मुक्तिफलाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ मुक्तिफलाधिकरणम् ॥१५॥    *यक्षानुरूपो बलिरि*ति न्यायेन बलवत्कर्मसाध्यानाम् मुक्तिफलक-ब्रह्मोपासनानाम् प्रबलकर्मान्तरप्रतिबन्धासम्भवात् नियतैहिकत्वमेवेति पूर्वपक्षः । सिद्धान्तस्तु एवम् मुक्तिफलानियमस्तदवस्थावधृते– स्तदवस्थावधृतेः ॥ ३-४-५१ ॥ मुक्तिफलकविद्यानामपि ऐहिकत्वनियमो नास्ति, अप्रस्तुतप्रतिबन्ध-त्वरूपावस्थाया अविशेषेण तत्राप्यवधृतत्वात् । तत्रापि प्रबलानाम् ब्रह्म-विदपचारादिप्रतिबन्धकानाम् सम्भवात् । द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥ इति मुक्तिफलाधिकरणम् ॥ ***** श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयःपादः ॥ तृतीयोऽध्यायस्समाप्तः ॥ *****

ऐहिकाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ ऐहिकाधिकरणम् ॥१४॥    मुक्तिव्यतिरिक्तफलकोपासनानामुद्गीथविद्यारहितयज्ञादिकर्मनिष्पाद्या-नामपि यज्ञादि रूपसाधननिष्पत्तौ सत्याम् विळम्बे हेत्वभावात् इह जन्मन्येव निष्पत्तिरिति पूर्वपक्षः – सिद्धान्तस्तु ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ३-४-५० ॥ मुक्तिव्यतिरिक्तफलकमुपासनम् अप्रस्तुतप्रतिबन्धे प्रतिबन्धाभावे ऐहिकम् इहैव जन्मनि सम्भवति । सति प्रतिबन्धे जन्मान्तरे । न च प्रतिबन्धासम्भवश्शङ्कनीयः । *यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरम् भवती*(छान्.१-१-१०)ति उद्गीथविद्यायाः प्रबलकर्मान्तरा-प्रतिबद्धफलत्वावेदनेन […]

अनाविष्काराधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ अनाविष्काराधिकरणम् ॥ १३ ॥ *बाल्येन तिष्ठासेदि*(बृह.५-५-१)त्यत्र बाल्यशब्दस्य भावकर्म-साधारणत्वेऽपि वयोविशेषलक्षण बालभावस्य इच्छया सम्पादितुम-शक्यत्वेनाविधेयत्वात् कर्मैव विधेयम् । तत्र कामचारकाम वादका-मभक्षत्वादिकम् यद्बालस्य कर्म यच्च डम्भादिराहित्यलक्षणम् स्वमाहात्म्यानाविष्करणरूपम् कर्म तत्सर्वम् बाल्यशब्देन विधेयम्, अविशेषात् । न च निषिद्धस्य कामचारादेर्विधानमयुक्तमिति वाच्यम् । वामदेव्योपासनाङ्गतया प्रार्थयमानसर्वयोषिदपरिहारलक्षणनिषिद्धकर्म-विधानवद्विद्याङ्गतया निषिद्धस्यापि कामचारादेर्विधानसम्भवादिति पूर्वपक्षे प्राप्ते उच्यते – अनाविष्कुर्वन्नन्वयात् ॥ ३-४-४९ […]

सहकार्यन्तरविध्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ सहकार्यन्तरविध्यधिकरणम् ॥ १२ ॥    *तस्माद्ब्राह्मणः पाण्डित्यम् निर्विद्य बाल्येन तिष्टासेद्वाल्यञ्च पाण्डि-त्यञ्च निर्विद्याथ मुनिरि*(बृह.५-५-१)त्यत्र मुनिशब्देन पाण्डित्यशब्द-विहितम् ज्ञानमेवानूद्यते, न ततोऽर्थान्तरम् ज्ञानम् विधीयते, प्रमाणा-भावादिति पूर्वपक्षे प्राप्त उच्यते – सहकार्यन्तरविधिः पक्षेण तृतीयम् तद्वतो विध्यादिवत् ॥३-४-४६॥ विधीयत इति कर्मसाधनो विधिशब्दः । सहकार्यन्तरञ्च तद्विधिश्च सहकार्यन्तरविधिः । तद्वत: विद्यावतस्तृतीयम् बाल्यपाण्डित्यापेक्षया तृतीयम् मौनम् […]

स्वाम्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ स्वाम्यधिकरणम् ॥ ११ ॥ स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ३-४-४४ ॥ ऋत्विक्परिक्रयस्याङ्गानुष्ठानमात्रार्थत्वादङ्गावबद्धोपासननाञ्च *तन्नि  र्धारणानियमस्तद्रुष्टेः पृथग्घ्यप्रतिबन्धःफलमि*(ब्र.सू.३-३-४१)ति सूत्रो-क्तन्यायेनानङ्गत्वात् *शास्त्रफलम् प्रयोक्तरी*ति न्यायेन यजमानगामि-फलसाधनभूतोपासनस्य यजमानेनैव कर्तव्यत्वात् । *गोदोहनेन पशु-कामस्य प्रणयेत्*  इति श्रुतपश्चर्थगोदोहनादेरनङ्गत्वेऽपि ऋत्विक्कर्तृकप्रणयननिर्वर्तकस्य गोदोहनस्य यजमानेनोपादातुमशक्य-तयार्त्विक्कर्तृकत्वेऽप्युद्गातृकर्तृक उद्गीथे यजमानस्योपासनसम्भवादु-पासनम् याजमानमेव । औद्गात्रसमाख्यानम् तु *शास्त्रफलम् प्रयोक्तरी* ति न्यायेन विरोधादुपेक्षणीयम् । अतः फलस्य स्वामिगतत्वात्फल-स्वामियजमानकर्तृकमेवोपासनमिति पूर्वपक्षे […]

