वाक्यान्वयाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थ दीपिकायाम् प्रथमाध्यायस्य चतुर्थः पादः ॥

वाक्यान्वयाधिकरणम् ॥६॥

बृहदारण्यगतमैत्रेयब्राह्मणमेव अस्य अधिकरणस्य विषयः। *मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात् स्थानादस्मि हन्त तेऽनया कात्यायन्याऽन्तम् करवाणीती*(बृह.४-४-१)ति । अरे मैत्रेयि अहमस्मात् स्थानात् गार्हस्थ्यलक्षणादाश्रमात् उद्यास्यन्नस्मि – ऊर्ध्वम् गन्तुमिच्छ-न्नस्मि । अन्तम् सपल्या सह कलहशान्तये द्रव्यविभागनिर्णयम् कर-वाणीत्यर्थः । *सा होवाच मैत्रेयी येनाहम् नामृतास्याम् किमहम् तेन कुर्याम् यदेवेह भगवान् वेद तदेव मे ब्रूही*(बृह.४-४-२)ति । मम अमृत-त्वप्राप्त्यनुपायभूतेन वित्तेन अहम् किम् करिष्यामि भवान् यदमृतत्वप्रा-प्त्युपायम् वेद तदेव मे ब्रूहीत्यर्थः । *स होवाच याज्ञवल्क्यः न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवति*(बृह.४-४-५) *न वा*(बृह.४-४-५)इत्यत्र वैशब्दोऽवधारणे नैवेत्यर्थः पत्युःकामाय कामः – सङ्कल्पः सङ्कल्पम् सफलीकर्तुमित्यर्थः *क्रियार्थो- पपदस्य च कर्मणि स्थानिन*(अष्टा.१-३-१४) इति चतुर्थी । तथा च अरे हे मैत्रेयि पत्युः प्रियत्वम् अहमस्याः प्रियस्स्यामिति पतिसङ्कल्प-साफल्याय नैव भवति पतिसङ्कल्पायत्तम् न भवतीति यावत् । *वेदा- ध्ययनम् सफलीकर्तुम् यज्ञ* इत्युक्ते वेदाध्ययनस्य यज्ञः फलमिति सिध्यति । एवम् सङ्कल्पसाफल्याय प्रियत्वमित्युक्ते सङ्कल्पफलम् प्रियत्वमिति सिध्यति । ततश्च अहमस्याः प्रियस्स्यामिति पतिस्सङ्क-ल्पयन्नपि न स तस्याः प्रियो भवति । परमात्मनस्सङ्कल्पात् पतिः पत्न्याः प्रियो भवतीत्यर्थः । *आत्मनस्तु कामाये*(बृह.४-४-५)त्यत्रापि पूर्ववच्चतुर्थी । एवम् जायापुत्रादिपर्यायेष्वपि द्रष्टव्यम् ।

*आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः*(बृह. ४-५-६) । तस्मात् पतिजायादीनाम् प्रियत्वम् यत्सङ्कल्पायत्तम् तस्य परमात्मनः प्रसादाय परमात्मा द्रष्टव्यः स हि परमात्मा दर्शनेन प्रसन्न- स्सन् सर्वेषामपि वस्तूनाम् पतिजायादिवत् ततोऽधिकम् वा प्रियत्वमा-पादयितुम् शक्नोति । *न पश्यो मृत्युम् पश्यति न रोगम् नोत दुःख-तामि*(छान्.७-२६-२)ति मुक्तौ सर्वेषाम् प्रियत्वश्रवणादिति भावः । अत्र स्वाध्यायस्य अर्थपरत्वे अधीतवेदः पुरुषः प्रयोजनवदर्थदर्शनात्तन्निर्णयाय स्वयमेव गुरुमुखात् न्याययुक्तार्थग्रहणलक्षणश्रवणे प्रवर्तत इति श्रवणस्य प्राप्तत्वात् *श्रोतव्य*(बृह.४-५-६) इत्यनुवादः। स्वात्मन्येवमेवेति युक्तिभिः ज्ञातार्थप्रतिष्ठापनलक्षणमननस्य श्रवणप्रतिष्ठार्थतया प्राप्तत्वात् *मन्तव्य* (बृह.४-५-६)इति चानुवादः । अतोऽनवरतभावनारूपम् ध्यानमेव *निदि-ध्यासितव्य*(बृह.४-५-६)इति विधीयते । उपायदशाप्रभृति भगवद्ध्यान- स्यानुकूलत्वसूचनाय *निदिध्यासितव्य* इति सन्नन्तपदेन निर्देशः ।
अत्र *स्मृतिलम्भे सर्वग्रन्थीनाम् विप्रमोक्ष*(छान्.७-२६-२) इति ध्यान-स्यैव मोक्षम् प्रत्यव्यवहितहेतुत्वश्रवणात् *क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावर*(मुण्ड.३-१-८) इति दर्शनस्यापि मोक्षाव्यवहितकार-णत्वश्रवणात् उभयोरेकार्थत्वस्य वक्तव्यत्वात्, चाक्षुषज्ञानवाचितया दृशि-घातोश्चाक्षुषज्ञानस्य च *न चक्षुषा गृह्यत*(मुण्ड.३-२-८) इत्यचाक्षुष-ज्ञानवेद्ये ब्रह्मणि विधातुमसम्भवात्, *द्रष्टव्य*(बृह.४-५-६) इति दर्शन-शब्देन उपचारात् दर्शनसमानाकारमिति विशदतमज्ञानमभिधीयते । ततश्च द्रष्टव्यो निदिध्यासितव्य इत्याभ्याम् दर्शनसमानाकारत्व- विशिष्टम् ध्यानम् विधीयते । *आर्षेयम् वृणीते एकम् वृणीते द्वौ वृणीते त्रीन्वृणीते न चतुरो वृणीते न पञ्चातिवृणीत*(जै.मी.सू.६-१-४३.अधि.१०) इत्यत्र *आर्षेयम् वृणीते त्रीन् वृणीत*(जै.मी.सू.६-१-४३.अधि.१०) इत्याभ्याम् त्रित्वविशिष्टार्षेयवरणविधानवदिति द्रष्टव्यम् । अत्र निदि-ध्यासितव्यतया निर्दिष्टस्य परमात्मनो जगत्कारणत्वम् लक्षणमाह -*मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदम् सर्वम् विदितम् भवती*(बृह.४-४- ५)ति। उपादानोपादेययोरभेदात् तस्मिन्ना-त्मनि ज्ञाते सर्वम् विदितम् भवतीत्यर्थः । अत्र इदम् सर्व*(बृह.४-४-५) शब्दौ स्थूलावस्थ-चिदचिद्विशिष्टब्रह्मपरौ । आत्मशब्दोऽपि सूक्ष्म-चिदचिद्विशिष्टब्रह्मपरः । अतस्तयोरभेदात् तद्विज्ञानेन सर्वम् विज्ञातमि-त्युपपद्यते । अनेन जगदुपादानत्वमुक्तम् भवति । अत्र *निदिध्यासि-तव्य*(बृह.६-५-६) इत्युक्त्या सर्वोपादानत्वकथनात् जगत्कारणत्वम् सकलपरविद्या-नुयायीत्युक्तम् भवति । ननु कथमात्मनि विज्ञाते सर्व-मिदम् विज्ञातम् स्यात् जगतस्तद्भिन्नत्वादित्याशङ्क्याह – *ब्रह्म तम् परादाद्योऽन्य- त्रात्मनो ब्रह्म वेद*(बृह.