमाणा स्रक्ष्यमाण-कार्यबहुत्वावस्था व्युदस्यते। *तदैक्षत तत्तेजोऽसृजते*(छान्.६-२-३) त्युत्तरवाक्यसन्दर्भे सच्छब्दितस्यैव निमित्तत्वकथनात् *अद्वितीयमि*(छान्.६-२-१)त्यनेन निमित्तान्तरम् निषिध्यते । ततश्च *एकमद्वितीयमि*(छान्.६-२-१)ति पदाभ्याम् अभिन्ननिमित्तोपादानत्वम् सिद्धम् भवति । ततश्चायमर्थः – इदम् बहुत्वावस्थम् विभक्तनामरूपम् प्रत्यक्षतया दृश्य-मानम् जगत् सृष्टेः प्राक् निमित्तान्तरशून्यमविभक्तनामरूपतया एकम् सच्छब्दितम् ब्रह्मैवासीदित्यर्थः। यद्यपीदानीमपि जगत्सदेव, तथाऽप्यविभक्तनामरूप-सद्भावापत्तिस्सृष्टेः प्रागेवेति *अग्र*(छान्.६-२-१) इत्यस्य नानुपपत्तिः।

ननु *सदेव सोम्येदमग्र आसीदि*त्यत्र इदम् शब्दस्य कथमश्रु-तवेदान्तश्वेतकेतुम् प्रति ब्रह्मपर्यन्तप्रतीतिजनकत्वमिति चेन्न। विशेष्यस्य ब्रह्मणो विशेषणस्य प्रप़ञ्चस्य पूर्वोत्तरावस्थाश्रयहेतुहेतुमद्रू-पतया उपादानोपादेयभावोऽस्तीति अस्मिन्पक्षे इदम् शब्दस्य केवल-चिदचित्प्रपञ्चमात्रपरत्वेन अस्याश्शङ्काया अनवकाशात्। न च केवलस्य ब्रह्मणः परिणामित्वासम्भवेन कथमुपादानत्वमिति वाच्यम्। यस्योत्पत्तिविनाशापेक्षया सत्तादिकम् आश्रयोत्पत्त्यादिनैव व्यवह्रियते  तत्तदपृथक्सिद्धमिति तदपृथक्सिद्धकारणत्वस्यैव तदुपादानत्वरूपत्वात् विशेष्यस्य ब्रह्मणो विशेषणापृथक्सिद्धाकरत्वेन उपादानत्वस्यैव युक्त- त्वात्। भाव्यवस्थाश्रयस्यैव उपादेयतया तच्छरीरभूतस्य जगतोऽपि भाव्यवस्थाश्रयत्वेन ब्रह्मोपादेयत्वसम्भवात्, तत्सत्तयैव सदिति व्यव-हारवत् तज्ज्ञाततयैव ज्ञाततासम्भवेन एकविज्ञानेन सर्वविज्ञानोपपत्तेश्च *सर्वम् खल्विदम्*(छान्.३-१४-१)  *ऐतदात्म्यमिदम् सर्वमि*(छान्.६-८-७)  त्यादिषु सर्वत्र इदम् शब्दस्य केवलविशेषणमात्रपरत्वे बाधकाभावात् विशिष्टस्यैव ब्रह्मण उपादानत्वमित्यस्मिन्पक्षेऽपि इदमादिशब्दानाम् विशेषणमात्रपरत्वमेवाश्रियते। यथाऽथर्वशिरसि रुद्रम् प्रति देवैः प्रयुक्तस्य *को भवानि*(अथर्वशिरः १)ति प्रश्नस्य पुरोवर्तिरुद्रमात्रपरत्वेऽपि भव-च्छब्दस्य परमात्मपर्यन्तत्वशिक्षणाय *अहमेकः प्रथममासमि*(अथर्व-शिरः १)त्यादिवचनप्रवृत्तिः, एवमेव *इदमग्रआसीदि*(छान्.