श्रीभाष्यम् 03-03-18 प्रदानाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये प्रदानाधिकरणम् ॥१८॥

(अधिकरणार्थः – हविस्त्यागपार्थक्ये इन्द्रादीनामिव, प्रतिगुणचिन्तनं परमात्मचिन्तनावृत्तिः)

३९६. प्रदानवदेव तदुक्तम् ४२ (सि)

(विचारणीयविषयनिर्देशः)

दहरविद्यायां – तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् (छा.८.१.६) इति दहराकाशस्य परमात्मन उपासनमुक्त्वा  एतांश्च सत्यान्कामान् (छां.८.१.६) इति गुणानामपि पृथगुपासनं विहितम् ।

(विचारौपयिकस्संशयः)

तत्र संशय: – गुणचिन्तनेऽपि तत्तद्गुणविशिष्टतया दहरस्यात्मनश्चिन्तनमावर्तनीयम्, उत नेति।

(पूर्वः पक्षः)

दहराकाशस्यैव अपहतपाप्मत्वादीनां गुणित्वात्तस्य च सकृदेवानुसन्धातुं शक्यत्वाद्गुणार्थं तच्चिन्तनं नावर्तनीयम् –

(सदृष्टान्तोपपत्तिकः सिद्धान्तः)

इति प्राप्ते उच्यते प्रदानवदेव – इति। प्रदानवदावर्तनीयमेवेत्यर्थ: । यद्यपि दहराकाश एक एवापहतपाप्मत्वादिगुणानां गुणी; स च प्रथमं चिन्तित:; तथाऽपि स्वरूपमात्राद्गुणविशिष्टाकारस्य भिन्नत्वात् अपहतपाप्मा विजर: (छा.८.१.५) इत्यादिना गुणविशिष्टतया चोपास्यत्वेन विहितत्वात्पूर्वं स्वरूपेणानुसंहितस्यापहतपाप्मत्वादिविशिष्टतयाऽनुसन्धानार्थमावृत्ति: कर्तव्या, यथा  इन्द्राय राज्ञे पुरोडाशमेकादशकपालं निर्वपेत् , इन्द्रायाधिराजाय, इन्द्राय स्वराज्ञे (यजु.२.३.६) इतीन्द्रस्यैव राजत्वादिगुणविशिष्टत्वेऽपि तत्तद्गुणसम्बन्ध्याकारस्य भिन्नत्वात्प्रदानावृत्ति: क्रियते; तदुक्तं साङ्कर्षणे  नाना वा देवता पृथक्त्वात् (संक.काण्डे) इति ॥४२॥

इति श्रीशारीरकमीमांसाभाष्ये प्रदानाधिकरणम्॥१८॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.