श्रीभाष्यम् 03-03-03 सर्वाभेदाधिकरणम्

श्रीशारीरमीमांसाभाष्ये सर्वाभेदाधिकरणम्॥३॥

(ज्येष्ठश्रेष्ठप्राणविद्या छा.उ. 5-1, बृ.उ. 8-1-14)

(अधिकरणार्थः – कौषीतकिप्राणविद्याया छान्दोग्य-वाजसनेयगतप्राणविद्ययोः न नानात्वम्, प्रकारभेदात्)

३६४. सर्वाभेदादन्यत्रेमे १०

छान्दोग्यवाजसनेयकयो: प्राणविद्या आम्नायते  यो वै ज्येष्ठं श्रेष्ठं वेद ज्येष्ठश्च वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च (छा.५.१.१) इत्यादि। तत्र ज्यैष्ठ्यश्रैष्ठ्यगुणकं प्राणमुपास्यं प्रतिपाद्य वाक्चक्षुश्श्रोत्रमनस्सु वसिष्ठत्वप्रतिष्ठात्वसम्पत्त्वायतनात्वाख्यान् गुणान् प्रतिपाद्य वागादीनां देहस्य च प्राणायत्तस्थितित्वेन तदायत्ततत्तत्कार्यत्वेन च प्राणस्य श्रैष्ठ्यं प्रतिपाद्य वागादि सम्बन्धितया श्रुतान्वसिष्ठत्वादीन् गुणांश्च प्राणसम्बन्धितया प्रतिपादयति। एवं छान्दोग्यवाजसनेयकयोर्ज्यैष्ठ्यश्रैष्ठ्यगुणको वसिष्ठत्वादिगुणकश्च प्राण उपास्य: प्रतिपाद्यते। कौषीतकिनां तु प्राणविद्यायां तथैव ज्यैष्ठ्यश्रैष्ठ्यगुणक: प्राण: उपास्य: प्रतिपादित:; न पुनर्वसिष्ठत्वादयो वागादिसम्बन्धिनो गुणा: प्राणसम्बन्धितया प्रतिपादिता:।

(प्रकृताधिकरणीयः संशयः)

तत्र संशय: – किमत्र विद्या भिद्यते, उत  नेति।

(सयुक्तिकः पूर्वपक्षः)

किं युक्तम्? भिद्यत इति । कुत:? रूपभेदात्। यद्यप्युभयत्र प्राण एव ज्यैष्ठ्यश्रैष्ठ्यगुणक उपास्य:; तथाप्येकत्र वसिष्ठत्वादिभिरपि गुणैर्युक्त: प्राण उपास्य: प्रतीयते; इतरत्र तु तद्विधुर इत्युपास्यरूपभेदाद्विद्याभेद: –

(सिद्धान्तारम्भः प्रकाराभेदतो विद्याया अभेदः)

इति प्राप्ते ब्रूम:- सर्वाभेदादन्यत्रेमे – नात्र विद्याभेद:, अन्यत्र कौषीतकिनां प्राणविद्यायामपि इमे – वसिष्ठत्वादयो गुणा उपास्यास्सन्ति, कुत:? सर्वाभेदात् – प्रतिज्ञातप्राणज्यैष्ठ्योपपादनप्रकारस्य सर्वस्य तत्राप्यभेदात्। तथाहि – छन्दोगवाजसनेयिनां प्राणविद्यायाम्  एता वै देवता अहंश्रेयसे व्यूदिरे (छा.५.१.६) अहंश्रेयसे विवदमाना: (बृ.८.१.७) इति चोपक्रम्य वागाद्येकैकापक्रमणे अन्येषां सप्राणानामिन्द्रियाणां शरीरस्य च स्थितिं तत्तत्कार्यं चाविकलं प्रतिपाद्य प्राणोत्क्रमणे सर्वेषां विशरणमकार्यकरत्वं चाभिधाय सर्वेषां प्राणाधीनस्थितित्वतदधीनकार्यत्वाभ्यां प्राणस्य ज्यैष्ठ्यमुपपादितम्।

(उक्तार्थस्यैव श्रौतता)

एवमुपपादितं वागादिकार्यस्य प्राणाधीनत्वम् – अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसि (छां.१.५.१३) इत्यादिना वागादिभिरनूद्यते। कौषीतकिनां प्राणविद्यायामपि प्राणज्यैष्ठ्यश्रैष्ठ्यप्रतिपादनाय वागादिषु वसिष्ठत्वादय: प्रतिपादिता: ।  अथ हेमा देवता: प्रजापतिं पितरमेत्याब्रुवन् को वै न: श्रेष्ठ: इत्यादिना वागादिगता गुणा वागादयश्च देहश्च प्राणाधीना इति प्राणस्य ज्यैष्ठ्यमुपपादितम् । वागादिभि: स्वस्वगुणानां वसिष्ठत्वादीनां प्राणाधीनत्वानुवादमात्रं तु कृतम् । नैतावता रूपभेद:, वागादीनां वसिष्ठत्वादिगुणान्वितानां प्राणाधीनकार्यत्वोपपादनेनैव प्राणस्य वागादिवसिष्ठत्वादिगुणहेतुत्वस्य  सिद्धत्वात् । तदेव हि प्राणस्य वसिष्ठत्वादि-गुणयोगित्वम्; यद्वागादिवसिष्ठत्वादिहेतुत्वम्। अतोऽत्रापि वसिष्ठत्वादिगुणयोगात्प्राणो ज्येष्ठ: प्रतिपन्न इति नास्ति विद्याभेद:॥१०॥

इति श्रीशारीरकमीमांसाभाष्ये सर्वाभेदाधिकरणम्॥ ३॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.