कारणत्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥

कारणत्वाधिकरणम् ॥ ४ ॥

मा भूवन् पञ्चपञ्चजनास्साङ्ख्यतत्वानि तथापि ब्रह्मकारणमिति सिद्धान्त्यभिमतम् न सिध्यति । कारणवाक्यानाम् परस्परविरोधेन क्वचिदपि प्रतिष्ठितत्वाभावात्तद्विहाय स्मृत्यनुसारेण प्रधानस्यैव कारण-तया वक्तव्यत्वादिति प्रत्यवस्थानात्सङ्गतिः ।

बृहदारण्यके – *तद्धेदन्तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियते*(बृह.३-४-७)ति। *यदिदम् किञ्च मिथुनमापिपीलिका- भ्यस्तत् सर्वमसृजते*(बृह.३-४-४)ति सृष्टतया निर्दिष्टस्य मिथुनादि-रूपस्य प्रपञ्चस्य इदम् शब्दनिर्दिष्टस्य आत्मभिन्नत्वेन *आत्मैवेदमग्र आसीदि*(बृह.३-४-१)त्युक्तम् । कथमुक्तमित्याशङ्क्य इदमादिनामरूप- भाक्त्वमपि ब्रह्मण एव । तस्य च आत्मशब्दवाच्यसूक्ष्मचिदचिद्विशिष्ट-ब्रह्माभेद उपपद्यत इत्येतदर्थोऽयम् सन्दर्भ आरभ्यते हशब्दः प्रतिज्ञातार्थ-स्मरणे । तदिदम् मिथुनादिलक्षणम् जगत् तर्हि – तदा सृष्टेः प्राक् अव्याकृतमासीत् – अव्यक्तमासीत् । तन्नामरूपाभ्याम् न व्याकृतमिति
व्युत्पत्त्या अव्याकृतमव्यक्तशरीरकम् ब्रह्मसीदित्यर्थः । तदेव अव्याकृत-शरीरकम् ब्रह्मैव नामरूपाभ्यामितीत्थम् भावे तृतीया एवकारो भिन्नक्रमः नामरूपवत्तया व्याक्रियत व्याकृतमासीत् । व्याङ्भ्यामुपसर्गाभ्याम् विविच्य समन्तादक्रियतेत्यर्थः कर्मकर्तरि लकारः । ततश्च तदेव अविभक्तनामरूपम् ब्रह्म सर्वज्ञम् सत्यसङ्कल्पम् नामरूपवत्तया स्वयमेव व्याक्रियत इत्यर्थः । तदेव दर्शयति – *असौ नामायमिदम् रूपम्*(बृह. ३-४-१) इति देवमनुष्यादिनामा करचरणादिरूपवानित्येवम् व्याख्यायते । अदो नामेति वक्तव्ये असौ नामेति लिङ्गव्यत्ययोऽसौ नामेति अलुक् च छान्दसौ । ततश्च सर्वाणि नामानि तत्प्रवृत्तिनिमित्तभूतानि च रूपाणि तदीयान्येव । अतः इदमादिशब्दैरपि तस्यै व निर्देशसम्भवात् *आत्मै- वेदमग्र आसीदि*(बृह. ३-४-१)त्यभेदेन निर्देशे नानुपपत्तिरिति भावः । ननु एवकारेण कर्त्रन्तरव्यवच्छेदात् कर्त्रन्तराक्षेपे गौरवात् *तदात्मानम् स्वयमकुरुते*(तै.आन.७)त्यनेनैकार्थ्याच्च *व्याक्रियते*(बृह.३-४-७)ति लकारस्य कर्मकर्तर्येवाभ्युपगन्तव्यत्वात् तदवैरूप्याय *अव्याकृतमि* (बृह.३-४-७)त्यत्रापि कर्मकर्त्रर्थकत्वस्य आश्रयणीयतया कर्मणि विहित-क्तप्रत्ययासिद्धेः । न च कर्मकर्तर्यपि कर्मवद्भावेन क्तप्रत्ययोऽस्त्विति
वाच्यम् । लान्तस्यैव कर्मवद्भावविधानात् अलान्ते कृत्यर्थखलर्थेषु कर्मवद्भावाभावादिति चेन्न । कर्मकर्तरि अकर्मकतया *गत्यर्थाकर्मके* (अष्टा.३-४-७२)ति कर्तरि क्तस्य सम्भवाद्वैरूप्यस्यासम्भवात् । ननु आत्मनः कथम् देवमनुष्यादिनामरूपभाक्त्वम् तच्छरीरे तस्या वर्तमान- त्वादितीमामाशङ्काम् व्यावर्तयति – *स एष इह प्रविष्ट आनखाग्रेभ्यः*  (बृह.३-४-७)अन्तर्यामिरूपेणेति शेषः । अत्र दृष्टान्तमाह – *यथा क्षुरः क्षुरधानेऽवहितस्स्याद्विश्वम्भरो वा विश्वम्भरकुलाये*(बृह.३-४-७) क्षुर-धानम् क्षुरकोशः अवहितः पिहित प्रविष्टः विश्वम्भरः- वैश्वानरः विश्वम्भ-रकुलाये नीडे दारुणीति यावत् । यस्तिलतैलवत् सर्वत्र व्याप्तम् परमा-त्मानम् न पश्यति सः अकृत्स्नः – अपूर्णस्वरूपः असत्कल्प इति यावत् । परमात्मन एव सर्वनामरूपवत्त्वमुपपादयति – *प्राणो नाम भवति वदन् वाक्पश्यन् चक्षुश्श्रृण्वन् श्रोत्रम् मन्वानो मनस्तान्य- स्यैतानि कर्मनामधेयान्येव*(बृह.३-४-७) प्राणक्रियाम् कुर्वन् प्राणनामा भवतीति योज्यम् । तान्येतानि प्राणादीनि नामानि पाचकगायकादिवत् कर्मना-मान्येव । अतस्सर्वनामरूपाश्रयत्वम् परमात्मनोऽस्तीति भावः । अत्र *तद्भेदम् तर्ही*(बृह.३-४-७)ति वाक्यमेव विषयः । इतराण्यधिकर-णार्थचिन्तोपयुक्तानि लिखितानि।