६-२-१)ति विशेषणमात्रपरत्वेऽपि विशेष्यपर्यन्तत्वशिक्षणाय स्थूलचिदचिच्छरीरम् ब्रह्म प्रति सूक्ष्मचिदचिच्छरीरम् ब्रह्मोपादानमित्येतदर्थ प्रतिपादकस्य उत्तरसन्दर्भस्य प्रवृत्तौ दोषाभावात्। ननु उक्तरीत्या भिन्नयोरुपादानोपा-देयभावसमर्थनेऽपि *सदेवेदमग्र आसीत्*(छान्.६-२-१), *सर्वम् खल्विदम् ब्रह्मे*(छान्.३-१४-१)ति परस्परभिन्नविशेषणविशेष्यवाचिनोः जगद्ब्रह्म-वाचिशब्दयोः कथम् सामानाधिकरण्यमिति चेत्। अपृथक्सिद्धवाचित्व-स्यैव सामानाधिकरण्यप्रयोजकतया लोकवेदयोर्दृष्टत्वात्। चिदचित्प्रपञ्च-स्यैव तच्छक्तित्वेन तच्छरीरत्वेन च तयोरभेदोपचारेण अभेदनिर्देशानाम् *सदेवेदमि*(छान्.३-१४-१)त्यादिरूपाणामुपपत्तेः, शक्तिशक्तिमतोः दण्डघटा-दिवदत्यन्तभेदाभावात् विशेषणभूतप्रपञ्चाम्शे ब्रह्मण उपादानत्वाभावे *न विलक्षणत्वादि*(ब्र.सू.२-१-४)त्यस्य वा *कृत्स्नप्रसक्तिर्निरवयवत्वशब्द-कोपो वे*(ब्र.सू.२-१-२६)त्यधिकरणस्य वा निरालम्बनत्व-प्रसङ्गात्, ब्रह्मणो ब्रह्म प्रति उपादानत्वे विलक्षणत्वशङ्काया वा ब्रह्मणो जगद्रूपेण परिणामाभावे कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपाशङ्कयोर्वा अप्रसक्तेः। नन्वेवम् *तदनन्यत्वमारम्भणशब्दादिभ्य*(ब्र.सू.१-१५) इत्यधिकरणे प्रपञ्चस्योपादानभूतब्रह्मणोऽभेदास्भवादुपादानोपादेयाभेदसमर्थनम् विरुद्ध्येतेति चेत् न तस्मिन्नाधिकरणे उपादानोपादेययोः स्वरूपाभेदः समर्थ्यते, तयोरभेदे कारकव्यापारवैयर्थ्यप्रसङ्गात्। अपि तु तदपृथ-क्सिद्धत्वम्, तच्च तत्सत्ताधीनसत्ताकत्वम्। एतादृशस्यापृथक्सिद्धत्वस्य अभेदव्यवहारप्रयोजकत्वम् *यदधीना यस्य सत्ता तत्तदित्येव भण्यत*   इति प्रमाणसिद्धम्, अतो न तदधिकरणविरोधः। यद्वाऽस्मन्मते स्थूलचिदचिदात्मकप्रपञ्चस्येव तद्विशिष्टस्यापि ब्रह्मण उपादेयत्वादु-पादानभूतसूक्ष्मचिदचिच्छरीरकस्य ब्रह्मण उपादेयभूतस्थूलचिदचिद्विशिष्ट ब्रह्माभेदसमर्थनपरतया आरम्भणाधिकरणस्योपपत्तेर्न चोद्यावकाशः। न च सच्छब्दस्य सूक्ष्मप्रकृतिकालजीवशरीरकब्रह्मपरत्वे कार्यभूतजगत्सृष्टेः प्राक् तादृशब्रह्मबोधकत्वेऽपि जगति सत्तासम्बन्धबोधकत्वाभावेन असत्कार्यव्युदासकत्वम् कथमिति वाच्यम्। सृष्टेः प्राक् सच्छब्दित-ब्रह्माभेदबोधने नैयायिकाभिमतासत्वव्युदासस्य अर्थसिद्धत्वात्। अतः *उत तमादेशमप्राक्ष्य*(छान्.६-१-२) इत्यादिभिः प्रश्नोत्तरवाक्यैः अभिन्न-निमित्तोपादानम् ब्रह्मेति प्रतिपाद्यते ॥