६-५-७) ब्राह्मणवर्णः यस्त्वधिकारी ब्राह्मणवर्णम् आत्मनोऽन्यत्र परमात्मनोऽन्यत्र स्थितम् न तु परमात्मनि स्थितम् अब्रह्मात्मकम् स्वनिष्ठम् वेद – जानीयात् तम् ब्रह्म स ब्राह्मणवर्ण एव परादात् – पराकुर्यात् अभिभवेत् । आत्मनोऽन्यत्वेन अब्रह्मात्मकत्वे-नावगतो ब्राह्मणवर्ण एवम् सम्सारयतीत्यर्थः ।
ननु सर्वस्य ब्रह्माधारकतया ब्रह्मात्मकत्वेऽपि ब्रह्मात्मकस्य शरीर-भूतस्य जगतः शरीरिभूतब्रह्मापेक्षया भिन्नत्वेन तथाविधब्रह्मज्ञानेन सर्वज्ञानाऽसम्भवमाशङ्क्य *आत्मनि खल्वरे दृष्टे श्वते मते विज्ञाते इदम् सर्वम् विदितम् भवती*(बृह.६-५-६)ति इदम् सर्वमिति शब्दाभ्याम् अन्वैरपि शब्दैः तत्तच्छरीरकम् ब्रह्मैव अभिधीयत इत्यभि-प्रेत्याह – *इदम् ब्रह्मेदम् क्षत्रमिमे लोका इमे देवा इमानि भूतानीदम् सर्वम् यदयमात्मा*(बृह.६-५-७) । ततश्च आत्मनि विज्ञाते इदम् सर्वम् विदितम् भवति – सर्वशरीरकम् ब्रह्म विदितम् भवतीत्यर्थ उपपद्यत इति भावः। सामान्येनोक्तम् जगत्कारणत्वम् दृष्टान्तबलेन अभिन्ननिमित्त-मिति सूचयन् प्रपञ्चयति – *स यथाऽर्दैधाग्नेरभ्या-हितात्पृथग्धूमा विनिश्चरन्ति । एधशब्दः अकारान्तः इन्धनवाचौ अग्निर्हि धूमोत्पत्तौ निमित्तम्, इन्धनन्तूपादानम् अभ्याहितात् आध्मानवीजनादिना प्रवर्ति-तादित्यर्थः पृथग्विधा धूमाः विनिश्चरन्ति – निर्गच्छन्तीत्यर्थः । *एवम् वा अरेऽस्य महतो भूतस्य निश्वसितमेतत्*(बृह.६-५-१९) निश्वासवदना-यासेनैव उद्गतम् एतत् – वक्ष्यमाणमित्यर्थः किम् तदित्याह – *ऋग्वेद* (बृह.६-५-१९) इत्यादिना । सर्वावस्थास्वपि जीवस्वरूपस्य परमात्मनिष्ठ-तथा स्वातन्त्र्या- भावज्ञापनाय जीववाचिशब्देन परमात्मानम् निर्दिशन् अमृतत्वोपाय-प्रवृत्तिप्रोत्साहनाय भूतसङ्घात्मकशरीरजन्म मरणानु-विधायिनः सम्सरतो जीवस्याऽपरिच्छिन्नज्ञानैकाकारतामुपपादयति – *स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायैव स्याद्यतो यतस्त्वा- ददीत लवणमेव*(बृह.६-५-१२) सैन्धवखिल्य: लवण-खण्डः उदके प्रक्षिप्तः उदकमनुप्रविश्य विलीयत एव । अस्य विलीनस्य लवणस्य उद्ग्रहणाय उदकात् पृथक्कृत्य ग्रहीतुम् यथा नैव कोऽपि शक्तस्स्यात् । तत्तोऽयम् लवणमयमेव भवति । *एवम् वा अरे इदम् महद्भूतमनन्तमपारम् विज्ञा-नघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्ये-वानुविनश्यति*(बृह.६-५-१२) एवमेवेदम् अनन्तम् अपरिच्छेद्यमपारम् गुणतोऽप्यपरिच्छेद्यम् ब्रह्म विज्ञानघन एव जीवशरीरकतया भूतेष्व-नुप्रविश्य भूतेषूत्पद्यमानेषु स्वय-मुत्पद्यमनः तेषु नश्यत्सु अनु पश्चात् स्वयम् नश्यति नश्यतीत्यर्थः । देहोत्पत्तिविनाशानुविधाय्युत्पादविनाश-वान्भवतीति यावत् । विनाशो नाम अत्यन्तज्ञानसङ्कोच: उत्पत्तिर्नाम विकासप्रादुर्भावः । *न प्रेत्य सञ्ज्ञास्ती*(बृह.