श्रीभाष्यम् 02-03-07 अंशाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अंशाधिकरणम्॥७॥ (अधिकरणार्थः – जीवात्मनः परमात्मनः अंशभूताः इति साधनम्) २५८. अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके॥ २–३–४२॥ (अवान्तरसङ्गतिः अधिकरणीयः संशयश्च) जीवस्य कर्तृत्वं परमपुरुषायत्तमित्युक्तम्; इदानीं किमयं जीव: परस्मादत्यन्तभिन्न:, उत परमेव ब्रह्म भ्रान्तम्, उत ब्रह्मैवोपाध्यवच्छिन्नम्, अथ ब्रह्मांश इति संशय्यते; श्रुतिविप्रतिपत्तेस्संशय:। (अधिकरणस्य पौनरुक्त्यशङ्का – परिहारौ) ननु तदनन्यत्वमारम्भणशब्दादिभ्य: (शारी.२.१.१५) अधिकं तु भेदनिर्देशात् (शारी.२.१.२२) इत्यत्रैवायमर्थो निर्णीत:। सत्यम्, स एव नानात्वैकत्वश्रुतिविप्रतिपत्त्या आक्षिप्य […]

श्रीभाष्यम् 02-03-06 परायत्ताधिकरणम्

श्रीशारीरकमीमांसाभाष्ये परायत्ताधिकरणम्॥६॥ (अधिकरणार्थः – जीवात्मगतं विहित-निषिद्धक्रियाकर्तृत्वं परमात्माधीनम्) २५६. परात्तु तच्छ्रुते:॥ २–३–४० ॥ (एतदधिकरणविचारणीयोऽर्थः) इदं जीवस्य कर्तृत्वं किं स्वातन्त्र्येण? उत परमात्मायत्तमिति। (युक्तिसिद्धः पूर्वः पक्षः) कि प्राप्तम्? स्वातन्त्रयेणेति । परमात्मायत्तत्वे हि  विधिनिषेधशास्त्रानर्थक्यं प्रसज्येत । यो हि स्वबृुद्धया प्रवृत्तिनिवृत्त्यारम्भशक्त:; स एव नियोज्यो भवति। अत स्वातन्त्र्येणास्य कर्तृत्वम्॥ (सिद्धान्तः सूत्रार्थविवृत्त्या सह) इति प्राप्तेऽभिधीयते – परात्तु तच्छ्रुते: – इति। तुशब्द: पक्षं […]

श्रीभाष्यम् 02-03-05 कर्त्रधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कर्त्रधिकरणम्॥५॥ (अधिकरणार्थः – आत्मन एव कर्तृत्वम्, न गुणानाम् इति समर्थनम्) २४९. कर्ता शास्त्रार्थवत्वात् ॥ २–३–३३ ॥ (अवान्तरसङ्गतिप्रदर्शनम्, अधिकरणीयो विचारश्च) अयमात्मा ज्ञाता, स चाणुपरिमाण इत्युक्तम्; इदानीं किं स एव कर्ता; उत स्वयमकर्तैव सन्नचेतनानां गुणानां कर्तृत्वमात्मन्यध्यस्यतीति चिन्त्यते। (पर्वपक्षः सयुक्तिकः) किमत्र युक्तम्? अकर्तैवात्मेति। कुत:? आत्मनो ह्यकर्तृत्वम्, गुणानामेव च कर्तृत्वमध्यात्मशास्त्रेषु श्रूयते। तथाहि कठवल्लीषु जीवस्य न जायते म्रियते (कठ.२.१८) […]

