श्रीभाष्यम् 02-03-06 परायत्ताधिकरणम्

श्रीशारीरकमीमांसाभाष्ये परायत्ताधिकरणम्॥६॥

(अधिकरणार्थः – जीवात्मगतं विहित-निषिद्धक्रियाकर्तृत्वं परमात्माधीनम्)

२५६. परात्तु तच्छ्रुते: ४०

(एतदधिकरणविचारणीयोऽर्थः)

इदं जीवस्य कर्तृत्वं किं स्वातन्त्र्येण? उत परमात्मायत्तमिति।

(युक्तिसिद्धः पूर्वः पक्षः)

कि प्राप्तम्? स्वातन्त्रयेणेति । परमात्मायत्तत्वे हि  विधिनिषेधशास्त्रानर्थक्यं प्रसज्येत । यो हि स्वबृुद्धया प्रवृत्तिनिवृत्त्यारम्भशक्त:; स एव नियोज्यो भवति। अत स्वातन्त्र्येणास्य कर्तृत्वम्॥

(सिद्धान्तः सूत्रार्थविवृत्त्या सह)

इति प्राप्तेऽभिधीयते – परात्तु तच्छ्रुते: – इति। तुशब्द: पक्षं व्यावर्तयति; तत् -कर्तृत्वं अस्य – जीवस्य परात् – परमात्मन एव हेतोर्भवति, कुत:? श्रुते: –  अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा (तै.आर.३.११.१०) आत्मनि तिष्ठन्नात्मनोमन्तरो यमात्मा वेद यस्यात्मा शरीरं आत्मानमन्तरो यमयति आत्माऽन्तर्याम्यमृत: (बृ.५.७.२२) इति। स्मृतिरपि – सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृति: ज्ञानमपोहनं (भ.गी.१५.१५) ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया (भ.गी.१८-६१) इति॥४०॥

(पूर्वपक्षोक्तायाः युक्तेः अनूद्य निरासः)

नन्वेवं  विधिनिषेधशास्त्रानर्थक्यं प्रसज्येतेत्युक्तम्; तत्राह –

२५७. कृतप्रयत्नापेक्षस्तु  विहितप्रतिषिद्धावैयर्थ्यादिभ्य: ४१

सर्वासु क्रियासु पुरुषेण कृतं प्रयत्नम् उद्योगमपेक्ष्यान्तर्यामी परमात्मा तदनुमतिदानेन प्रवर्तयति। परमात्मानुमतिमन्तरेणास्य प्रवृत्तिर्नोपपद्यत इत्यर्थ:।

कुत एतत्?  विहितप्रतिषिद्धावैयर्थ्यादिभ्य: – आदिशब्देनानुग्रहनिग्रहादयो गृह्यन्ते। यथा द्वयोस्साधारणे धने परस्वत्वापादनमन्यतरानुमतिमन्तरेण नोपपद्यते; अथापीतरानुमते: स्वेनैव कृतमिति तत्फलं स्वस्यैव भवति ।

पापकर्मसु निवर्तनशक्तस्याप्यनुमन्तृत्वं न निर्दयत्वमावहतीति साङ्ख्यसमयनिरूपणे प्रतिपादितम्  ॥

(परमात्मनः जीवीयप्रथमप्रवृत्तावौदासीन्ये, श्रुतिविरोध-तत्परिहारौ)

नन्वेवम् एष ह्येव साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति एष एवासाधु कर्म कारयति तं यमधो निनीषति (कौषी.३.९) इत्युन्निनीषयाऽधोनिनीषया च स्वयमेव साध्वसाधुनी कर्मणी कारयतीत्येतन्नोपपद्यते। उच्यते – एतन्न सर्वसाधारणम्, यस्त्वतिमात्रपरमपुरुषानुकूल्ये व्यवस्थित: प्रवर्तते; तमनुगृह्णन् भगवान् स्वयमेव स्वप्राप्त्युपायेष्वतिकल्याणेषु कर्मस्वेव रुचिं जनयति। यश्चातिमात्रप्रातिकूल्ये व्यवस्थित: प्रवर्तते; तं निगृह्णन् स्वप्राप्तिविरोधिगतिसाधनेषु कर्मसु रुचिं जनयति । यथोक्तं भगवता स्वयमेव अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बृुधा भावसमन्विता: (भ.गी.१०.८) इत्यारभ्य तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बृुद्धियोगं तं येन मामुपयान्ति ते (भ.गी.१०-१०) तेषामेवानुकम्पार्थमहमज्ञानजं तम: नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता (भ.गी.१०.११) इति । तथा असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् (भ.गी.१६.८) इत्यादि मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: (भ.गी.१६.१८) इत्यन्तमुक्त्वा तानहं द्विषत: क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु (भ.गी.१६.१९) इत्युक्तम्॥ ४०॥

इति श्री शारीरकमीमांसाभाष्ये परायत्ताधिकरणम्॥६॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.