६-५-१३)ति प्रेत्य चरम-देहवियोगम् प्राप्य मोक्ष-दशायाम् स्वाभाविकापरिच्छिन्न ज्ञानस्य सङ्कोचाभावेन न सञ्ज्ञास्ति समित्येकीकारे ज्ञाघातोः ज्ञानमर्थः ततश्च भूतसङ्घातेनैकीकृत्य ज्ञानम् सञ्ज्ञाशब्दार्थ: आमोक्षम् देहभ्रमोऽनुवर्तत इति भावः । न च *महद्भूत-मनन्तमपार*(बृह.६-५-१२)मिति निर्दिष्ट-ब्रह्मणो विज्ञानघनत्वात् *समु- त्थाय तान्येवनुविनश्यती*(बृह.६-५-१२)ति जीवत्वसम्सारित्वावेदनम् मुख्यमेवास्त्विति वाच्यम् । *निरवद्यो निरनिष्ट*(नृसिम्ह.ता.उ.) इत्यादि श्रुतिप्रतिपन्नस्य परमात्मनः सम्सारि-त्वासम्भवात् मोक्षधर्मे जनकयाज्ञ-वल्क्यसम्वादे *अन्यश्च राजन् स परस्तथाऽन्यः पञ्चविम्शकः । तत्स्थ- त्वादनुपश्यन्ति ह्येक एवेति साधवः*( महाभारतम्.शान्तिपर्वः.मोक्ष-धर्मः) इति शरीरशरीरिणोर्भेदेऽपि शरीरान्तस्स्थितस्य शरीरिण एकत्वात् *अयमेकः पुरुष* इति व्यवहा-रवत् अन्तरवस्थितिनिबन्धनप्रकार्यैक्य- विषयोऽभेदव्यवहार इति वक्तुम् शक्यत्वात् । ततश्च जीवस्य परमात्म- शरीरतया तद्वाचिना विज्ञानघन-शब्देन परमात्मनोऽभिधानम् तद्धर्मभूतो-त्पत्तिविनाशादिधर्मवत्त्वकथनञ्च न विरुद्धमिति द्रष्टव्यम्। न च विज्ञान- घनशब्देन परमात्मवाचित्वम् परित्यज्य जीववाचित्वमाश्रित्य जीवशरी-रकपरमात्माभिधानाश्रयणम् किन्निबन्धनमिति वाच्यम् । परमात्मनः स्वरूपेणोत्थानविनाशा- सम्भवात् जीवरूपेणोत्थानविनाशयोः वक्तव्यत्वेन जीववाचिपदस्य कस्यचिदावश्यकत्वात् अन्यस्य चाभावात् विज्ञानघनशब्दस्य जीववाचि-त्वसम्भवाच्च विज्ञानघनशब्देन जीवशरीरकपरमात्माऽभिधीयत इत्युक्तौ विरोधाभावात् । *सा होवाच मैत्रेयी अत्रैव मा भगवानमूमुहत् न प्रेत्य सञ्ज्ञाऽस्तीति*(बृह.६-४-१३) । *न प्रेत्य सञ्ज्ञास्ती*(बृह.६-५-१३)ति वाक्य एव *भगवान् माममूमुहत्*(बृह.६-४-१३)। *मुरेर्णौ छन्दसि*  – मोहयतिस्मेत्यर्थः । विज्ञानघन-शब्दितस्य ज्ञानैकाकारस्य आत्मनः मुक्तौ सञ्ज्ञाभावः विरुद्ध इति मोहो मे सम्वृत्त इति भावः । यद्यपि सञ्ज्ञाशब्दो देहात्मैक्यभ्रान्तिपर इति न विरोधः, तथापि तदभिप्रा- यानभिज्ञानात् मुह्यन्ती मैत्रेयी एवमुक्तवतीति द्रष्टव्यम् । *न वा अरेऽहम् मोहम् ब्रवीम्यलम् वा अर इदम् विज्ञानाय*(बृह.६-५-१४) *न प्रेत्य सञ्ज्ञास्ती*(बृह.६-५-१३)ति नाहम् मोहकम् वचो ब्रवीमि । इदम् विज्ञान-घनशब्दितम् महद्भूतम् पूर्वनिर्दिष्टम् प्रेत्यापि विज्ञानाय अलमेव ज्ञातुम् पर्याप्तमेवेत्यर्थः । ततश्च मुक्तौ सर्वज्ञतया सर्वम् पश्यत एव सतो विज्ञानघनस्य मया पूर्वनिर्दिष्टसञ्ज्ञाभावः देहात्मैक्यविषयकभ्रान्त्य-भावनिबन्धन एवेति भावः । एवम् मुक्तौ देहात्मभ्रमनिवृत्तिम् कृत्वा स्वनिष्ठताभ्रमनिवृत्तिम् प्रतिपाद-यति – *यत्र हि द्वैतमिव भवती*(बृह.६-५-१५)त्यादिना ।

