पुरुषार्थाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥

पुरुषार्थाधिकरणम् ॥ १ ॥


पुरुषार्थोऽतश्शब्दादिति बादरायणः ॥ ३-४-१ ॥

   गुणोपसम्हारानुपसम्हारसिद्धिहेतुभूता विद्यैकत्वनानात्वचिन्ता कृता । इदानीम् कर्माङ्गिकया विद्यया पुरुषार्थो वा, विद्याङ्गकात्कर्मण इति वेति चिन्तायाम् *ब्रह्मविदाप्नोति परम्*(तै.आन.१ अनु) *तमेवम् विद्वानमृत इह भवती*(पुरुषसूक्तम्)त्यादिश्रुतिभिः विद्ययैव पुरुषार्थ इति बादरायण आचार्यो मन्यते ।

अथ पूर्वपक्षिमतम् –

शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥ ३-४-२ ॥

विद्यायाः कर्मसु कर्तृभूतात्मस्वरूपयाथात्म्यविषयकत्वेन कर्तृ-सम्स्कारद्वारा क्रतुशेषत्वात् तत्र फलश्रवणमर्थवाद एव यथा *द्रव्यगुण-कर्मसम्स्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादस्स्यादि*(जै.मी.सू.४-३-१) ति पूर्वकाण्डोक्ताधिकरणन्यायेन अन्येषु द्रव्यादिषु फलश्रवणस्यार्थ-वादत्वम् तथाऽत्रापि वक्तुम् युक्तम् ।

आचारदर्शनात् ॥ ३ -४-३ ॥

जनकादीनाम् ब्रह्मविदग्रेसराणाम् *कर्मणैव हि सम्सिद्धिमास्थिता* (गी.३-२०)इति कर्मस्वेव प्राधान्येनानुष्ठानदर्शनात् विद्यैव कर्माङ्गम् ।

तच्छ्रुतेः ॥ ३-४-४ ॥

*यदेव विद्यया करोती*(छान्.१-१-१०)ति विद्यासामान्यस्य तृतीया-श्रुत्या कर्माङ्गत्वबोधनात् विद्याकर्माङ्गम् । न हि प्रकरणादुद्गीथमात्र-विषयत्वम् वक्तुम् शक्यम् । प्रकरणापेक्षया प्रबलया श्रुत्या विद्यासामा-न्याङ्गत्वबोधनात् ।

समन्वारम्भणात् ॥ ३-४-५ ॥

*तम् विद्याकर्मणी समन्वारभेते*(बृह.६-४-२) इति विद्याकर्मणो-स्साहित्यमेकस्मिन्नधिकारिणि विद्यायाः कर्माङ्गत्वसम्भव एव उपपन्नम् भवेत् । न च वैपरीत्यम् किम् न स्यादिति वाच्यम् ।

तद्वतो विधानात् ॥ ३-४-६ ॥

*वेदमधीत्ये*(छान्.८-१५-१)ति अध्ययनवतः कर्मविधानात् अध्यय-नस्य अर्थज्ञानपर्यन्तत्वेन अनुष्ठेयज्ञानस्य अनुष्ठानाङ्गत्वेन विद्यायाः कर्माङ्गत्वसिद्धिरिति ।

नियमात् ॥ ३-४-७ ॥

*कुर्वन्नेवेह कर्माणि जिजीविषेच्छतम् समा*(ईशवास्य.२) इति श्रुत्या कृत्स्नस्य पुरुषायुषः कर्मस्वेव विनियोगेन कर्मशेषत्वात् कर्मण एव प्राधान्यम् । अन्येषाम् तु तच्छेषत्वमिति विद्यायाः कर्मशेषत्व-सिद्धिः । एवम् प्राप्ते सिद्धान्तः –

अधिकोपदेशात्तु बादरायणस्यैवम् तद्दर्शनात् ॥ ३-४-८ ॥

विद्ययैव पुरुषार्थः । कर्मकर्तृजीवापेक्षया अनन्तकल्याणगुणाकरत्वेन विलक्षणस्य परब्रह्मण उपास्यत्वोपदेशात् । *अपहतपाप्मा विजरो विमृत्युर्विशोक*(छान्.८-१-५) इत्यादिवेदनोपदेशवाक्येषु अविद्यादि-हेयसम्बन्धयोग्यजीवापेक्षया विलक्षणस्य परब्रह्मण उपास्यत्व-दर्शनात्, तादृशपरब्रह्मविषयिण्या विद्ययैव निरतिशयपुरुषार्थसिद्धिरिति ।

तुल्यम् तु दर्शनम् ॥ ३-४-९ ॥

 