अत्र चिन्त्यते *सदेव सोम्येदमग्र आसीदि*(छान्.६-२-१)ति क्वचित् सत्पूर्विका सृष्टिराम्नायते । *असद्वा इदमग्र आसीदि*(तै.आन.७)ति क्वचिदसत्पूर्विका । अतो वेदान्तेषु सृष्टिरव्यवस्थितेति जगतो ब्रह्मैक-कारणत्वम् न निश्चेतुम् शक्यम् । *तद्भेदम् तर्ह्यव्याकृतमासी-त्तन्नामरूपाभ्यामेव व्याक्रियते*(बृह.३-४-७)ति अव्याकृतकर्तृकसृष्टेराम्ना-तायास्सांख्यस्मृत्यनुरोधित्वात् प्रधानमेव जगत्कारणम् ईक्षणादयो गौणा नेतव्या इति पूर्वपक्षे प्राप्त उच्यते –

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १-४-१४

*जन्माद्यस्य यत*(ब्र.सू.१-१-२) इत्यादिसूत्रेषु प्रतिपादितम् सर्वज्ञम् सत्यसङ्कल्पम् ब्रह्म यथाव्यपदिष्टमित्युच्यते । तस्यैव *आत्मन आकाशस्सम्भूत*(तै.आन.१)इत्यादिषु वाक्येषु आकाशादिकारणत्वेनोक्तेः ।

समाकर्षात् ॥ १-४-१५ ॥

*असद्वा इदमग्र आसीदि*(तै.आन.७)त्यत्र *सोऽकामयते*(तै.आन.६) ति प्रकृतस्य ब्रह्मण एव *तदप्येष श्लोको भवती*(तै.आन.६)ति समा-कृष्य *असद्वा इदमग्र आसीदि*(तै.आन.७)त्यभिधानात् असच्छब्दस्सूक्ष्मचिद-चिद्विशिष्ट ब्रह्मपरः । *तद्धेदम् तर्ह्यव्याकृतमासीदि*(बृह.३-४-७) त्यत्र अव्याकृतस्य *स एष इह प्रविष्ट आनखाग्रेभ्यः*, *पश्यम्श्चक्षुरि* (बृह.३-४-७)त्यादिना उत्तरत्र समाकृष्यमाणत्वात् पश्यत्त्वादीनामचेतने अभावा-दव्याकृतशब्दोऽपि अव्याकृतशब्दिताव्यक्तशरीरकपरमात्मपर एवेत्यर्थ इति निर्णीतम् ॥

इति कारणत्वाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.