अत्र चिन्त्यते – उपक्रमे पतिजायापुत्रवित्तादि प्रियसम्बन्धित्वलक्षण-जीवलिङ्गकीर्तनातू, मध्ये च *विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यती*(बृह.६-५-१३)ति देहानुबन्धिजननमरणलक्षणजीव-लिङ्गप्रतिपादनात्, अन्ते च *विज्ञातारमरे केन विजानीयादि*(बृह.६-५-१५)ति विज्ञातृत्वरूपजीवलिङ्गकीर्तनाच्च कृत्स्नमपि प्रकरणम् जीव-परमेव । परमात्मलिङ्गानि तु कथञ्चिन्नेयानीति पूर्वपक्षे प्राप्त उच्यते –

वाक्यान्वयात् ॥ १-४-१९ ॥

कृत्स्नस्य वाक्यसन्दर्भस्यान्वयः परमात्मन्येवोपपद्यते, नान्यत्र । तथाहि – *अमृतत्वस्य तु नाशास्ति वित्तेने*(बृह.६-५-४)ति याज्ञवल्क्ये-नाभिहिते *येनाहम् नामृता स्याम् किमहम् तेन कुर्यामि*(बृह.६-५-४)ति अमृतत्वोपायमात्रार्थिन्यै मैत्रेय्यै *आत्मा वा अरे द्रष्टव्य’*(बृह.६-५-६) इति द्रष्टव्यत्वेनोपदिष्टस्यात्मनः परमात्मत्वमेवाभ्युपगन्तव्यम् । आख्यायिकाया विद्यागतविशेषप्रतिपादनोपयुक्तत्वस्य पुरुषार्थपादे
समर्थयिष्यमाणत्वात् । ततश्च उपक्रमगताख्यायिकावशात् परमात्म-परत्वमेवास्य प्रकरणस्य । तथा *अस्य महतो भूतस्य निश्वसित-मेतत्*(बृह.६-५-११) *आत्मनो वा अरे दर्शनेन श्रवणेने*(बृह.४-४-५) त्यादिना प्रतीयमानम् सर्वोपादानत्वम्, *ब्रह्म तम् परादादि*(बृह.६-५-६) त्यादिना प्रतीयमानम् सार्वात्म्यञ्च, न परमात्मनोऽन्यत्र सम्भवति । यदुक्तम् पतिजायापुत्रादिसम्बन्धित्वकीर्तनम् जीवलिङ्गमिति तन्न । तस्य वाक्यस्य परमात्मानुगुणतया अर्थवर्णनोपपत्तेः तद्वर्णनप्रकारश्च पूर्वमेव प्रदर्शितः ।

नन्वेवम् *विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाये*(बृह.६-५-१३)ति जीववाचिविज्ञानघनशब्देन कथम् परमात्मनोऽभिधानम्, उत्पादविना-शादिजीवलिङ्गानाम् च कथम् परमात्मनि समन्वय इति चेत् तत्राह –

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ १-४-२० ॥

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाक्षिप्तोपादानोपादेयभावलब्धाभेद-सूचकम् जीवधर्माणाम् तत्र कीर्तनमिति आश्मरथ्य आचार्यो मन्यते ॥

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ १-४-२१ ॥

*आमुक्तेर्भेद एव स्यात् जीवस्य च परस्य च । मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावत्* इत्युक्तरीत्या मुक्तिदशायाम् भाव्य-भेदमाश्रित्य परमात्मनि जीवधर्माभिधानमुपपद्यत इति औडुलोमिराचार्यो मन्यते ॥

अवस्थितेरिति काशकृत्स्नः ॥१-४-२२॥

जीवे परमात्मनः अन्तर्यामितयाऽवस्थितेः आकृत्यधिकरणन्यायेन शरीरभूतजीववाचिशब्दैः शरीरिणः परमात्मनः अभिधानसम्भवात्, शरीर-भूतजीवधर्माणाम् शरीरिणि परमात्मन्युपपत्तेश्च, जीवश्रुतिलिङ्गानाम् परमात्मनि नानुपपत्तिरिति काशकृत्स्नाचार्यो मन्यते । अत्र काश-कृत्स्नीयम् मतमेव आचार्यस्य सम्मतम्, तदुपरि पक्षान्तरानुप-न्यासात् आश्मरथ्यौडुलोमिमतयोर्दुष्टत्वाच्च । उपादानोपादेययोः भेदाभेद-वाद्याश्मरथ्यमतम् जैनमतप्रतिक्षेपादेव प्रतिक्षिप्तमिति द्रष्टव्यम् ॥

इति वाक्यान्वयाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.