श्रीभाष्यम् 03-03-07 सम्बन्धाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सम्बन्धाधिकरणम्॥७॥

(व्याहृतिशरीरकाक्ष्यादित्यविद्या – बृ. 7-4, 5)

 (अधिकरणार्थः – उपासनाधिष्ठानभेदात् विद्याभेदनिरूपणम्)

३७४. सम्बन्धादेवमन्यत्रापि २०

(प्रकृतविचारणीयविषयोपस्थापनम्)

बृहदारण्यके श्रूयते – सत्यं ब्रह्म (बृ.७.४२) इत्युपक्रम्य  तद्यत्सत्यमसौ आदित्यो एष एतस्मिन्मण्डले पुरुषो, यश्चायं दक्षिणेऽक्षन् (बृ.७.५.१) इत्युपक्रम्य आदित्यमण्डलेऽक्षिणि च सत्यस्य ब्रह्मणो व्याहृतिशरीरत्वेनोपास्यत्वमुक्त्वा  तस्योपनिषदहरित्यधिदैवतम् (बृ.७.५.३)  तस्योपनिषदहमिति अध्यात्मम् (बृ.७.५.३) इति द्वे उपनिषदौ – रहस्यनामनी उपासनशेषतया आम्नायेते ।

(विचारणीयविषये संशयः)

ते किं यथाश्रुतस्थानविशेषनियतत्वेन व्यवस्थिते, उत उभयत्र उभे  अनियमेनेति संशये

(पूर्वपक्षः सूत्रतः)

सत्यस्य, व्याहृतिशरीरस्यैवोपास्यस्य ब्रह्मणो द्वयो: स्थानयोस्सम्बन्धादुपास्यैक्येन रूपाभेदात् संयोगाद्यभेदाच्च विद्यैक्यादनियमेनेति प्राप्तम् । तदिदमुच्यते – सम्बन्धादेवमन्यत्रापीति।

(सूत्रवाक्यार्थविवरणम्)

यथा मनोमयत्वादिगुणविशिष्टस्यैकत्वादुपास्यैक्येन रूपाभेदाद्विद्यैक्याद्गुणोपसंहार:; एवमन्यत्राक्ष्यादित्यसम्बन्धिनो ब्रह्मणस्सत्यस्यैकत्वेन विद्यैक्यादुभयोरुभयत्रोपसंहार: इति ॥२०॥

(सिद्धान्तारम्भः)

एवं प्राप्ते प्रचक्ष्महे –

३७५. वा विशेषात् २१

न वा एतदस्ति –  यद्विद्यैक्यादुपसंहार: इति । कुत:? विशेषात् – उपास्यरूपविशेषात्। ब्रह्मण एकत्वेऽप्येकत्रादित्यमण्डलस्थतया उपास्यत्वम्; इतरत्राक्ष्याधारतयोपास्यत्वमिति स्थानसम्बन्धित्वभेदेन रूपभेदाद्विद्याभेद: । नैवं शाण्डिल्यविद्याया: उपास्यस्थानं भिद्यते, उभयत्र हृदयाधारत्वेनोपास्यत्वात् । अतो व्यवस्थिते इति ॥२१॥

(श्रुत्या उक्तार्थदृढीकरणम्)

३७६. दर्शयति २२

दर्शयति चाक्ष्याधारादित्याधारयोर्गुणानुपसंहारं  तस्यैतस्य तदेव रूपं यदमुष्य रूपम् (छां.१.७.५) इत्यादिना रूपाद्यतिदेशेन । स्वतो ह्यप्राप्तावतिदेशेन प्राप्त्यपेक्षा॥२२॥

इति श्रीशारीरकमीमांसाभाष्ये सम्बन्धाधिकरणम्

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.