श्रीभाष्यम् 03-03-06 समानाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये समानाधिकरणम्॥६॥ (अधिकरणार्थः – अग्निरहस्य-बृहदारण्यकोक्तयोः शाण्डिल्यविद्ययोरैक्यम्) ३७३. समान एवं चाभेदात् ॥ ३–३–१९ ॥ (विचारणीयविषयोपस्थापनम्) वाजसनेयके अग्निरहस्ये शाण्डिल्यविद्याऽऽम्नाता सत्यं ब्रह्मेत्युपासीत, अथ खलु क्रतुमयोऽयं पुरुष: (वाजसनेयके अग्निरहस्ये १०.६) इत्यारभ्य स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम् (वाजसनेयके अग्निरहस्ये १०.६) इति । तथा तस्मिन्नेव बृहदारण्यके पुनरपि शाण्डिल्यविद्याऽऽम्नायते मनोमयोऽयं पुरुषो भास्सत्यं तस्मिन्नन्तर्हृादये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी […]
श्रीभाष्यम् 03-03-05 कार्याख्यानाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये कार्याख्यानाधिकरणम्॥५॥ (प्राणवासस्त्वदृष्टिविद्या छा. 5.2, बृ. 8.1.14) (अधिकरणार्थः – आचमनीयानां अपां प्राणं प्रति वासस्त्वानुसन्धानस्याप्राप्तस्य विधिः, न तु आचमनस्य) ३७२. कार्याख्यानादपूर्वम्॥३–३–१८॥ (विचारणीयविषयोपस्थापनम्) पूर्वप्रस्तुतप्राणविद्याशेषभूतमिदानीं चिन्त्यते। छान्दोग्यवाजसनेयकयो: ज्येष्ठं च श्रेष्ठं च प्राणमुपास्यमुक्त्वा प्राणस्य वासस्त्वेनापोऽभिधीयन्ते; छान्दोग्ये तावत् स होवाच किं मे वासो भविष्यतीति । आप इति होचु: । तस्माद्वा एतदशिष्यन्त: पुरस्ताच्चोपरिष्टाच्चाद्भि: परिदधति । लम्भुको ह वासो भवत्यनग्नो भवति (छा.५.२.२) […]
श्रीभाष्यम् 03-03-04 आनन्दाद्यधिकरणम्
श्रीशारीरकमीमांसाभाष्ये आनन्दाद्यधिकरणम्॥४॥ (आनन्दमयविद्या – तै.उ. आन) (अधिकरणार्थः – आनन्दादिब्रह्मगुणानां सर्वासु परविद्यासूपसंहारः) (ससङ्गतिः सूत्रावतरणिका) प्राणाविद्याविषयमन्यदपि निरूपणमनन्तरमेव करिष्यते। यथा प्राणस्य वसिष्ठत्वाद्यनुसन्धानेन विना ज्यैष्ठ्यश्रैष्ठ्यानुसन्धनानुपपत्तेरनुक्तानामपि वसिष्ठत्वादीनां कौषीतकिप्राणविद्यायां प्राप्ति:; तथा ब्रह्मस्वरूपानुसन्धानं यैर्गुणैर्विना नोपपद्यते; ते ब्रह्मविद्यासु सर्वास्वप्यनुसन्धेया इत्ययमर्थ: – प्रतिपाद्यते। ३६५. आनन्दादय: प्रधानस्य ॥ ३–३–११ ॥ (विचारणीयो विषयः) अत्र ब्रह्मस्वरूपगुणानां सर्वासु परविद्यासूपसंहारोऽस्ति, नेति विचार्यते। (पूर्वपक्षः युक्तिसहितः) अप्रकरणाधीतानामुपसंहारे प्रमाणाभावात्प्रकरणश्रुतानामेवोपसंहार इति। (सिद्धान्तः सयुक्तिकः) […]
श्रीभाष्यम् 03-03-03 सर्वाभेदाधिकरणम्
श्रीशारीरमीमांसाभाष्ये सर्वाभेदाधिकरणम्॥३॥ (ज्येष्ठश्रेष्ठप्राणविद्या छा.उ. 5-1, बृ.उ. 8-1-14) (अधिकरणार्थः – कौषीतकिप्राणविद्याया छान्दोग्य-वाजसनेयगतप्राणविद्ययोः न नानात्वम्, प्रकारभेदात्) ३६४. सर्वाभेदादन्यत्रेमे ॥ ३–३–१० ॥ छान्दोग्यवाजसनेयकयो: प्राणविद्या आम्नायते यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च (छा.५.१.१) इत्यादि। तत्र ज्यैष्ठ्यश्रैष्ठ्यगुणकं प्राणमुपास्यं प्रतिपाद्य वाक्चक्षुश्श्रोत्रमनस्सु वसिष्ठत्वप्रतिष्ठात्वसम्पत्त्वायतनात्वाख्यान् गुणान् प्रतिपाद्य वागादीनां देहस्य च प्राणायत्तस्थितित्वेन तदायत्ततत्तत्कार्यत्वेन च […]
श्रीभाष्यम् 03-03-02 अन्यथात्वाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अन्यथात्वाधिकरणम्॥२॥ (उद्गीथप्राणविद्या उद्गातृप्राणविद्या च छा.उ. 1-2 बृ.उ. 3-3) (अधिकरणार्थः – वाजसनेयक-छान्दोग्यगतयोः उद्गीथविद्ययोर्नानात्वम्) ३६०. अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ३–३–६ ॥ (अवान्तरसङ्गतिः) एवं चोदनाद्यविशेषाद्विद्यैकत्वम्, एकत्वे च गुणोपसंहार: कर्तव्य इत्युक्तम्; अत: परं काश्चन विद्या अधिकृत्य प्रत्यभिज्ञाहेतुभूतचोदनाद्यविशेषोऽस्ति, नेति निरूप्य निर्णीयते। (विचारणीयविषयोपस्थापने तच्छुद्धीकरणं च) अस्त्युद्गीथविद्या वाजिनां छन्दोगानां च । वाजिनां तावत् द्वया ह प्राजापत्या देवाश्चासुराश्च (बृ.३.३.१) इत्यारभ्य ते ह […]
श्रीभाष्यम् 03-03-01 सर्ववेदान्तप्रत्ययाधिकरणम्
श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये तृतीये साधनाध्याये तृतीय: गुणोपसंहारपाद: । (अधिकरणानि 26, सूत्राणि 64) (पादार्थः – ब्रह्मोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदाभेदचिन्ता) सर्ववेदान्तप्रत्ययाधिकरणम्॥१॥ (अधिकरणार्थः – ब्रह्मोपासनानां गुणोपसंहार-विकल्पनिर्णयाय विद्याभेदाभेदचिन्ता) ३५५. सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ ३–३–१ ॥ (पादसङ्गत्यर्थमनुवादः) उक्तं ब्रह्मोपासिसिषोपजननाय वक्तव्यं ब्रह्मण: फलदायित्वपर्यन्तम्; इदानीं ब्रह्मोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदचिन्ता प्रस्तूयते। (प्रथमाधिकरणकृत्यविचार्यम्) प्रथमं तावदेकस्या वैश्वानरविद्यादिकाया अनेकशाखासु श्रूयमाणाया: किमेकविद्यात्वम्, उत विद्याभेद इति चिन्त्यते । (पूर्वपक्षः सयुक्तिकः) अविशेषपुनश्श्रवणस्य प्रकरणान्तरस्य च […]