ननु लोके घटकर्तुः कुलालस्य उपादनत्वादर्शनात् जगत्कर्तुः परमात्मनः जगदुपादानत्वम् न सम्भवति। किञ्च निष्कळतयाऽ-परिणामिनः परमात्मनः परणामित्वलक्षणोपादानत्वासम्भवाच्च ब्रह्मणो नोपादनत्वम्। *अस्मान्मायी सृजते विश्वमेतत्तस्मिन्श्चान्यो मायया सन्निरुद्धः*(श्वे.४-९)। *मायान्तु प्रकृतिम् विद्यान्मायिनम् तु महेश्वरमि* (श्वे.४-१०)ति श्रुतिवशात्परिणामसमर्थप्रकृतिरेवोपादानम् ईश्वरस्य तु तदधिष्ठातृत्वमात्रमेवेति प्राप्त उच्यते-

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्१-४-२३

प्रकृतिश्च उपादानम् च ब्रह्मैव। इतरथा एकविज्ञानेन सर्वविज्ञान-प्रतिज्ञाया मृत्पिण्डादिदृष्टान्तस्य चोपरोधप्रसङ्गात्। नह्युपादानभूत-मृत्पिण्डज्ञान इव निमित्तभूतदण्डादिज्ञाने तत्कार्यम् घटशरावादिकम् ज्ञातम् भवति। अतएव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञया मृत्पिण्डादि-दृष्टान्तस्वारस्येन च ब्रह्मजगतोरुपादानोपादेयभाव एवावसीयते। न च अस्य ग्रामस्य प्रधानभूते चैत्रे दृष्टे *सर्वे ग्रामस्था दृष्टा* इति व्यपेदशवत् ब्रह्मणः सर्वप्रधानतया *तस्मिन्दृष्टे सर्वम् विदितप्रायमि*त्युक्तिरुपपद्यत इति वाच्यम्। यदि ह्यत्र सर्वविज्ञानम् प्राधान्याभिप्रायम् गौणम् स्यात्तदा प्रधानज्ञानेन सर्वमिदमप्रधानमविदितमपि फलतो विदितप्रायम् भवती-त्यस्यार्थस्य लोकसिद्धत्वेन एकविज्ञानेन सर्वविज्ञानानुपपत्तिम् पश्यतः श्वेतकेतोः *कथम् नु भगवस्स आदेश*(छान्.६-१-३) इति प्रश्नो न स्यात्। अभिप्रायानभिज्ञेन कृतेऽपि प्रश्ने प्राधान्याद्वा सादृश्याद्वा सर्वम् ज्ञातम् स्यादित्येव प्रतिवक्तव्यम् स्यात्। न तु *यथा सोम्यैकेन मृत्पिण्डेने* (छान्.६-१-४)ति। अतो ब्रह्मोपादानमेव ॥

अभिध्योपदेशाच्च१-४-२४

*तदैक्षत बहुस्याम् प्रजायेये*(छान्.६-२-३)ति ब्रह्मण एव *बहुस्यामि* (छान्.६-२-३)ति सङ्कल्पपूर्विका सृष्टिरुपदिश्यते। न हि कुलालादेरीदृश सङ्कल्पपूर्विका सृष्टिः सम्भवति।

साक्षाच्चोभयाम्नानात्१-४-२५

*ब्रह्म वनम् ब्रह्म सवृक्ष आसीत् यतो द्यावापृथिवी निष्टतक्षुः। मनी-षिणो मनसा विब्रवीमि वः ब्रह्माध्यतिष्ठद्भुवनानि धारयन्नि*(तै.अष्ट.२, प्र.८, अनु.७, मम्.८)ति हि श्रूयते। यत उपादानात् द्यावापृथिवी-शब्दोपलक्षितम् कृत्स्नम् जगत् ब्रह्म निष्टतक्षुः – निर्मितवानित्यर्थः। वचनव्यत्ययश्छान्दसः। तादृशवृक्षस्थानीयद्यावापृथिव्यादि जगदुपादान-मपि ब्रह्मैव तस्योपादानभूतस्य वृक्षस्य आधारभूतम् वनमपि ब्रह्मैव। भुवनानि धारयन्नीश्वरो ब्रह्मशब्दवाच्यम् स्वात्मानमेव अध्यतिष्ठ-दित्यर्थः। अतश्च अधिष्ठेयमुपकरणादिकमपि ब्रह्मैवेत्यर्थः।

