स्वाम्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥

स्वाम्यधिकरणम् ॥ ११ ॥


स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ३-४-४४ ॥

ऋत्विक्परिक्रयस्याङ्गानुष्ठानमात्रार्थत्वादङ्गावबद्धोपासननाञ्च *तन्नि  र्धारणानियमस्तद्रुष्टेः पृथग्घ्यप्रतिबन्धःफलमि*(ब्र.सू.३-३-४१)ति सूत्रो-क्तन्यायेनानङ्गत्वात् *शास्त्रफलम् प्रयोक्तरी*ति न्यायेन यजमानगामि-फलसाधनभूतोपासनस्य यजमानेनैव कर्तव्यत्वात् । *गोदोहनेन पशु-कामस्य प्रणयेत्*  इति श्रुतपश्चर्थगोदोहनादेरनङ्गत्वेऽपि ऋत्विक्कर्तृकप्रणयननिर्वर्तकस्य गोदोहनस्य यजमानेनोपादातुमशक्य-तयार्त्विक्कर्तृकत्वेऽप्युद्गातृकर्तृक उद्गीथे यजमानस्योपासनसम्भवादु-पासनम् याजमानमेव । औद्गात्रसमाख्यानम् तु *शास्त्रफलम् प्रयोक्तरी* ति न्यायेन विरोधादुपेक्षणीयम् । अतः फलस्य स्वामिगतत्वात्फल-स्वामियजमानकर्तृकमेवोपासनमिति पूर्वपक्षे प्राप्ते सिद्धान्तः उच्यते –

आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ३-४-४५ ॥

उपासनान्यपि ऋत्विक्कर्माण्येव स्युः । प्रयोगाङ्गस्यर्त्विजः प्रयोगा-न्तःपात्युद्गीथाद्युपासनेऽपि कर्तृत्वसम्भवात् । *तगूँ ह बको दाल्भ्यो विदाञ्चकार स ह नैमिषीयाणामुद्गाता बभूव स ह स्मैभ्यः कामाना-गायति*(छान्.१-२-१३) इत्युद्गातृदाल्भ्यगतविद्याया यजमानकाम-सम्पादकत्वदर्शनलिङ्गाच्चर्त्विक्कर्तृकमेवोपासनम् । न चर्त्विक्कर्तृको-पासनस्य फलमृत्विग्गतमेव स्यादिति शक्यशङ्कम् । ऋत्विजाम् परार्थतया तेषाम् वचनमन्तरेण फलसम्बन्धानुपपत्तेः । *याम् वै काञ्चन यज्ञ ऋत्विज आशिषमाशासते यजमानायैवैतामाशिषमाशासते*   इति श्रुतेश्च *तस्मादु हैवम्विदुद्गता ब्रूयात् कम् ते काममागा-यानीति*(छान्.१-७-७-८) इति ऋत्विग्गतविज्ञानस्य यजमानगामिफल-कत्वावेदनलिङ्गाच्च न *शास्त्रफलम् प्रयोक्तरीति न्यायावतारः । ततश्च परिक्रयविधिबलादुत्सृष्टस्यर्त्विक्कर्तृकस्य याजमानसमाख्यापादका भावाल्लिङ्गानुग्रहादौद्गात्रसमाख्यानाच्चार्त्विज्यमेवोपासनमिति ॥

 

इति स्वाम्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.