श्रीभाष्यम् 02-03-01 वियदधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये द्वितीये अविरोधाध्यायेतृतीयः वियत्पादः

(अधिकरणानि – 7, सूत्राणि – 52)

(पादार्थः – वियदादेः प्रपञ्चस्य ब्रह्मकार्यत्वचिन्ता)

(54) वियदधिकरणम् ॥१॥

(सूत्राणि 1-9)

(अधिकरणार्थः – आकाशस्य ब्रह्मकार्यत्वचिन्ता)

२१७. वियदश्रुते:

(पादसङ्गतिप्रदर्शनम्)

साङ्ख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया विप्रतिषेधाच्चासामञ्जस्यमुक्तम्; इदानीं स्वपक्षस्य विप्रतिषेधादिदोषगन्धाभावख्यापनाय ब्रह्मकार्यतयाऽभिमतचिदचिदात्मकप्रपञ्चस्य कार्यताप्रकारो विशोध्यते।

(संशयाकारः)

तत्र वियदुत्पद्यते, न वा – इति संशय्यते।

(सयुक्तिकः पूर्वः पक्षः)

किं युक्तम्? न वियदुत्पद्यत इति। कुत:? अश्रुते:; संभावितस्य हि श्रवणसंभव:; असंभावितस्य तु गगनकुसुमवियदुत्पत्त्यादे: शब्दाभिधेयत्वं न संभवति। न खलु निरवयवस्य सर्वगतस्याकाशस्य आत्मन इवोत्पत्तिर्निरूपयितुं शक्यते  ॥

(पूर्वपक्षनिर्वाहः, उत्पत्तिश्रुतेरर्थविरोधश्च)

अत एव उत्पत्त्यसंभवात् छान्दोग्ये सृष्टिप्रकारे तेज:प्रभृतीनामेवोत्पत्तिराम्नायते – तदैक्षत  बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा.६-२-३) इति। तैत्तरीयकाथर्वणादिषु तस्माद्वा एतस्मादात्मन आकाशस्संभूत: (तै.आन.१.अनु) एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि खं वायुर्ज्योतिराप: (मु.२-१-३) इत्यादिषु श्रूयमाणा वियदुत्पत्ति: अर्थविरोधाद्बाध्यत इति॥१॥

(श्रुत्या वियदुत्पत्तेस्सिद्धान्तः)

एवं प्राप्तेऽभिधीयते –

२१८. अस्ति तु

अस्ति तु आकाशस्योत्पत्ति:; अतीन्द्रियार्थविषया हि श्रुति: प्रमाणान्तराप्रतीतामपि वियदुत्पत्तिं प्रतिपादयितुं समर्थैव। न च श्रुतिप्रतिपन्नेऽर्थे तद्विरोधि निरवयवत्वादिहेतुकं अनुत्पत्त्यनुमानमुदेतुं अलम्; आत्मनोऽनुत्पत्तिर्न निरवयवत्वप्रयुक्तेति वक्ष्यते ॥२॥

(आकाशोत्पत्तिश्रुतेः गौणत्वशङ्का)

पुनश्चोदयति –

२१९. गौण्यसम्भवाच्छब्दाच्च

तस्माद्वा एतस्मादात्मन आकाशस्संभूत: (तै.उ.आन.१.अनु) इत्यादिवियदुत्पत्तिश्रुतिर्गौणीति कल्पयितुं युक्तम्, तत्तेजोऽसृजत (छा.६.२.३) इति सिसृक्षो: ब्रह्मण: प्रथमं तेज उत्पद्यत इति तेज उत्पत्तिप्राथम्येन वियदुत्पत्तिप्रतिपादनासम्भवात्, वायुश्चान्तरिक्षं चैतदमृतम् (बृ.४.३.३) इति वियतोऽमृतत्वशब्दाच्च॥३॥

(‘सम्भूत’ शब्दस्यैकस्य आकाशांशे गौणत्वस्य अग्न्यंशे मुख्यतायाश्चानुपपत्तिः)

कथमेकस्य संभूतशब्दस्य आकाशापेक्षया गौणत्वम्, अग्न्याद्यपेक्षया मुख्यत्वमिति चेत् तत्राह –

२२०. स्याच्चैकस्य ब्रह्मशब्दवत्।२४॥

एकस्यैव तस्माद्वा एतस्मादात्मन आकाशस्संभूत: (तै.उ.आन.१) इत्याकाशे मुख्यत्वासंभवात् गौणतया प्रयुक्तस्य सम्भूतशब्दस्य वायोरग्नि: (तै.उ.आन.१) इत्यादिष्वनुषक्तस्य मुख्यत्वं स्यादेव; ब्रह्मशब्दवत् – यथा ब्रह्मशब्द:, तस्मादेतद्ब्रह्म नाम रूपमन्नं जायते (मु.१.१.९) इत्यत्र प्रधाने गौणतया प्रयुक्तस्तस्मिन्नेव प्रकरणे तपसा चीयते ब्रह्म ततोऽन्नमभिजायते (मु.१.१.८) इति ब्रह्मणि मुख्यतया प्रयुज्यते; तद्वत्। अनुषङ्गे च श्रवणावृत्ताविवाभिधानावृत्तिर्विद्यत एवेत्यर्थ:॥४॥