आत्मकृतेः१-४-२६

*तदात्मानम् स्वयमकुरुत* इत्यात्मन एव बहुत्वकरणात्तस्यैव निमित्तत्वमुपादानत्वञ्च। न हि *कुलाल आत्मानम् स्वयमकुरुते*ति व्यपदेशोऽस्ति।

ननु *निष्कलम् निष्क्रियमि*ति निरवयवस्य अपरिणामिनः कथम् परिणामित्वलक्षणमुपादानत्वम् स्यात्तत्राह—

परिणामात् १-४-२७

निर्विकारत्वाद्यविरोधिपरिणामविशेषसम्भवादित्यर्थः। अयम् भावः- *निष्कळम् निष्क्रियम् शान्तमि*(श्वेत.६-१९)त्यादिभिः” परमात्मनो निर्विकारत्वम् च प्रतीयते। पूर्वोक्तसूत्रोदाहृत श्रुतिभिः प्रपञ्चोपादानत्वम् च प्रतीयते। उभयमपि यथोपपद्यते, तथोपपादनीयम्। परमात्मनश्च निर्विकारत्वम् श्रूयते – *विकारजननीमज्ञामष्टरूपामजाम् ध्रुवाम्* (मान्त्रिकोपनिषत्) *अजामेकाम् लोहितशुक्लकृष्णाम्*(श्वेत.४-५, तै. महा.ना.१-२-५) *अस्मान्मायी सृजते विश्वमेतत्तस्मिन्श्चान्यो मायया सन्निरुद्धः*(श्वेत.४-९) *मायान्तु प्रकृतिम् विद्यान्मायिनन्तु महेश्वरमि* (श्वेत.४-१०)त्यादिवाक्येषु प्रपञ्चोपादानतया परिणामिनी प्रकृतिः प्रतीयते। तत्र परिणममानप्रकृतिरूपोपादानावरुद्धे प्रपञ्चे साक्षात्कारण-त्वासम्भवात्तद्वारा ब्रह्म कारणमित्यवसीयते। यथा *यदाग्नेयोऽष्टाकपाल* (तै.सम्.२-६-३) इति पुरोडाशावरुद्धे यागे व्रीहीणाम् कारणत्वम् साक्षा-त्कारणत्वासम्भवात् पुरोडाशद्वारा पर्यवस्यति तद्वत्। ननु भवत्वन्यद्वारा कारणत्वनिर्वाहो व्यापारव्यवधानेऽपि कारणत्वाक्षतेः। उपादानत्वम् तु नान्यद्वारा सम्भवति भाव्यवस्थावतः पूर्वावस्थायोगित्वम् ह्युपादानत्वम्। अवस्थाश्रयत्वशून्ये परमात्मनि कथमुपादानत्वमिति चेन्न, परमात्मा-श्रितायास्तच्छक्तिभूतायाः प्रकृतेरवस्थाश्रयत्वेन परमात्मनोऽप्यवस्था-श्रयत्वोपपत्तेः। ततश्च ब्रह्मणि साक्षाद्विकाराभावमादाय अपरिणामित्व-निर्विकारत्वश्रुतयश्चोपपन्नाः। शक्तिशरीरादिशब्दितायाः प्रकृतेर्ब्रह्मणश्च अभेदोपचारेण वा प्रकृतिगतावस्थायाः परम्परया ब्रह्माश्रितत्वेन वा ब्रह्मणः परणामोपादानत्ववादाः, ब्रह्मोपादानत्वावलम्बनाच्च *न विलक्षण-त्वादस्य तथात्वञ्च शब्दात्*(ब्र.सू.२-२-४) *कृत्स्नप्रसक्तिर्निरवयवत्व-शब्दकोपो वा*(ब्र.सू.२-१-२६) इत्याद्याक्षेपपरिहाराश्चोपपन्नः

योनिश्च हि गीयते१-४-२८

*यद्भूतयोनिम् परिपश्यन्ति धीरा*(मुण्ड.१-२-६) इति योनि-रुपादानमिति हि ब्रह्म गीयते। योनिशब्दस्य उपादानवचनत्वम् *यथोर्णनाभिस्सृजते गृह्णते चे*(मुण्ड.१-१-७)ति वाक्यशेषादवगम्यते। अतश्च ब्रह्मैव निमित्तमुपादानञ्चेति स्थितम् ॥

इति प्रकृत्यधिकरणम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.