ब्रह्मविदाम् कर्मानुष्ठानवदननुष्ठानस्यापि *किमर्था वयम् यक्ष्यामह*   इत्यादिषु दर्शनात् कर्मणो विद्यापेक्षयाऽङ्गित्वे अङ्गिलोप-स्यान्याय्यत्वेन कदाचिदप्यननुष्ठानस्यान्याय्यत्वात् कर्मणाम् विद्या-ङ्गत्वमेव न्याय्यम् । न च एकस्मिन्नधिकरिणि कर्मणाम् त्यागा-नुष्ठाने कथम् सम्भवत इति वाच्यम् । फलाभिसन्धिराहित्य-साहित्याभ्यामनुष्ठानाननुष्ठानोपपत्तेरिति ।

असार्वत्रिकी ॥ ३-४-१० ॥

*यदेव विद्यया करोती*(छान्.१-१-१०)ति सामान्यतः यच्छब्देनानूदि-तस्य विद्यया क्रियमाणत्वे प्रापकप्रमाणाकाङ्क्षायाम् प्रकरणात्सन्निहित-स्योद्गीथस्यैव उपस्थितत्वेन तादृशोद्गीथविद्यामात्रविषयत्वमेव तादृशश्रुते-र्न्याय्यमिति ।

विभागश्शतवत् ॥ ३-४-११ ॥

*तम् विद्याकर्मणी समन्वारभेते*(बृह.६-४-२) इत्यत्र विभिन्नफलयोः विद्याकर्मणोः एकाधिकारिणम् प्रति साहित्यस्य क्षेत्ररत्नविक्रयणम् शत-द्वयमन्वेतीत्यत्र क्षेत्रार्थम् शतम् रत्नार्थम् शतमितिवत् उपपन्नत्वात् नाङ्गङ्गिसाहित्यमिति भावः ।

अध्ययनमात्रवतः ॥ ३-४-१२ ॥

*वेदमधीत्ये*(छान्.८-१५-१)ति अध्ययनमात्रवतो विधानात् अध्ययनविधेः अक्षरराशिग्रहणमात्र पर्यवसन्नत्वेन फलसाधनकर्मप्रति- पादकत्वात्स्वाध्यायस्य तन्निर्णयफलकविचारे पुरुषस्य स्वत एव प्रवृत्तेः कर्मज्ञानापेक्षिणः कर्मविचारे मोक्षार्थिनः ब्रह्मविचारे प्रवृत्तिरिति न विद्या कर्माङ्गम् ॥
अध्ययनविधेरर्थज्ञानपर्यन्तत्वेऽपि शास्त्रजन्यज्ञानापेक्षया उपासना-त्मकज्ञानस्य भिन्नत्वात् शास्त्रजन्यब्रह्मस्वरूपज्ञानस्य कर्माङ्गत्व-प्रसक्तिरेव नास्ति अतो न विद्या कर्माङ्गम् ।

नाविशेषात् ॥ ३-४-१३ ॥

*कुर्वन्नेवेह कर्माणी*(ईशावास्य-२)ति आत्मविदः यावज्जीवम् कर्मानुष्ठानविधानात् विद्या स्वतन्त्रफल साधनभूतकर्माङ्गमिति न युक्तम् पूर्वोक्तश्रुतेः विद्याङ्गकर्मविषयत्वेनाप्युपपत्तेः । *कर्मणैव हि सम्सिद्धिमि* (गी.३-२०)ति वाक्यस्य अङ्गिभूतोपासनस्य यावज्जीवमनुवर्तमानत्वेन अङ्गभूतकर्मणामपि यावज्जीवमनुष्ठानस्यावश्यकत्वेन विरोधाभावात् ।

स्तुतयेऽनुमतिर्वा ॥ ३-४-१४ ॥

*कुर्वन्नेवेह कर्माणी*(ईश.२)ति वाक्यस्य *ईशावास्यमिदम् सर्वमि* (ईश.१)ति विद्याप्रकरणात् विद्या माहात्म्यात् सर्वदा कर्म कुर्वन्नपि कर्मजन्यफलाश्लेष इति विद्यास्तुत्यर्थम् सर्वदा कर्मानुष्ठानानुमतिपरत्वात् न विद्या कर्माङ्गम् ।

कामकारेण चैके ॥ ३-४-१५ ॥

एके शाखिनः ब्रह्मविद्यानिष्ठस्य इच्छया गार्हस्थ्यत्यागमधीयते । विद्यायाः कर्माङ्गत्वे अङ्गानुरोधेन अङ्गित्यागस्यानुपपन्नत्वात् विद्यायाः कर्माङ्गत्वम् न सम्भवति ।