(वियदनुत्पत्तिशङ्कायाः परिहारः)

परिहरति –

२२१. प्रतिज्ञाहानिरव्यतिरेकात्

छान्दोग्यश्रुत्यनुसारेणान्यासां वियदुत्पत्तिवादिनीनां श्रुतीनां गौणत्वं कल्पयियतुं न युज्यते, यत: छान्दोग्यश्रुत्यैव वियदुत्पत्तिरङ्गीकृता, येनाश्रुतं श्रुतम् (छा.६.१.३) इत्यादिना ब्रह्मविज्ञानेन सर्वविज्ञान-प्रतिज्ञानात्। तस्या हि प्रतिज्ञाया: अहानिराकाशस्यापि ब्रह्मकार्यत्वेन तदव्यतिरेकादेव भवति॥४॥

(छान्दोग्यश्रुतितः आकाशोत्पत्तिप्रतीतिः)

२२२. शब्देभ्य: ६॥

इतश्च वियदुत्पत्ति: छान्दोग्ये प्रतीयते, सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.६.२.१) इति प्राक्सृष्टेरेकेत्वावधारणशब्दात्; ऐतदात्म्यमिदं सर्वम् (छा.६.८.७) इत्येवमादिशब्देभ्यश्च कार्यत्वेन ब्रह्मणोऽव्यतिरेकप्रतीते:। नच तत्तेजोऽसृजत (छा.६.२.३) इति तेजस उत्पत्तिश्रुतिर्वियदुत्पत्तिं वारयति। वियदुत्पत्यवचनमात्रेण तेजस: प्रतीयमानं प्राथम्यं श्रुत्यन्तरप्रतिपन्नां वियदुत्पत्तिं न निवारियतुमलम्॥६॥

(सर्वस्यापि कार्यताश्रुत्या आकाशस्यापि कार्यत्वावश्यंभावः)

२२३. यावद्विकारन्तु विभागो लोकवत् ७॥

तुशब्दाश्चार्थे, एैतदात्म्यमिदं सर्वम् (छां.६.८.७) इत्यादिभिराकाशस्य विकारत्ववचनेन तस्याकाशस्य ब्रह्मणो विभाग: उत्पत्तिरप्युक्तैव। लोकवत् – यथा लोके एते सर्वे देवदत्तपुत्रा इत्यभिधाय तेषु केषाञ्चित्तत उत्पत्तिवचनेन सर्वेषामुत्पत्तिरुक्ता स्यात्, तद्वत्। एवं व सति वायुश्चान्तिरक्षञ्चैतदमृतम् (बृ.४.३.३) इति सुराणामिव चिरकालस्थायित्वाभिप्रायम्॥७॥

(आकाशोत्पत्तिसिद्ध्या वायूत्पत्तेरुक्तप्रायता)

२२४. एतेन मातिरश्वा व्याख्यात:

अनेनैव हेतुना मातरिश्वनो वायोरप्युत्पत्तिर्व्याख्याता। वियन्मातिरश्वनो: पृथग्योगकरणं तेजोऽतस्तथाह्याह (ब्र.सू.२.३.१०) इति मातरिश्वपरामर्शार्थम्॥८॥

(उत्पत्तेरभावः ब्रह्ममात्रवृत्तिता)

२२५. असम्भवस्तु सतोऽनुपपत्ते:

तुशब्दोऽवधारणार्थ:; असम्भव: – अनुत्पत्ति:। सत: – ब्रह्मण एव; तद्व्यतिरिक्तस्य कस्यचिदप्यनुत्पत्तिर्न सम्भवति, अनुपपत्ते:। एतदुक्तं भवति  – वियन्मातिरश्वनोरुत्पत्तिप्रतिपादनं उदाहरणार्थम्; उत्पत्त्यसम्भवस्तु सत: परमकारणस्य परस्यैव ब्रह्मण: । तद्व्यतिरिक्तस्य कृत्स्नस्याव्यक्तमहदहङ्कारतन्मात्रेन्द्रियवियत्पवनादिकस्य प्रपञ्चस्यैकविज्ञानेन सर्वविज्ञान-प्रतिज्ञादिभिरवगतकार्यभावस्यानुत्पत्तिर्नोपपद्यत इति॥९॥

इति श्रीशारीरकमीमांसाभाष्ये वियदधिकरणम्॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.