तद्भूताधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ तद्भूताधिकरणम् ॥ १० ॥    नैष्ठिकवैखानसपरिव्राजकानाम् स्वाश्रमेभ्यः प्रच्युतानामपि विधुरा-दिवत् जपादिभिः विद्यानुग्रहसम्भवात् अस्त्यधिकार इति पूर्वपक्षे प्राप्त उच्यते – तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः॥३-४-४०॥ तुशब्दः पक्षव्यावृत्त्यर्थः । तद्भूतस्य नैष्ठिकादिभूतस्य अतथाभावः प्रच्युत्य स्थितिः न सम्भवत्येव । कुतः – तद्रूपनिवृत्तिभ्यश्शास्त्रै- र्नियमात् । नियच्छन्ति हि शास्त्राणि *अत्यन्तमात्मानमाचार्यकुले-ऽवसादयन्नि*(छान्.२-२३-१)ति नैष्ठिकब्रह्मचारिणम्, *अरण्यमियात्ततो न […]

विधुराधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ विधुराधिकरणम् ॥ ९ ॥ अनाश्रमिणाम् विधुरादीनामाश्रमधर्माभावात्तदङ्गिका विद्या न सम्भ-वतीति पूर्वपक्षे प्राप्त उच्यते – अन्तरा चापि तु तद्दृष्टेः ॥ ३-४-३६ ॥ तुशब्दः पक्षव्यावर्तकः । चशब्दोऽवधारणे । आश्रमानन्तरावर्तमा-नानाम् अनाश्रमिणामिति यावत् । तेषामपि विद्यायामधिकारोऽस्त्येव ।  तादृशानामपि भीष्मरैक्वसम्वर्तादीनाम् ब्रह्मविद्यादर्शनात्, *यज्ञेन दानेन तपसाऽनाशकेने*(बृह.६-४-२२)ति आश्रमानियतदानतप आदिभिरपि विद्यानुग्रहस्य श्रुतत्वात् ॥ अपि स्मर्यते […]

विहितत्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ विहितत्वाधिकरणम् ॥८॥ विहितत्वाच्चाश्रमकर्मापि ॥ ३-४-३२ ॥ *यावज्जीवमग्निहोत्रम् जुहोती*(शाबरे आप.श्रौत.३-१४-८)ति नित्यतया विहितानामाग्निहोत्रादीनामनित्यकामनाविषयब्रह्म-विद्यार्थत्वे नित्यानित्यसम्योगविरोधात् आश्रमकर्मापेक्षया विद्यार्थानि कर्माणि भिन्नानीति पूर्वपक्षे प्राप्ते यथैकस्यैव खदिरत्वस्य *खादिरो यूपो भवति*(शा.बा.३-६-२-१२) *खादिरम् वीर्यकामस्य यूपम् कुर्यादि*  ति वचनद्वयेन क्रतौ फले च पृथग्विनियोगदर्शनात् क्रत्वर्थतया नित्य-स्यापि खदिरत्वस्यानित्यकामनाविषयवीर्यार्थत्वाविरोधः तद्वत् *यावज्जीवमग्निहोत्रम् जुहोती*( शाबरे आप.श्रौत.३-१४-८) ति नित्यतयाऽग्निहोत्रादीनाम् विहितत्वादाश्रमकर्मत्वमप्यस्ति । […]

सर्वान्नानुमत्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ सर्वान्नानुमत्यधिकरणम् ॥ ७ ॥     न ह वा एवम् विदि किञ्चनानन्नम् भवती*(छान्.५-२-१)ति छान्दोग्ये *न ह वास्यानन्नम् जग्धम् भवती*(बृह.८-१-१४)ति वाज-सनेयके च श्रवणाद्वामदेव्योपासनानिष्ठस्य प्रार्थयमानसर्वयोषिदपरिहारा-नुमतिवत् सर्वान्नानुमतिः प्राणविद्यानिष्ठस्य सर्वदा क्रियत इति पूर्वपक्षे प्राप्त उच्यते – सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ ३-४-२८ ॥ प्राणात्यय एव प्राणविदस्सर्वान्नानुज्ञानम् न सर्वदा । ब्रह्मविदो-ऽप्युषस्तेः प्राणात्यय […]

शमदमाद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ शमदमाद्यधिकरणम् ॥६॥     गृहस्थस्य बाह्याभ्यन्तरकरणव्यापाररूपकर्मानुष्ठानस्यावश्यक्त्वात् शमादीनाञ्च तद्विपरीतत्वात् नानुष्ठेयत्वमिति प्राप्त उच्यते – शमदमाद्युपेतस्स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ ३-४-२७ ॥ तथाऽपि गृहस्थस्य कर्मानुष्ठानावश्यकत्वेऽपि गृहस्थश्शमदमाद्युपेत-स्स्यात् । *तस्मादेवम् वित् शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानम् पश्येदि*(बृह.६-४-२३)ति विद्याङ्गतया विधानात् अशान्तचित्तस्य चित्तविक्षेपेण विद्यानिष्पत्त्यसम्भवेन दृष्टार्थतया अनुष्ठेय-त्वाच्च । न च कर्मणाम् शमादीनाम् च विरोधः भिन्नविषयत्वात् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.