उपमर्दम् च ॥ ३-४-१६ ॥

 

*भिद्यते हृदयग्रन्थिरि*(मुण्ड.२-२-८)त्यत्र ब्रह्मविद्यया पुण्यापुण्य-रूपकर्मणाम् विनाशस्य प्रतिपादनात् कर्मविनाशिकायाः विद्यायाः विनाश्यकर्माङ्गत्वासम्भवात् न विद्या कर्माङ्गम् ।

ऊर्ध्वरेतस्सु च शब्दे हि ॥ ३-४-१७ ॥

ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्यादर्शनात् तेषाम् अग्निहोत्रादिकर्माभावात् विद्यायाः न कर्माङ्गत्वम् । न च *यावज्जीवमि*(आपस्तम्ब श्रौत.सू.३-१४-८)ति श्रुत्या अग्निहोत्रादीनाम् यावज्जीवानुष्ठानप्रतिपादनात् ऊर्ध्वरेत-स्सद्भावप्रतिपादकस्मृतेः(letter missing) श्रुतिविरुद्धत्वेनाप्रमाणत्वात्

तादृशाश्रमविशेषस्यैवासिद्धिरिति वाच्यम् । *एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ती*(बृह.६-४-२२)त्यादिश्रुत्या आश्रमविशेषप्रति-पादनात् यावज्जीवश्रुतेः तादृशाश्रमोपयुक्तवैराग्यशून्यपुरुषविषयत्वाच्च न विद्या कर्माङ्गगम् ।

परामर्शम् जैमिनिरचोदनाच्चापवदति हि ॥ ३-४-१८ ॥

*त्रयो धर्मस्कन्धा*(छान्.२-२३-१) इत्यत्र नाश्रमान्तरविधानम् । प्रकृतस्य प्रणवकरणकब्रह्मोपासनस्य स्तुत्यर्थमनुवादमात्रम् । एवम् *ये चेमेऽरण्य*(छान्.५-१०-१) इत्यस्यापि देवयानविधिपरत्वेन आश्रमान्तर-विधायकत्वाभावात् *वीरहा वा एष देवानाम् योऽग्निमुद्वासयत*(तै.यजु. सम्.१-५-२) इति ऊर्ध्वरेतोरूपाश्रमविशेषनिन्दासत्वाच्च ऊर्ध्वरेतोरूपा-श्रमविशेषस्याभावम् जैमिनिराचार्यो मन्यते ।

अनुष्ठेयम् बादरायणस्साम्यश्रुतेः ॥ ३-४-१९ ॥

गृहस्थाश्रमवदाश्रमान्तरमप्यनुष्ठेयमिति बादरायण आचार्यो मन्यते । *त्रयो धर्मस्कन्धा*(छान्.२-२३-१) । इति ब्रह्मनिष्ठस्तुत्यर्थमनुवादः गृहस्थाश्रमवदितराश्रमाणामपि समानः । अनुवादस्य प्रापकप्रमाण-सापेक्षत्वमपि इतरेषाम् समानम् । *त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनम् दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीय*(छान्. २-२३-१) इतिवाक्येन त्रित्वेन सङ्ग्रहपूर्वकम् प्रथमो द्वितीयस्तृतीय इति त्रेधाविभागान्यथानुपपत्त्या यज्ञोऽध्ययनम् दानमिति गृहस्थाश्रमस्य,  तपश्शब्देन कायक्लेशवाचिना तपः प्रधानयोः वैखानसपारिव्राज्ययोः ब्रह्मचर्यशब्देन ब्रह्मचारिधर्मवाचकेन ब्रह्मचारिणश्च, ग्रहणस्य आवश्यक-त्वेन आश्रमविशेषसद्भावस्य प्रामाणिकत्वात् ब्रह्मसम्स्थशब्दस्य ब्रह्मणि सम्स्था यस्येति व्युत्पत्त्या सर्वाश्रमिसाधारणत्वाच्च ।

विधिर्वा धारणवत् ॥ ३-४-२० ॥

*उपरि हि देवेभ्यो धारयती* त्यत्र अप्राप्तस्य उपरिधारणस्य अनुवादसजातीयवाक्येन विधानवत् आश्रमान्तरविधायकमेव त्रयो धर्म-स्कन्धा इति वाक्यमिति ऊर्ध्वरेतसाम् ब्रह्मविद्याविधानात् विद्यायाः गृहस्थाश्रमधर्माङ्गत्वाभावेन पृथक् फलसाधनत्वेन विद्यातः  पुरुषार्थ-सिद्धिरिति भावः ॥

इति पुरुषार्थाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.