श्रीभाष्यम् 02-03-04 ज्ञाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये ज्ञाधिकरणम्॥४॥ (अधिकरणार्थः – ज्ञानाश्रयत्वस्य जीवस्वरूपतानिरूपणम्) २३५. ज्ञोऽत एव ॥ २–३–१९ ॥ (अवान्तरसङ्गतिः, अधिकरणीयः संशयश्च) वियदादिवज्जीवो नोत्पद्यत इत्युक्तम्, तत्प्रसङ्गेन जीवस्वरूपं निरूप्यते। किं सुगतकपिलाभिमतचिन्मात्रमेवात्मनस्स्वरूपम्; उत कणभुगभिमतपाषाणकल्पस्वरूपं अचित्स्वभावमेव आगन्तुकचैतन्यगुणकम्; अथ ज्ञातृत्वमेवास्य स्वरूपमिति। (युक्तिसहितः पूर्वः पक्षः, चेतनस्य ज्ञानमात्रस्वरूपता) किं युक्तम्? चिन्मात्रमिति; कुत:? तथा श्रुते:। अन्तर्यामिब्राह्मणे हि य आत्मनि तिष्ठन् (बृ.५.७.२२) इति माध्यन्दिनस्य पर्यायस्य स्थाने यो विज्ञाने तिष्ठन् (बृह.५.७.२२) […]

श्रीभाष्यम् 02-03-03 आत्माधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आत्माधिकरणम्॥३॥ (अधिकरणार्थः – जीवानां उत्पत्तिविनाशराहित्येन नित्यता) २३४. नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य: ॥ २–३–१८ ॥ (अवान्तरसङ्गतिः, अधिकरणे विचारणीयोंशश्च) वियदादे: कृत्स्नस्य परस्माद्ब्रह्मण उत्पत्तिरुक्ता। इदानीं जीवस्याप्युत्पत्तिरस्ति नेति संशय्यते ॥ (पूर्वपक्षः सयुक्तिकः) कि युक्तम्? अस्तीति, कुत:, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्ते:, प्राक्सृष्टेरेकत्वावधारणाच्च। वियदादेरिव जीवस्याप्युत्पत्तिवादिन्य: श्रुतयश्च सन्ति – यत: प्रसूता जगत: प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम् (तै.उ.ना.१.१) प्रजापति: प्रजा असृजत (यजु.२.अष्ट) सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतनास्सत्प्रतिष्ठा: […]

श्रीभाष्यम् 02-03-02 तेजोधिकरणम्

श्रीशारीरकमीमांसाभाष्ये तेजोऽधिकरणम्॥२॥ (अधिकरणार्थः – तेज आदिशरीरकात् ब्रह्मण एव अबादिसृष्टिः, न केवलं तेज आदे-) २२६. तेजोऽतस्तथाह्याह ॥ २–३–१० ॥ (अवान्तरसङ्गतिः, प्रकृताधिकरणीयो विचारश्च) ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य ब्रह्मकार्यत्वमुक्तम्, इदानीं व्यवहितकार्याणां किं केवलात्तत्तदनन्तरकारणभूताद्वस्तुन उत्पत्ति:, आहोस्वित्तत्तद्रूपाद्ब्रह्मण इति चिन्त्यते। (पूर्वः पक्षः सहेतुकः) किं युक्तम्? केवलात्तत्तद्वस्तुन इति। कुत:? तेजस्तावत् अत: – मातरिश्वन एवोत्पद्यते। वायोरग्नि: (तै.उ.आन.१) इति ह्याह ॥१०॥ (अपां तेजस एव केवलात् सृष्टिशङ्का) […]

श्रीभाष्यम् 02-03-01 वियदधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये द्वितीये अविरोधाध्याये–तृतीयः वियत्पादः (अधिकरणानि – 7, सूत्राणि – 52) (पादार्थः – वियदादेः प्रपञ्चस्य ब्रह्मकार्यत्वचिन्ता) (54) वियदधिकरणम् ॥१॥ (सूत्राणि 1-9) (अधिकरणार्थः – आकाशस्य ब्रह्मकार्यत्वचिन्ता) २१७. न वियदश्रुते: ॥ २–३–१ ॥ (पादसङ्गतिप्रदर्शनम्) साङ्ख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया विप्रतिषेधाच्चासामञ्जस्यमुक्तम्; इदानीं स्वपक्षस्य विप्रतिषेधादिदोषगन्धाभावख्यापनाय ब्रह्मकार्यतयाऽभिमतचिदचिदात्मकप्रपञ्चस्य कार्यताप्रकारो विशोध्यते। (संशयाकारः) तत्र वियदुत्पद्यते, न वा – इति संशय्यते। (सयुक्तिकः पूर्वः पक्षः) किं युक्तम्? न वियदुत्पद्यत इति। […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.