विहितत्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥

विहितत्वाधिकरणम् ॥८॥

विहितत्वाच्चाश्रमकर्मापि ॥ ३-४-३२ ॥

*यावज्जीवमग्निहोत्रम् जुहोती*(शाबरे आप.श्रौत.३-१४-८)ति नित्यतया विहितानामाग्निहोत्रादीनामनित्यकामनाविषयब्रह्म-विद्यार्थत्वे नित्यानित्यसम्योगविरोधात् आश्रमकर्मापेक्षया विद्यार्थानि कर्माणि भिन्नानीति पूर्वपक्षे प्राप्ते यथैकस्यैव खदिरत्वस्य *खादिरो यूपो भवति*(शा.बा.३-६-२-१२) *खादिरम् वीर्यकामस्य यूपम् कुर्यादि*  ति वचनद्वयेन क्रतौ फले च पृथग्विनियोगदर्शनात् क्रत्वर्थतया नित्य-स्यापि खदिरत्वस्यानित्यकामनाविषयवीर्यार्थत्वाविरोधः तद्वत् *यावज्जीवमग्निहोत्रम् जुहोती*( शाबरे आप.श्रौत.३-१४-८) ति नित्यतयाऽग्निहोत्रादीनाम् विहितत्वादाश्रमकर्मत्वमप्यस्ति ।

सहकारित्वेन च ॥ ३-४-३३ ॥

विविदिषावाक्येन विद्यासहकारितया विहितत्वाद्विद्यार्थत्वमप्यस्तीति स्थापितम् ।
नन्विह यथा कुण्डपायिनामयने *मासमग्निहोत्रम् जुहोती*  ति श्रुतम् मासाग्निहोत्रम् नैयमिकाग्नि होत्राद्भिद्यते तथा विविदिषा-वाक्येन विद्यार्थतया विधीयमानम् नित्यादग्निहोत्रादेरन्यदेवास्तु तत्राह –

सर्वथाऽपि त एवोभयलिङ्गात् ॥ ३-४-३४ ॥

विद्यार्थत्वे आश्रमार्थत्वेऽपि त एव यज्ञादयः प्रतिपत्तव्याः । उभयत्र यज्ञादिशब्दैः प्रत्यभिज्ञाप्यमानत्वरूपलिङ्गात्, *यज्ञेने*(बृह.६-४-२२) त्यादिशब्दैः प्रसिद्धयज्ञादिविलक्षणयज्ञादिविधाने तस्य द्रव्यदेवताद्यभावे अरूपत्वप्रसङ्गात्, तत्सद्भावे च देवतोद्देशेन द्रव्यत्यागत्वरूपयज्ञशब्द-प्रवृत्तिनिमित्तेन यज्ञशब्दमुख्यार्थतया मासाग्निहोत्रवद्गौण्यावृत्त्या कर्मान्तरम् विधीयत इति वक्तुमशक्यत्वात्, न तन्न्याय इह प्रवर्तते । अतः *यज्ञोऽध्ययनम् दानमिति प्रथमः*(छान्.२-२३-२) *यज्ञानाम् जपयज्ञोऽस्मि*(गी.१०-२५) *भोक्तारम् यज्ञतपसामि*(गी.५-२९)त्यादि-ष्विव प्रसिद्धयज्ञपरत्वमेव युक्तम् ।

अनभिभवम् च दर्शयति ॥ ३-४-३५ ॥

*धर्मेण पापमपनुदती*(तै.महाना.५० अनु)त्यादिश्रुतिश्च तानेव यज्ञादिधर्मान्निर्दिश्य तैर्विद्याया अनभिभवम् पापकर्मभिरुत्पत्तिप्रति-बन्धाभावम् दर्शयति । ततश्च प्रसिद्धस्यैवाग्निहोत्रादेर्धर्मस्य विद्योत्पत्ति प्रतिबन्धकपापापनोदहेतुत्वात्तस्यैव विद्याङ्गत्वमिति स्थितम् ॥

इति विहितत्वाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.