सर्वापेक्षाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ सर्वापेक्षाधिकरणम् ॥ ५ ॥    यदि ब्रह्मविद्या यज्ञाद्यनपेक्षा तदा गृहस्थेष्वपि सा अग्नीन्धना-द्यनपेक्षैव । न च विविदिषा वाक्यात् यज्ञादीनाम् तादर्थ्यप्रतीतिरिति वाच्यम् । तेनैव वाक्येन यज्ञादीनाम् विविदिषार्थत्वोपलम्भेऽपि विद्यार्थत्वाप्रतीतेरिति पूर्वपक्षे प्राप्त उच्यते । सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ३-४-२६ ॥ सिद्धान्तस्तु – यथा गमनसाधनभूतोऽश्वः परिकरबन्धसापेक्षः तथा गृहस्थेषु विद्या यज्ञादिसर्वकर्मापेक्षैव […]

आग्नीन्धनाद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ आग्नीन्धनाद्यधिकरणम् ॥ ४ ॥ ऊर्ध्वरेतसः यज्ञाद्यभावात् तदङ्गिका विद्या न सम्भवतीति पूर्वपक्षे प्राप्त उच्यते –   अत एव चाग्नीन्धनाद्यनपेक्षा ॥३-४-२५॥ *एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति*(बृह.६-४-२२) *यदिच्छन्तो ब्रह्मचर्यञ्चरन्ति*(कठ.१-२-१५) *ये चेमेऽरण्ये श्रद्धाम् तप इत्युपासते*(छान्.५-१०-१) इति वाक्यैः ऊर्ध्वरेतस्सु ब्रह्मविद्यायाः प्रमाण-प्रतिपन्नत्वात् तेषु ब्रह्मविद्या अग्नयाधानलक्षणाग्निपूर्वकाग्निहोत्राद्यन-पेक्षैव । इति अग्नीन्धनाद्यधिकरणम् ॥

पारिप्लवाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ पारिप्लवाधिकरणम् ॥ ३ ॥ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ ३-४-२३ ॥    वाजसनेयके – *अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुरि*(बृह.६-५-२)त्याद्याख्यानानाम् *सर्वाण्याख्यानानि पारिप्लवे शम्सन्ती* ति अश्वमेधगतपारिप्लवनामकशम्सने विनियुक्तत्वात् पारिप्लवार्थान्या ख्यानानि न तु विद्योपयोगीनीति चेन्न – विशेषितत्वात् । न सर्वाण्या-ख्यानानि पारिप्लवार्थानि भवितुमर्हन्ति । *सर्वाण्याख्यानानि पारिप्लवे शम्सन्ती*ति विधाय *मनुर्वैवम्वतो […]

स्तुतिमात्राधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ स्तुतिमात्राधिकरणम् ॥२॥ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ३-४-२१ ॥ *स एष रसानाम् रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथ* (छान्.१-१-३)इति वाक्यानि क्रत्ववयवोद्गीथादिस्तुतिमात्रपराणि वा उद्गीथादिषु रसतमत्वादिदृष्टिविधायकानि वेति चिन्तायाम् क्रत्वङ्गभूतोद्गीथादि-ग्रहणपूर्वकम् रसतमत्वकथनात् *इयमेव जुहूः स्वर्गो लोक आहवनीय*   इत्यस्य जुह्वादीनाम् पृथिव्यादित्वप्रतिपादकस्य स्तुतिपरत्ववत् *स एष रसानाम् रसतम*(छान्.१-१-३) इति वाक्यस्यापि स्तुतिमात्र-परत्वमिति चेन्न अपूर्वत्वात् – अप्राप्तत्वात् । […]

पुरुषार्थाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ पुरुषार्थाधिकरणम् ॥ १ ॥ पुरुषार्थोऽतश्शब्दादिति बादरायणः ॥ ३-४-१ ॥    गुणोपसम्हारानुपसम्हारसिद्धिहेतुभूता विद्यैकत्वनानात्वचिन्ता कृता । इदानीम् कर्माङ्गिकया विद्यया पुरुषार्थो वा, विद्याङ्गकात्कर्मण इति वेति चिन्तायाम् *ब्रह्मविदाप्नोति परम्*(तै.आन.१ अनु) *तमेवम् विद्वानमृत इह भवती*(पुरुषसूक्तम्)त्यादिश्रुतिभिः विद्ययैव पुरुषार्थ इति बादरायण आचार्यो मन्यते । अथ पूर्वपक्षिमतम् – शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥ ३-४-२ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.