सहकार्यन्तरविध्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥

सहकार्यन्तरविध्यधिकरणम् ॥ १२ ॥

   *तस्माद्ब्राह्मणः पाण्डित्यम् निर्विद्य बाल्येन तिष्टासेद्वाल्यञ्च पाण्डि-त्यञ्च निर्विद्याथ मुनिरि*(बृह.५-५-१)त्यत्र मुनिशब्देन पाण्डित्यशब्द-विहितम् ज्ञानमेवानूद्यते, न ततोऽर्थान्तरम् ज्ञानम् विधीयते, प्रमाणा-भावादिति पूर्वपक्षे प्राप्त उच्यते –

सहकार्यन्तरविधिः पक्षेण तृतीयम् तद्वतो

विध्यादिवत् ॥३-४-४६॥

विधीयत इति कर्मसाधनो विधिशब्दः । सहकार्यन्तरञ्च तद्विधिश्च सहकार्यन्तरविधिः । तद्वत: विद्यावतस्तृतीयम् बाल्यपाण्डित्यापेक्षया तृतीयम् मौनम् विद्यायास्सहकार्यन्तरम् विधीयत इत्यर्थः । न च मुनिशब्दार्थस्य पाण्डित्यशब्देनैव प्राप्तत्वाद्विधेयत्वानुपपत्तिरिति वाच्यम् । पक्षेण प्रकृष्टमननशीले व्यासादौ मुनिशब्दप्रयोगात् प्रकृष्टम् मननमेव मुनिशब्दार्थः । तच्च पाण्डित्यशब्दितादौपदेशिकार्थाधिगमात्, श्रवण-प्रतिष्ठार्थान्मननाच्च, अर्थान्तरभूतमालम्बनसम्शीलनात्मकमिति तस्या-प्राप्तत्वेन विधानार्हत्वाद्विधेयत्वम् युज्यते । पक्षः – परिग्रहः *पक्ष परिग्रह*(धातुपाठः) इति धातुः आदर इति यावत् । तत्कृतप्रकर्षयुक्तम् मननम् मौनम् तदेव मुनिशब्देन विधीयते । सादरमननमालम्बन-सम्शीलनम् विधीयत इत्यर्थः । विध्यादिवत् – अत्रापि विधिशब्धः कर्मसाधनः । विधिश्चासावादिश्चेति समासः । विधेयादिवदित्यर्थः । प्रस्तुतमननापेक्षया आदिर्यो विधेयः प्राक्तनो विधेयः पाण्डित्यबाल्य-लक्षणः । ततश्चायमर्थः विद्याङ्गतया यथा बाल्यपाण्डित्ये विधीयेते एवमेव मुनिशब्देनापि आलम्बनसम्शीलनलक्षणम् सादरम् मननम् सहकारि विधीयत इत्यर्थः । यद्वा विध्यादिवदित्यत्र विधिशब्देन विधेयम् यज्ञदानाद्युच्यते । आदिपदग्राह्यम् रागप्राप्तम् श्रवणम् मननञ्च । सहकार्यन्तरविधिरित्यत्र च सहकार्यन्तरेति पृथक्पदम् लुप्तविभक्तिकम् । ततश्चायमर्थः तृतीयम् मौनम् यत् तद्यजनश्रवणमननवत् बाल्यपाण्डि-त्यापेक्षया सहकार्यन्तरम् सत् अर्थान्तरम् सद्विध्यर्हमित्यर्थः । पाण्डि-त्याभिन्नत्वे ह्यनुवाद्यता स्यादित्यर्थः ।
ननु बाल्यपाण्डित्यमौनशमादिनानाश्रमधर्मभूतयज्ञाद्यङ्गिकाया विद्यायास्सर्वेष्वाश्रमेषु सम्भवात्, छान्दोग्ये *अभिसमावृत्य कुटुम्बे शुचौ देश*(छान्.८-१५-१) इत्यारभ्य *स खल्वेवम् वर्तयन् यावदायुषम् ब्रह्म-लोकमभिसम्पद्यते न च पुनरावर्तत*(छान्.८-१५-१) इति गार्हस्थ्यधर्मे-णोपसम्हारः कथमित्यत्राह ।

कृत्स्नभावात्तु गृहिणोपसम्हारः ॥ ३-४-४७ ॥

तुशब्दः पक्षम् व्यावर्तयति । कृत्स्नेस्वाश्रमेषु ब्रह्मविद्यायास्सद्भावात् छान्दोग्ये गृहस्थेनोपसम्हारः उपलक्षणार्थः । यथा छान्दोग्ये  गृहस्थ-धर्मकीर्तनमितराश्रमधर्मोपलक्षणार्थम्, एवम् बृहदारण्यके *अथ भिक्षा-चर्यम् चरन्ती*(बृह.५-५-१)ति सन्यासिधर्मकीर्तनमाश्रमधर्मान्तरोप-लक्षणार्थमित्याह ।

मौनवदितरेषामप्युपदेशात् ॥ ३-४-४८ ॥

 

अत्र मौनशब्देन मौनसमभिव्याहृतसन्यासिधर्मभूतभिक्षाचरणादिकम् लक्ष्यते । मौनवत् सन्यासिधर्मवदितरोऽप्याश्रमधर्मो विद्याङ्गमित्यर्थः । इतरेषामप्याश्रमिणाम् *ब्रह्मसम्स्थोऽमृतत्वमेती*(छान्.२-२३-१)ति ब्रह्मविद्याया मोक्षस्य चोपदेशादिति ॥

इति सहकार्यन्तरविध्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.