श्रीभाष्यम् 02-03-03 आत्माधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आत्माधिकरणम्॥३॥

(अधिकरणार्थः – जीवानां उत्पत्तिविनाशराहित्येन नित्यता)

२३४. नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य: १८

(अवान्तरसङ्गतिः, अधिकरणे विचारणीयोंशश्च)

वियदादे: कृत्स्नस्य परस्माद्ब्रह्मण उत्पत्तिरुक्ता। इदानीं जीवस्याप्युत्पत्तिरस्ति नेति संशय्यते ॥

(पूर्वपक्षः सयुक्तिकः)

कि युक्तम्? अस्तीति, कुत:, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्ते:, प्राक्सृष्टेरेकत्वावधारणाच्च। वियदादेरिव जीवस्याप्युत्पत्तिवादिन्य: श्रुतयश्च सन्ति – यत: प्रसूता जगत: प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम् (तै.उ.ना.१.१) प्रजापति: प्रजा असृजत (यजु.२.अष्ट) सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतनास्सत्प्रतिष्ठा: (छा.६.८.४) यतो वा इमानि भूतानि जायन्ते (तै.उ.भृगु-१) इति। एवं सचेतनस्य जगत उत्पत्तिवचनात् जीवस्याप्युत्पत्ति: प्रतीयते।

(जीवब्रह्माभेदतः, जीवनित्यत्वशङ्का-परिहारौ)

न च वाच्यं – ब्रह्मणो नित्यत्वात् तत्त्वमस्यादिभिश्च जीवस्य ब्रह्मत्वावगमाज्जीवस्य नित्यत्वम् – इति ऐतदात्म्यिमदं सर्वम् (छा.६.८.७) सर्वं खल्विदं ब्रह्म (छा.३.१४.१) इत्येवमादिभिर्वियदादेरपि ब्रह्मत्वावगमात्तस्यापि नित्यत्वप्रसक्ते:। अतो जीवोऽपि वियदादिवत् उत्पद्यत इति॥

(अधिकरणीयः सिद्धान्तः)

एवं प्राप्तेऽभिधीयते नात्मा श्रुते: – इति। नात्मोत्पद्यते; कुत:? श्रुते: जायते म्रियते वा विपश्चित् (कठ.२.१८) ज्ञाज्ञौ द्वावजौ, (श्वेत.२.९) इत्यादिभिर्जीवस्योत्पत्तिप्रतिषेधो हि श्रूयते। आत्मनो नित्यत्वं च ताभ्य: श्रुतिभ्य एवावगम्यते नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (श्वेत.६.१३) अजो नित्यश्शाश्वतोऽयं पुराणो हन्यते हन्यमाने शरीरे, (कठ.२.१८) इत्यादिभ्य:। अतश्च नात्मोत्पद्यते।

(अधिकरणद्वयार्थनिगमनम्)

कथं तर्ह्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपद्यते; इत्थमुपपद्यते जीवस्यापि कार्यत्वात्कार्यकारणयोरनन्यत्वाच्च। एवं तर्हि वियदादिवदुत्पत्तिमत्त्वमङ्गीकृतं स्यात्; नेत्युच्यते – कार्यत्वं हि नामैकस्य द्रव्यस्यावस्थान्तरापत्ति:, तज्जीवस्याप्यस्त्येव। इयांस्तु विशेष: – वियदादेरचेतनस्य यादृशोऽन्यथाभावो न तादृशो जीवस्य; ज्ञानसङ्कोचविकासलक्षणो जीवस्यान्यथाभाव:; वियदादेस्तु स्वरूपान्यथाभावलक्षण:। सेयं स्वरूपान्यथाभावलक्षणोत्पत्तिर्जीवे प्रतिषिध्यते।

(आत्मनो नित्यत्वे एकविज्ञानतः सर्वविज्ञानानुपपत्तिशङ्का-तत्परिहारौ)

एतदुक्तं भवति – भोग्यभोक्तृनियन्तॄन् विविक्तस्वभावान् प्रतिपाद्य भोग्यगतमुत्पत्त्यादिकं, भोक्तरि प्रतिषिध्य तस्य नित्यतां च प्रतिपाद्य भोग्यगतमुत्पत्त्यादिकं, भोक्तृगतं चापुरुषार्थाश्रयत्वं नियन्तरि प्रतिषिध्य तस्य नित्यत्वं, निरवद्यत्वं सर्वदा सर्वज्ञत्वं, सत्यसङ्कल्पत्वं, करणाधिपाधिपत्वं, विश्वस्य पतित्वं च प्रतिपाद्य सर्वावस्थयोश्चिदचितोस्तं प्रति शरीरत्वं तस्य चात्मत्वं प्रतिपादितम् ॥

(ब्रह्मण एव कार्यत्व-कारणत्वयोर्विवेकः)

अतस्सर्वदा चिदचिद्वस्तुतया तत्प्रकारं ब्रह्म। तत्कदाचित्स्वस्माद्विभक्त-व्यपदेशानर्हातिसूक्ष्मदशापन्नचिदचिद्वस्तु शरीरं तिष्ठति; तत्कारणावस्थं ब्रह्म। कदाचिच्च विभक्तनामरूपस्थूलचिदचिद्वस्तुशरीरम्; तच्च कार्यावस्थम्। तत्र कारणावस्थस्य कार्यावस्थापत्तौ अचिदंशस्य कारणावस्थायां शब्दादिविहीनस्य भोग्यत्वाय शब्दादिमत्तया स्वरूपान्यथा-भावरूपविकारो भवति। चिदंशस्य च कर्मफलविशेषभोक्तृत्वाय तदनुरूपज्ञानविकासरूपविकारो भवति। उभयप्रकारविशिष्टे नियन्त्रंशे तदवस्थतदुभय-विशिष्टतारूपविकारो भवति ॥

(ब्रह्मणः कार्यत्वप्रकारविवेचनम्)

कारणावस्थाया अवस्थान्तरापत्तिरूपो विकार: प्रकारद्वये प्रकारिणि च समान:। अत एवैकस्यावस्थान्तरापत्तिरूपविकारापेक्षया येनाश्रुतं श्रुतम् (छा.६.१.३) इत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय मृदादिदृष्टान्तो यथा सोम्यैकेन (छां.६-१-४) इत्यादिना निदर्शित: ॥

(उत्पत्त्यनुत्पत्त्यादिपरश्रुतिविषयविभागः)

ईदृशज्ञानसङ्कोचविकासकरतत्तद्देहसम्बन्धवियोगाभिप्राया: जीवस्योत्पत्तिमरणवादिन्य:, प्रजापति: प्रजा असृजत (तै.यजु.अष्ट-२) इत्याद्या: श्रुतय:। अचिदंशवत्स्वरूपान्यथात्वाभावाभिप्राया उत्पत्तिप्रतिषेधवादिन्यो नित्यत्ववादिन्यश्च जायते म्रियते (कठ.२.१८) इत्याद्या:, नित्यो नित्यानाम् (श्वेत.६.१३) इत्याद्याश्च श्रुतय: ।

स्वरूपान्यथात्वज्ञानसङ्कोचविकासरूपोभयविधानिष्टविकाराभावाभिप्राया: वा एष महानज आत्माऽजरोऽमरोऽमृतो ब्रह्म (बृह.६.४.२५) नित्यो नित्यानाम् (श्वे.६.१३) इत्याद्या: परविषया: श्रुतय:।

(सदा विशिष्टस्याऽपि ब्रह्मणः, प्राक् सृष्टेरेकत्वोपपत्तिः)

एवं सर्वदा चिदचिद्वस्तुविशिष्टस्य ब्रह्मण: प्राक्सृष्टेरेकत्वावधारणं च नामरूपविभागाभावादुपपद्यते।

तद्धेदं तह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत (बृह.३.४.७) इति हि  नामरूपविभाग-भावाभावाभ्यां नानात्वैकत्वे वदति – इति।

(अद्वैतकारणत्रयेऽपि एकत्वावधारणनिर्वाहस्य अविशिष्टता)

ये त्वविद्योपाधिकं जीवत्वं वदन्ति, ये च पारमार्थिकोपाधिकृतम्, ये च सन्मात्रस्वरूपं ब्रह्म स्वयमेव भोक्तृभोग्यनियन्तृरूपेण त्रिधाऽवस्थितं वदन्ति; सर्वेऽप्येते अविद्याशक्तेरुपाधिशक्तेर्भोक्तृभोग्यनियन्तृशक्तीनां च प्रलयकालेऽवस्थानेऽपि तदानीमेकत्वावधारणं नामरूपविभागाभावादेव उपपादयन्ति । वैषम्यनैर्घृण्ये सापेक्षत्वात् (ब्र.सू.२.१.३४) कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युलभ्यते (ब्र.सू.२.१.३५) इति सूत्राभ्यां जीवभेदस्य तत्कर्मप्रवाहस्य चानादित्वाभ्युपगमाच्च।

(विशिष्टाद्वैतिनां त्रिविधाद्वैतिनां च विशेषः)

इयान्विशेष: – एकस्यानाद्यविद्यया ब्रह्म स्वयमेव मुह्यति, अन्यस्य पारमार्थिकानाद्युपाधिना ब्रह्मस्वरूपमेव बध्यते, उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तराभावात्। अपरस्य ब्रह्मैव  विचित्राकारेण परिणमते, कर्मफलानि चानिष्टानि भुङ्क्ते नियन्त्रंशस्य भोक्तृत्वाभावेऽपि सर्वज्ञत्वात्स्वस्मादभिन्नं भोक्तारमनुसंदधातीति स्वयमेव भुङ्क्ते, अस्माकं तु स्थूलसूक्ष्मावस्थ-चिदचिद्वस्तुशरीरं ब्रह्म कार्यकारणोभयावस्थावस्थितमपि सर्वदा निरस्तनिखिलदोषगन्धं सत्यसङ्कल्पत्वाद्यपरिमितोदार-गुणसागरमवतिष्ठते। प्रकारभूतचिदचित् वस्तुगता: अपुरुषार्था: स्वरूपान्यथाभावाश्चेति सर्वं समञ्जसम्॥१८॥

इति श्रीशारीरकमीमांसाभाष्ये आत्माधिकरणम्॥३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.